धृतराष्ट्र उवाच:
तथा प्रविष्टं तरुणं सौभद्रमपराजितम् |
१ क
धृतराष्ट्र उवाच:
कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपलाय़िनम् ||
१ ख
धृतराष्ट्र उवाच:
आजानेय़ैः सुवलिभिर्युक्तमश्वैस्त्रिहाय़नैः |
२ क
धृतराष्ट्र उवाच:
प्लवमानमिवाकाशे के शूराः समवारय़न् ||
२ ख
सञ्जय़ उवाच:
अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः |
३ क
सञ्जय़ उवाच:
अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः ||
३ ख
सञ्जय़ उवाच:
तं तु द्रोणः कृपः कर्णो द्रौणिश्च सवृहद्वलः |
४ क
सञ्जय़ उवाच:
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारय़न् ||
४ ख
सञ्जय़ उवाच:
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् |
५ क
सञ्जय़ उवाच:
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ||
५ ख
सञ्जय़ उवाच:
सौभद्रमितरे वीरमभ्यवर्षञ्शराम्वुभिः |
६ क
सञ्जय़ उवाच:
तालमात्राणि चापानि विकर्षन्तो महारथाः ||
६ ख
सञ्जय़ उवाच:
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् |
७ क
सञ्जय़ उवाच:
व्यष्टम्भय़द्रणे वाणैः सौभद्रः परवीरहा ||
७ ख
सञ्जय़ उवाच:
द्रोणं पञ्चाशता विद्ध्वा विंशत्या च वृहद्वलम् |
८ क
सञ्जय़ उवाच:
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ||
८ ख
सञ्जय़ उवाच:
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः |
९ क
सञ्जय़ उवाच:
अविध्यद्दशभिर्वाणैरश्वत्थामानमार्जुनिः ||
९ ख
सञ्जय़ उवाच:
स कर्णं कर्णिना कर्णे पीतेन निशितेन च |
१० क
सञ्जय़ उवाच:
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ||
१० ख
सञ्जय़ उवाच:
पातय़ित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी |
११ क
सञ्जय़ उवाच:
अथैनं दशभिर्वाणैः प्रत्यविध्यत्स्तनान्तरे ||
११ ख
सञ्जय़ उवाच:
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् |
१२ क
सञ्जय़ उवाच:
पुत्राणां तव वीराणां पश्यतामवधीद्वली ||
१२ ख
सञ्जय़ उवाच:
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पय़त् |
१३ क
सञ्जय़ उवाच:
वरं वरममित्राणामारुजन्तमभीतवत् ||
१३ ख
सञ्जय़ उवाच:
स तु वाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष |
१४ क
सञ्जय़ उवाच:
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ||
१४ ख
सञ्जय़ उवाच:
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः |
१५ क
सञ्जय़ उवाच:
उग्रैर्नाकम्पय़द्विद्ध्वा मैनाकमिव पर्वतम् ||
१५ ख
सञ्जय़ उवाच:
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः |
१६ क
सञ्जय़ उवाच:
प्रत्यविध्यन्महातेजा वलवानपकारिणम् ||
१६ ख
सञ्जय़ उवाच:
तस्मिन्द्रोणो वाणशतं पुत्रगृद्धी न्यपातय़त् |
१७ क
सञ्जय़ उवाच:
अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे ||
१७ ख
सञ्जय़ उवाच:
कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश |
१८ क
सञ्जय़ उवाच:
वृहद्वलस्तु पञ्चाशत्कृपः शारद्वतो दश ||
१८ ख
सञ्जय़ उवाच:
तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः |
१९ क
सञ्जय़ उवाच:
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ||
१९ ख
सञ्जय़ उवाच:
तं कोसलानामधिपः कर्णिनाताडय़द्धृदि |
२० क
सञ्जय़ उवाच:
स तस्याश्वान्ध्वजं चापं सूतं चापातय़त्क्षितौ ||
२० ख
सञ्जय़ उवाच:
अथ कोसलराजस्तु विरथः खड्गचर्मधृत् |
२१ क
सञ्जय़ उवाच:
इय़ेष फाल्गुनेः काय़ाच्छिरो हर्तुं सकुण्डलम् ||
२१ ख
सञ्जय़ उवाच:
स कोसलानां भर्तारं राजपुत्रं वृहद्वलम् |
२२ क
सञ्जय़ उवाच:
हृदि विव्याध वाणेन स भिन्नहृदय़ोऽपतत् ||
२२ ख
सञ्जय़ उवाच:
वभञ्ज च सहस्राणि दश राजन्महात्मनाम् |
२३ क
सञ्जय़ उवाच:
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ||
२३ ख
सञ्जय़ उवाच:
तथा वृहद्वलं हत्वा सौभद्रो व्यचरद्रणे |
२४ क
सञ्जय़ उवाच:
विष्टम्भय़न्महेष्वासान्योधांस्तव शराम्वुभिः ||
२४ ख