धृतराष्ट्र उवाच:
पृच्छामि त्वां सञ्जय़ राजमध्ये; किमव्रवीद्वाक्यमदीनसत्त्वः |
१ क
धृतराष्ट्र उवाच:
धनञ्जय़स्तात युधां प्रणेता; दुरात्मनां जीवितच्छिन्महात्मा ||
१ ख
सञ्जय़ उवाच:
दुर्योधनो वाचमिमां शृणोतु; यदव्रवीदर्जुनो योत्स्यमानः |
२ क
सञ्जय़ उवाच:
युधिष्ठिरस्यानुमते महात्मा; धनञ्जय़ः शृण्वतः केशवस्य ||
२ ख
सञ्जय़ उवाच:
अन्वत्रस्तो वाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः |
३ क
सञ्जय़ उवाच:
अवोचन्मां योत्स्यमानः किरीटी; मध्ये व्रूय़ा धार्तराष्ट्रं कुरूणाम् ||
३ ख
सञ्जय़ उवाच:
ये वै राजानः पाण्डवाय़ोधनाय़; समानीताः शृण्वतां चापि तेषाम् |
४ क
सञ्जय़ उवाच:
यथा समग्रं वचनं मय़ोक्तं; सहामात्यं श्रावय़ेथा नृपं तम् ||
४ ख
सञ्जय़ उवाच:
यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे |
५ क
सञ्जय़ उवाच:
तथाशृण्वन्पाण्डवाः सृञ्जय़ाश्च; किरीटिना वाचमुक्तां समर्थाम् ||
५ ख
सञ्जय़ उवाच:
इत्यव्रवीदर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः |
६ क
सञ्जय़ उवाच:
न चेद्राज्यं मुञ्चति धार्तराष्ट्रो; युधिष्ठिरस्याजमीढस्य राज्ञः |
६ ख
सञ्जय़ उवाच:
अस्ति नूनं कर्म कृतं पुरस्ता; दनिर्विष्टं पापकं धार्तराष्ट्रैः ||
६ ग
सञ्जय़ उवाच:
येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव |
७ क
सञ्जय़ उवाच:
शैनेय़ेन ध्रुवमात्ताय़ुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च |
७ ख
सञ्जय़ उवाच:
युधिष्ठिरेणेन्द्रकल्पेन चैव; योऽपध्यानान्निर्दहेद्गां दिवं च ||
७ ग
सञ्जय़ उवाच:
तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तोऽर्थः सकलः पाण्डवानाम् |
८ क
सञ्जय़ उवाच:
मा तत्कार्षीः पाण्डवार्थाय़ हेतो; रुपैहि युद्धं यदि मन्यसे त्वम् ||
८ ख
सञ्जय़ उवाच:
यां तां वने दुःखशय़्यामुवास; प्रव्राजितः पाण्डवो धर्मचारी |
९ क
सञ्जय़ उवाच:
आशिष्यते दुःखतरामनर्था; मन्त्यां शय़्यां धार्तराष्ट्रः परासुः ||
९ ख
सञ्जय़ उवाच:
ह्रिय़ा ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन |
१० क
सञ्जय़ उवाच:
अन्याय़वृत्तः कुरुपाण्डवेय़ा; नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ||
१० ख
सञ्जय़ उवाच:
माय़ोपधः प्रणिधानार्जवाभ्यां; तपोदमाभ्यां धर्मगुप्त्या वलेन |
११ क
सञ्जय़ उवाच:
सत्यं व्रुवन्प्रीतिय़ुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ||
११ ख
सञ्जय़ उवाच:
यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत्तं वर्षपूगान्सुघोरम् |
१२ क
सञ्जय़ उवाच:
अवस्रष्टा कुरुषूद्वृत्तचेता; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
१२ ख
सञ्जय़ उवाच:
कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत्कक्षमग्निर्निदाघे |
१३ क
सञ्जय़ उवाच:
एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य ||
१३ ख
सञ्जय़ उवाच:
यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम् |
१४ क
सञ्जय़ उवाच:
दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
१४ ख
सञ्जय़ उवाच:
महासिंहो गाव इव प्रविश्य; गदापाणिर्धार्तराष्ट्रानुपेत्य |
१५ क
सञ्जय़ उवाच:
यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
१५ ख
सञ्जय़ उवाच:
महाभय़े वीतभय़ः कृतास्त्रः; समागमे शत्रुवलावमर्दी |
१६ क
सञ्जय़ उवाच:
सकृद्रथेन प्रतिय़ाद्रथौघा; न्पदातिसङ्घान्गदय़ाभिनिघ्नन् ||
१६ ख
सञ्जय़ उवाच:
सैन्याननेकांस्तरसा विमृद्न; न्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम् |
१७ क
सञ्जय़ उवाच:
छिन्दन्वनं परशुनेव शूर; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
१७ ख
सञ्जय़ उवाच:
तृणप्राय़ं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य |
१८ क
सञ्जय़ उवाच:
पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं वलौघम् ||
१८ ख
सञ्जय़ उवाच:
हतप्रवीरं विमुखं भय़ार्तं; पराङ्मुखं प्राय़शोऽधृष्टय़ोधम् |
१९ क
सञ्जय़ उवाच:
शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
१९ ख
सञ्जय़ उवाच:
उपासङ्गादुद्धरन्दक्षिणेन; परःशतान्नकुलश्चित्रय़ोधी |
२० क
सञ्जय़ उवाच:
यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
२० ख
सञ्जय़ उवाच:
सुखोचितो दुःखशय़्यां वनेषु; दीर्घं कालं नकुलो यामशेत |
२१ क
सञ्जय़ उवाच:
आशीविषः क्रुद्ध इव श्वसन्भृशं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
२१ ख
सञ्जय़ उवाच:
त्यक्तात्मानः पार्थिवाय़ोधनाय़; समादिष्टा धर्मराजेन वीराः |
२२ क
सञ्जय़ उवाच:
रथैः शुभ्रैः सैन्यमभिद्रवन्तो; दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ||
२२ ख
सञ्जय़ उवाच:
शिशून्कृतास्त्रानशिशुप्रकाशा; न्यदा द्रष्टा कौरवः पञ्च शूरान् |
२३ क
सञ्जय़ उवाच:
त्यक्त्वा प्राणान्केकय़ानाद्रवन्त; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
२३ ख
सञ्जय़ उवाच:
यदा गतोद्वाहमकूजनाक्षं; सुवर्णतारं रथमातताय़ी |
२४ क
सञ्जय़ उवाच:
दान्तैर्युक्तं सहदेवोऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ||
२४ ख
सञ्जय़ उवाच:
महाभय़े सम्प्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम् |
२५ क
सञ्जय़ उवाच:
सर्वां दिशं सम्पतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
२५ ख
सञ्जय़ उवाच:
ह्रीनिषेधो निपुणः सत्यवादी; महावलः सर्वधर्मोपपन्नः |
२६ क
सञ्जय़ उवाच:
गान्धारिमार्च्छंस्तुमुले क्षिप्रकारी; क्षेप्ता जनान्सहदेवस्तरस्वी ||
२६ ख
सञ्जय़ उवाच:
यदा द्रष्टा द्रौपदेय़ान्महेषू; ञ्शूरान्कृतास्त्रान्रथय़ुद्धकोविदान् |
२७ क
सञ्जय़ उवाच:
आशीविषान्घोरविषानिवाय़त; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
२७ ख
सञ्जय़ उवाच:
यदाभिमन्युः परवीरघाती; शरैः परान्मेघ इवाभिवर्षन् |
२८ क
सञ्जय़ उवाच:
विगाहिता कृष्णसमः कृतास्त्र; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
२८ ख
सञ्जय़ उवाच:
यदा द्रष्टा वालमवालवीर्यं; द्विषच्चमूं मृत्युमिवापतन्तम् |
२९ क
सञ्जय़ उवाच:
सौभद्रमिन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
२९ ख
सञ्जय़ उवाच:
प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः |
३० क
सञ्जय़ उवाच:
यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
३० ख
सञ्जय़ उवाच:
वृद्धौ विराटद्रुपदौ महारथौ; पृथक्चमूभ्यामभिवर्तमानौ |
३१ क
सञ्जय़ उवाच:
यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
३१ ख
सञ्जय़ उवाच:
यदा कृतास्त्रो द्रुपदः प्रचिन्व; ञ्शिरांसि यूनां समरे रथस्थः |
३२ क
सञ्जय़ उवाच:
क्रुद्धः शरैश्छेत्स्यति चापमुक्तै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
३२ ख
सञ्जय़ उवाच:
यदा विराटः परवीरघाती; मर्मान्तरे शत्रुचमूं प्रवेष्टा |
३३ क
सञ्जय़ उवाच:
मत्स्यैः सार्धमनृशंसरूपै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
३३ ख
सञ्जय़ उवाच:
ज्येष्ठं मात्स्यानामनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात् |
३४ क
सञ्जय़ उवाच:
यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
३४ ख
सञ्जय़ उवाच:
रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शन्तनूजे |
३५ क
सञ्जय़ उवाच:
न जातु नः शत्रवो धारय़ेय़ु; रसंशय़ं सत्यमेतद्व्रवीमि ||
३५ ख
सञ्जय़ उवाच:
यदा शिखण्डी रथिनः प्रचिन्व; न्भीष्मं रथेनाभिय़ाता वरूथी |
३६ क
सञ्जय़ उवाच:
दिव्यैर्हय़ैरवमृद्नन्रथौघां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
३६ ख
सञ्जय़ उवाच:
यदा द्रष्टा सृञ्जय़ानामनीके; धृष्टद्युम्नं प्रमुखे रोचमानम् |
३७ क
सञ्जय़ उवाच:
अस्त्रं यस्मै गुह्यमुवाच धीमा; न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ||
३७ ख
सञ्जय़ उवाच:
यदा स सेनापतिरप्रमेय़ः; पराभवन्निषुभिर्धार्तराष्ट्रान् |
३८ क
सञ्जय़ उवाच:
द्रोणं रणे शत्रुसहोऽभिय़ाता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
३८ ख
सञ्जय़ उवाच:
ह्रीमान्मनीषी वलवान्मनस्वी; स लक्ष्मीवान्सोमकानां प्रवर्हः |
३९ क
सञ्जय़ उवाच:
न जातु तं शत्रवोऽन्ये सहेर; न्येषां स स्यादग्रणीर्वृष्णिसिंहः ||
३९ ख
सञ्जय़ उवाच:
व्रूय़ाच्च मा प्रवृणीष्वेति लोके; युद्धेऽद्वितीय़ं सचिवं रथस्थम् |
४० क
सञ्जय़ उवाच:
शिनेर्नप्तारं प्रवृणीम सात्यकिं; महावलं वीतभय़ं कृतास्त्रम् ||
४० ख
सञ्जय़ उवाच:
यदा शिनीनामधिपो मय़ोक्तः; शरैः परान्मेघ इव प्रवर्षन् |
४१ क
सञ्जय़ उवाच:
प्रच्छादय़िष्यञ्शरजालेन योधां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
४१ ख
सञ्जय़ उवाच:
यदा धृतिं कुरुते योत्स्यमानः; स दीर्घवाहुर्दृढधन्वा महात्मा |
४२ क
सञ्जय़ उवाच:
सिंहस्येव गन्धमाघ्राय़ गावः; संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः ||
४२ ख
सञ्जय़ उवाच:
स दीर्घवाहुर्दृढधन्वा महात्मा; भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् |
४३ क
सञ्जय़ उवाच:
अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति ||
४३ ख
सञ्जय़ उवाच:
चित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूय़ान् |
४४ क
सञ्जय़ उवाच:
यथाविधं योगमाहुः प्रशस्तं; सर्वैर्गुणैः सात्यकिस्तैरुपेतः ||
४४ ख
सञ्जय़ उवाच:
हिरण्मय़ं श्वेतहय़ैश्चतुर्भि; र्यदा युक्तं स्यन्दनं माधवस्य |
४५ क
सञ्जय़ उवाच:
द्रष्टा युद्धे सात्यकेर्वै सुय़ोधन; स्तदा तप्स्यत्यकृतात्मा स मन्दः ||
४५ ख
सञ्जय़ उवाच:
यदा रथं हेममणिप्रकाशं; श्वेताश्वय़ुक्तं वानरकेतुमुग्रम् |
४६ क
सञ्जय़ उवाच:
द्रष्टा रणे संय़तं केशवेन; तदा तप्स्यत्यकृतात्मा स मन्दः ||
४६ ख
सञ्जय़ उवाच:
यदा मौर्व्यास्तलनिष्पेषमुग्रं; महाशव्दं वज्रनिष्पेषतुल्यम् |
४७ क
सञ्जय़ उवाच:
विधूय़मानस्य महारणे मय़ा; गाण्डीवस्य श्रोष्यति मन्दवुद्धिः ||
४७ ख
सञ्जय़ उवाच:
तदा मूढो धृतराष्ट्रस्य पुत्र; स्तप्ता युद्धे दुर्मतिर्दुःसहाय़ः |
४८ क
सञ्जय़ उवाच:
दृष्ट्वा सैन्यं वाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद्रणाग्रे ||
४८ ख
सञ्जय़ उवाच:
वलाहकादुच्चरन्तीव विद्यु; त्सहस्रघ्नी द्विषतां सङ्गमेषु |
४९ क
सञ्जय़ उवाच:
अस्थिच्छिदो मर्मभिदो वमेच्छरां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
४९ ख