सञ्जय़ उवाच:
महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ |
१ क
सञ्जय़ उवाच:
हतमाधिरथिं मेने सङ्ख्ये गाण्डीवधन्वना ||
१ ख
सञ्जय़ उवाच:
तावभ्यनन्दत्कौन्तेय़ः साम्ना परमवल्गुना |
२ क
सञ्जय़ उवाच:
स्मितपूर्वममित्रघ्नः पूजय़न्भरतर्षभ ||
२ ख
युधिष्ठिर उवाच:
स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय़ |
३ क
युधिष्ठिर उवाच:
प्रिय़ं मे दर्शनं वाढं युवय़ोरच्युतार्जुनौ ||
३ ख
युधिष्ठिर उवाच:
अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम् |
४ क
युधिष्ठिर उवाच:
आशीविषसमं युद्धे सर्वशस्त्रविशारदम् ||
४ ख
युधिष्ठिर उवाच:
अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च |
५ क
युधिष्ठिर उवाच:
रक्षितं वृषसेनेन सुषेणेन च धन्विना ||
५ ख
युधिष्ठिर उवाच:
अनुज्ञातं महावीर्यं रमेणास्त्रेषु दुर्जय़म् |
६ क
युधिष्ठिर उवाच:
त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे ||
६ ख
युधिष्ठिर उवाच:
हन्तारमरिसैन्यानाममित्रगणमर्दनम् |
७ क
युधिष्ठिर उवाच:
दुर्योधनहिते युक्तमस्मद्युद्धाय़ चोद्यतम् ||
७ ख
युधिष्ठिर उवाच:
अप्रधृष्यं महाय़ुद्धे देवैरपि सवासवैः |
८ क
युधिष्ठिर उवाच:
अनलानिलय़ोस्तुल्यं तेजसा च वलेन च ||
८ ख
युधिष्ठिर उवाच:
पातालमिव गम्भीरं सुहृदानन्दवर्धनम् |
९ क
युधिष्ठिर उवाच:
अन्तकाभममित्राणां कर्णं हत्वा महाहवे |
९ ख
युधिष्ठिर उवाच:
दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ ||
९ ग
युधिष्ठिर उवाच:
तेन युद्धमदीनेन मय़ा ह्यद्याच्युतार्जुनौ |
१० क
युधिष्ठिर उवाच:
कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता ||
१० ख
युधिष्ठिर उवाच:
तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी |
११ क
युधिष्ठिर उवाच:
हतवाहः कृतश्चास्मि युय़ुधानस्य पश्यतः ||
११ ख
युधिष्ठिर उवाच:
धृष्टद्युम्नस्य यमय़ोर्वीरस्य च शिखण्डिनः |
१२ क
युधिष्ठिर उवाच:
पश्यतां द्रौपदेय़ानां पाञ्चालानां च सर्वशः ||
१२ ख
युधिष्ठिर उवाच:
एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्वहून् |
१३ क
युधिष्ठिर उवाच:
जितवान्मां महावाहो यतमानं महारणे ||
१३ ख
युधिष्ठिर उवाच:
अनुसृत्य च मां युद्धे परुषाण्युक्तवान्वहु |
१४ क
युधिष्ठिर उवाच:
तत्र तत्र युधां श्रेष्ठः परिभूय़ न संशय़ः ||
१४ ख
युधिष्ठिर उवाच:
भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय़ |
१५ क
युधिष्ठिर उवाच:
वहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे ||
१५ ख
युधिष्ठिर उवाच:
त्रय़ोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय़ |
१६ क
युधिष्ठिर उवाच:
न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ||
१६ ख
युधिष्ठिर उवाच:
तस्य द्वेषेण संय़ुक्तः परिदह्ये धनञ्जय़ |
१७ क
युधिष्ठिर उवाच:
आत्मनो मरणं जानन्वाध्रीणस इव द्विपः ||
१७ ख
युधिष्ठिर उवाच:
यस्याय़मगमत्कालश्चिन्तय़ानस्य मे विभो |
१८ क
युधिष्ठिर उवाच:
कथं शक्यो मय़ा कर्णो युद्धे क्षपय़ितुं भवेत् ||
१८ ख
युधिष्ठिर उवाच:
जाग्रत्स्वपंश्च कौन्तेय़ कर्णमेव सदा ह्यहम् |
१९ क
युधिष्ठिर उवाच:
पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत् ||
१९ ख
युधिष्ठिर उवाच:
यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय़ |
२० क
युधिष्ठिर उवाच:
तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ||
२० ख
युधिष्ठिर उवाच:
सोऽहं तेनैव वीरेण समरेष्वपलाय़िना |
२१ क
युधिष्ठिर उवाच:
सहय़ः सरथः पार्थ जित्वा जीवन्विसर्जितः ||
२१ ख
युधिष्ठिर उवाच:
को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनः |
२२ क
युधिष्ठिर उवाच:
ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना ||
२२ ख
युधिष्ठिर उवाच:
न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संय़ुगे |
२३ क
युधिष्ठिर उवाच:
तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ||
२३ ख
युधिष्ठिर उवाच:
तत्त्वा पृच्छामि कौन्तेय़ यथा ह्यकुशलस्तथा |
२४ क
युधिष्ठिर उवाच:
तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वय़ा हतः ||
२४ ख
युधिष्ठिर उवाच:
शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः |
२५ क
युधिष्ठिर उवाच:
रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः ||
२५ ख
युधिष्ठिर उवाच:
महारथः समाख्यातः सर्वय़ुद्धविशारदः |
२६ क
युधिष्ठिर उवाच:
धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः ||
२६ ख
युधिष्ठिर उवाच:
पूजितो धृतराष्ट्रेण सपुत्रेण विशां पते |
२७ क
युधिष्ठिर उवाच:
सदा त्वदर्थं राधेय़ः स कथं निहतस्त्वय़ा ||
२७ ख
युधिष्ठिर उवाच:
धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन |
२८ क
युधिष्ठिर उवाच:
तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः ||
२८ ख
युधिष्ठिर उवाच:
स त्वय़ा पुरुषव्याघ्र कथं युद्धे निषूदितः |
२९ क
युधिष्ठिर उवाच:
तं ममाचक्ष्व वीभत्सो यथा कर्णो हतस्त्वय़ा ||
२९ ख
युधिष्ठिर उवाच:
सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम् |
३० क
युधिष्ठिर उवाच:
त्वय़ा पुरुषशार्दूल शार्दूलेन यथा रुरोः ||
३० ख
युधिष्ठिर उवाच:
यः पर्युपासीत्प्रदिशो दिशश्च; त्वां सूतपुत्रः समरे परीप्सन् |
३१ क
युधिष्ठिर उवाच:
दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः ||
३१ ख
युधिष्ठिर उवाच:
त्वय़ा रणे निहतः सूतपुत्रः; कच्चिच्छेते भूमितले दुरात्मा |
३२ क
युधिष्ठिर उवाच:
कच्चित्प्रिय़ं मे परमं त्वय़ाद्य; कृतं रणे सूतपुत्रं निहत्य ||
३२ ख
युधिष्ठिर उवाच:
यः सर्वतः पर्यपतत्त्वदर्थे; मदान्वितो गर्वितः सूतपुत्रः |
३३ क
युधिष्ठिर उवाच:
स शूरमानी समरे समेत्य; कच्चित्त्वय़ा निहतः संय़ुगेऽद्य ||
३३ ख
युधिष्ठिर उवाच:
रौक्मं रथं हस्तिवरैश्च युक्तं; रथं दित्सुर्यः परेभ्यस्त्वदर्थे |
३४ क
युधिष्ठिर उवाच:
सदा रणे स्पर्धते यः स पापः; कच्चित्त्वय़ा निहतस्तात युद्धे ||
३४ ख
युधिष्ठिर उवाच:
योऽसौ नित्यं शूरमदेन मत्तो; विकत्थते संसदि कौरवाणाम् |
३५ क
युधिष्ठिर उवाच:
प्रिय़ोऽत्यर्थं तस्य सुय़ोधनस्य; कच्चित्स पापो निहतस्त्वय़ाद्य ||
३५ ख
युधिष्ठिर उवाच:
कच्चित्समागम्य धनुःप्रमुक्तै; स्त्वत्प्रेषितैर्लोहितार्थैर्विहङ्गैः |
३६ क
युधिष्ठिर उवाच:
शेतेऽद्य पापः स विभिन्नगात्रः; कच्चिद्भग्नो धार्तराष्ट्रस्य वाहुः ||
३६ ख
युधिष्ठिर उवाच:
योऽसौ सदा श्लाघते राजमध्ये; दुर्योधनं हर्षय़न्दर्पपूर्णः |
३७ क
युधिष्ठिर उवाच:
अहं हन्ता फल्गुनस्येति मोहा; त्कच्चिद्धतस्तस्य न वै तथा रथः ||
३७ ख
युधिष्ठिर उवाच:
नाहं पादौ धावय़िष्ये कदा चि; द्यावत्स्थितः पार्थ इत्यल्पवुद्धिः |
३८ क
युधिष्ठिर उवाच:
व्रतं तस्यैतत्सर्वदा शक्रसूनो; कच्चित्त्वय़ा निहतः सोऽद्य कर्णः ||
३८ ख
युधिष्ठिर उवाच:
योऽसौ कृष्णामव्रवीद्दुष्टवुद्धिः; कर्णः सभाय़ां कुरुवीरमध्ये |
३९ क
युधिष्ठिर उवाच:
किं पाण्डवांस्त्वं न जहासि कृष्णे; सुदुर्वलान्पतितान्हीनसत्त्वान् ||
३९ ख
युधिष्ठिर उवाच:
यत्तत्कर्णः प्रत्यजानात्त्वदर्थे; नाहत्वाहं सह कृष्णेन पार्थम् |
४० क
युधिष्ठिर उवाच:
इहोपय़ातेति स पापवुद्धिः; कच्चिच्छेते शरसम्भिन्नगात्रः ||
४० ख
युधिष्ठिर उवाच:
कच्चित्सङ्ग्रामे विदितो वा तदाय़ं; समागमः सृञ्जय़कौरवाणाम् |
४१ क
युधिष्ठिर उवाच:
यत्रावस्थामीदृशीं प्रापितोऽहं; कच्चित्त्वय़ा सोऽद्य हतः समेत्य ||
४१ ख
युधिष्ठिर उवाच:
कच्चित्त्वय़ा तस्य सुमन्दवुद्धे; र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः |
४२ क
युधिष्ठिर उवाच:
सकुण्डलं भानुमदुत्तमाङ्गं; काय़ात्प्रकृत्तं युधि सव्यसाचिन् ||
४२ ख
युधिष्ठिर उवाच:
यत्तन्मय़ा वाणसमर्पितेन; ध्यातोऽसि कर्णस्य वधाय़ वीर |
४३ क
युधिष्ठिर उवाच:
तन्मे त्वय़ा कच्चिदमोघमद्य; ध्यातं कृतं कर्णनिपातनेन ||
४३ ख
युधिष्ठिर उवाच:
यद्दर्पपूर्णः स सुय़ोधनोऽस्मा; नवेक्षते कर्णसमाश्रय़ेण |
४४ क
युधिष्ठिर उवाच:
कच्चित्त्वय़ा सोऽद्य समाश्रय़ोऽस्य; भग्नः पराक्रम्य सुय़ोधनस्य ||
४४ ख
युधिष्ठिर उवाच:
यो नः पुरा षण्ढतिलानवोच; त्सभामध्ये पार्थिवानां समक्षम् |
४५ क
युधिष्ठिर उवाच:
स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये; त्वय़ा हतः सूतपुत्रोऽत्यमर्षी ||
४५ ख
युधिष्ठिर उवाच:
यः सूतपुत्रः प्रहसन्दुरात्मा; पुराव्रवीन्निर्जितां सौवलेन |
४६ क
युधिष्ठिर उवाच:
स्वय़ं प्रसह्यानय़ याज्ञसेनी; मपीह कच्चित्स हतस्त्वय़ाद्य ||
४६ ख
युधिष्ठिर उवाच:
यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां; पितामहं व्याक्षिपदल्पचेताः |
४७ क
युधिष्ठिर उवाच:
सङ्ख्याय़मानोऽर्धरथः स कच्चि; त्त्वय़ा हतोऽद्याधिरथिर्दुरात्मा ||
४७ ख
युधिष्ठिर उवाच:
अमर्षणं निकृतिसमीरणेरितं; हृदि श्रितं ज्वलनमिमं सदा मम |
४८ क
युधिष्ठिर उवाच:
हतो मय़ा सोऽद्य समेत्य पापधी; रिति व्रुवन्प्रशमय़ मेऽद्य फल्गुन ||
४८ ख