chevron_left उद्योग पर्व अध्याय ४७
सञ्जय़ उवाच:
यदा द्रष्टा ज्यामुखाद्वाणसङ्घा; न्गाण्डीवमुक्तान्पततः शिताग्रान् |
५० क
सञ्जय़ उवाच:
नागान्हय़ान्वर्मिणश्चाददानां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
५० ख
सञ्जय़ उवाच:
यदा मन्दः परवाणान्विमुक्ता; न्ममेषुभिर्ह्रिय़माणान्प्रतीपम् |
५१ क
सञ्जय़ उवाच:
तिर्यग्विद्वांश्छिद्यमानान्क्षुरप्रै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
५१ ख
सञ्जय़ उवाच:
यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात् |
५२ क
सञ्जय़ उवाच:
प्रच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
५२ ख
सञ्जय़ उवाच:
यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्योऽश्वगतांश्च योधान् |
५३ क
सञ्जय़ उवाच:
शरैर्हतान्पातितांश्चैव रङ्गे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||
५३ ख
सञ्जय़ उवाच:
पदातिसङ्घान्रथसङ्घान्समन्ता; द्व्यात्ताननः काल इवाततेषुः |
५४ क
सञ्जय़ उवाच:
प्रणोत्स्यामि ज्वलितैर्वाणवर्षैः; शत्रूंस्तदा तप्स्यति मन्दवुद्धिः ||
५४ ख
सञ्जय़ उवाच:
सर्वा दिशः सम्पतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम् |
५५ क
सञ्जय़ उवाच:
यदा द्रष्टा स्ववलं सम्प्रमूढं; तदा पश्चात्तप्स्यति मन्दवुद्धिः ||
५५ ख
सञ्जय़ उवाच:
कान्दिग्भूतं छिन्नगात्रं विसञ्ज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम् |
५६ क
सञ्जय़ उवाच:
हताश्ववीराग्र्यनरेन्द्रनागं; पिपासितं श्रान्तपत्रं भय़ार्तम् ||
५६ ख
सञ्जय़ उवाच:
आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थिकपालसङ्घम् |
५७ क
सञ्जय़ उवाच:
प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दवुद्धिः ||
५७ ख
सञ्जय़ उवाच:
यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हय़ांश्च |
५८ क
सञ्जय़ उवाच:
तूणावक्षय़्यौ देवदत्तं च मां च; द्रष्टा युद्धे धार्तराष्ट्रः समेतान् ||
५८ ख
सञ्जय़ उवाच:
उद्वर्तय़न्दस्युसङ्घान्समेता; न्प्रवर्तय़न्युगमन्यद्युगान्ते |
५९ क
सञ्जय़ उवाच:
यदा धक्ष्याम्यग्निवत्कौरवेय़ां; स्तदा तप्ता धृतराष्ट्रः सपुत्रः ||
५९ ख
सञ्जय़ उवाच:
सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः |
६० क
सञ्जय़ उवाच:
दर्पस्यान्ते विहिते वेपमानः; पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ||
६० ख
सञ्जय़ उवाच:
पूर्वाह्णे मां कृतजप्यं कदा चि; द्विप्रः प्रोवाचोदकान्ते मनोज्ञम् |
६१ क
सञ्जय़ उवाच:
कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसाचिन् ||
६१ ख
सञ्जय़ उवाच:
इन्द्रो वा ते हरिवान्वज्रहस्तः; पुरस्ताद्यातु समरेऽरीन्विनिघ्नन् |
६२ क
सञ्जय़ उवाच:
सुग्रीवय़ुक्तेन रथेन वा ते; पश्चात्कृष्णो रक्षतु वासुदेवः ||
६२ ख
सञ्जय़ उवाच:
वव्रे चाहं वज्रहस्तान्महेन्द्रा; दस्मिन्युद्धे वासुदेवं सहाय़म् |
६३ क
सञ्जय़ उवाच:
स मे लव्धो दस्युवधाय़ कृष्णो; मन्ये चैतद्विहितं दैवतैर्मे ||
६३ ख
सञ्जय़ उवाच:
अय़ुध्यमानो मनसापि यस्य; जय़ं कृष्णः पुरुषस्याभिनन्देत् |
६४ क
सञ्जय़ उवाच:
ध्रुवं सर्वान्सोऽभ्यतीय़ादमित्रा; न्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता ||
६४ ख
सञ्जय़ उवाच:
स वाहुभ्यां सागरमुत्तितीर्षे; न्महोदधिं सलिलस्याप्रमेय़म् |
६५ क
सञ्जय़ उवाच:
तेजस्विनं कृष्णमत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत् ||
६५ ख
सञ्जय़ उवाच:
गिरिं य इच्छेत तलेन भेत्तुं; शिलोच्चय़ं श्वेतमतिप्रमाणम् |
६६ क
सञ्जय़ उवाच:
तस्यैव पाणिः सनखो विशीर्ये; न्न चापि किञ्चित्स गिरेस्तु कुर्यात् ||
६६ ख
सञ्जय़ उवाच:
अग्निं समिद्धं शमय़ेद्भुजाभ्यां; चन्द्रं च सूर्यं च निवारय़ेत |
६७ क
सञ्जय़ उवाच:
हरेद्देवानाममृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत् ||
६७ ख
सञ्जय़ उवाच:
यो रुक्मिणीमेकरथेन भोज्या; मुत्साद्य राज्ञां विषय़ं प्रसह्य |
६८ क
सञ्जय़ उवाच:
उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेय़ो महात्मा ||
६८ ख
सञ्जय़ उवाच:
अय़ं गान्धारांस्तरसा सम्प्रमथ्य; जित्वा पुत्रान्नग्नजितः समग्रान् |
६९ क
सञ्जय़ उवाच:
वद्धं मुमोच विनदन्तं प्रसह्य; सुदर्शनीय़ं देवतानां ललामम् ||
६९ ख
सञ्जय़ उवाच:
अय़ं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान्दन्तकूरे ममर्द |
७० क
सञ्जय़ उवाच:
अनेन दग्धा वर्षपूगान्विनाथा; वाराणसी नगरी सम्वभूव ||
७० ख
सञ्जय़ उवाच:
यं स्म युद्धे मन्यतेऽन्यैरजेय़; मेकलव्यं नाम निषादराजम् |
७१ क
सञ्जय़ उवाच:
वेगेनेव शैलमभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः ||
७१ ख
सञ्जय़ उवाच:
तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम् |
७२ क
सञ्जय़ उवाच:
अपातय़द्वलदेवद्वितीय़ो; हत्वा ददौ चोग्रसेनाय़ राज्यम् ||
७२ ख
सञ्जय़ उवाच:
अय़ं सौभं योधय़ामास खस्थं; विभीषणं माय़या शाल्वराजम् |
७३ क
सञ्जय़ उवाच:
सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः ||
७३ ख
सञ्जय़ उवाच:
प्राग्ज्योतिषं नाम वभूव दुर्गं; पुरं घोरमसुराणामसह्यम् |
७४ क
सञ्जय़ उवाच:
महावलो नरकस्तत्र भौमो; जहारादित्या मणिकुण्डले शुभे ||
७४ ख
सञ्जय़ उवाच:
न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय़ भीताः |
७५ क
सञ्जय़ उवाच:
दृष्ट्वा च ते विक्रमं केशवस्य; वलं तथैवास्त्रमवारणीय़म् ||
७५ ख
सञ्जय़ उवाच:
जानन्तोऽस्य प्रकृतिं केशवस्य; न्ययोजय़न्दस्युवधाय़ कृष्णम् |
७६ क
सञ्जय़ उवाच:
स तत्कर्म प्रतिशुश्राव दुष्कर; मैश्वर्यवान्सिद्धिषु वासुदेवः ||
७६ ख
सञ्जय़ उवाच:
निर्मोचने षट्सहस्राणि हत्वा; सञ्छिद्य पाशान्सहसा क्षुरान्तान् |
७७ क
सञ्जय़ उवाच:
मुरं हत्वा विनिहत्यौघराक्षसं; निर्मोचनं चापि जगाम वीरः ||
७७ ख
सञ्जय़ उवाच:
तत्रैव तेनास्य वभूव युद्धं; महावलेनातिवलस्य विष्णोः |
७८ क
सञ्जय़ उवाच:
शेते स कृष्णेन हतः परासु; र्वातेनेव मथितः कर्णिकारः ||
७८ ख
सञ्जय़ उवाच:
आहृत्य कृष्णो मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च |
७९ क
सञ्जय़ उवाच:
श्रिय़ा वृतो यशसा चैव धीमा; न्प्रत्याजगामाप्रतिमप्रभावः ||
७९ ख
सञ्जय़ उवाच:
तस्मै वरानददंस्तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत् |
८० क
सञ्जय़ उवाच:
श्रमश्च ते युध्यमानस्य न स्या; दाकाशे वा अप्सु चैव क्रमः स्यात् ||
८० ख
सञ्जय़ उवाच:
शस्त्राणि गात्रे च न ते क्रमेर; न्नित्येव कृष्णश्च ततः कृतार्थः |
८१ क
सञ्जय़ उवाच:
एवंरूपे वासुदेवेऽप्रमेय़े; महावले गुणसम्पत्सदैव ||
८१ ख
सञ्जय़ उवाच:
तमसह्यं विष्णुमनन्तवीर्य; माशंसते धार्तराष्ट्रो वलेन |
८२ क
सञ्जय़ उवाच:
यदा ह्येनं तर्कय़ते दुरात्मा; तच्चाप्ययं सहतेऽस्मान्समीक्ष्य ||
८२ ख
सञ्जय़ उवाच:
पर्यागतं मम कृष्णस्य चैव; यो मन्यते कलहं सम्प्रय़ुज्य |
८३ क
सञ्जय़ उवाच:
शक्यं हर्तुं पाण्डवानां ममत्वं; तद्वेदिता संय़ुगं तत्र गत्वा ||
८३ ख
सञ्जय़ उवाच:
नमस्कृत्वा शान्तनवाय़ राज्ञे; द्रोणाय़ाथो सहपुत्राय़ चैव |
८४ क
सञ्जय़ उवाच:
शारद्वताय़ाप्रतिद्वन्द्विने च; योत्स्याम्यहं राज्यमभीप्समानः ||
८४ ख
सञ्जय़ उवाच:
धर्मेणास्त्रं निय़तं तस्य मन्ये; यो योत्स्यते पाण्डवैर्धर्मचारी |
८५ क
सञ्जय़ उवाच:
मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान्द्वादश पाण्डुपुत्राः ||
८५ ख
सञ्जय़ उवाच:
अवाप्य कृच्छ्रं विहितं ह्यरण्ये; दीर्घं कालं चैकमज्ञातचर्याम् |
८६ क
सञ्जय़ उवाच:
ते ह्यकस्माज्जीवितं पाण्डवानां; न मृष्यन्ते धार्तराष्ट्राः पदस्थाः ||
८६ ख
सञ्जय़ उवाच:
ते चेदस्मान्युध्यमानाञ्जय़ेय़ु; र्देवैरपीन्द्रप्रमुखैः सहाय़ैः |
८७ क
सञ्जय़ उवाच:
धर्मादधर्मश्चरितो गरीय़ा; निति ध्रुवं नास्ति कृतं न साधु ||
८७ ख
सञ्जय़ उवाच:
न चेदिमं पुरुषं कर्मवद्धं; न चेदस्मान्मन्यतेऽसौ विशिष्टान् |
८८ क
सञ्जय़ उवाच:
आशंसेऽहं वासुदेवद्वितीय़ो; दुर्योधनं सानुवन्धं निहन्तुम् ||
८८ ख
सञ्जय़ उवाच:
न चेदिदं कर्म नरेषु वद्धं; न विद्यते पुरुषस्य स्वकर्म |
८९ क
सञ्जय़ उवाच:
इदं च तच्चापि समीक्ष्य नूनं; पराजय़ो धार्तराष्ट्रस्य साधुः ||
८९ ख
सञ्जय़ उवाच:
प्रत्यक्षं वः कुरवो यद्व्रवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति |
९० क
सञ्जय़ उवाच:
अन्यत्र युद्धात्कुरवः परीप्स; न्न युध्यतां शेष इहास्ति कश्चित् ||
९० ख
सञ्जय़ उवाच:
हत्वा त्वहं धार्तराष्ट्रान्सकर्णा; न्राज्यं कुरूणामवजेता समग्रम् |
९१ क
सञ्जय़ उवाच:
यद्वः कार्यं तत्कुरुध्वं यथास्व; मिष्टान्दारानात्मजांश्चोपभुङ्क्त ||
९१ ख
सञ्जय़ उवाच:
अप्येवं नो व्राह्मणाः सन्ति वृद्धा; वहुश्रुताः शीलवन्तः कुलीनाः |
९२ क
सञ्जय़ उवाच:
सांवत्सरा ज्योतिषि चापि युक्ता; नक्षत्रय़ोगेषु च निश्चय़ज्ञाः ||
९२ ख
सञ्जय़ उवाच:
उच्चावचं दैवय़ुक्तं रहस्यं; दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः |
९३ क
सञ्जय़ उवाच:
क्षय़ं महान्तं कुरुसृञ्जय़ानां; निवेदय़न्ते पाण्डवानां जय़ं च ||
९३ ख
सञ्जय़ उवाच:
तथा हि नो मन्यतेऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय़ |
९४ क
सञ्जय़ उवाच:
जनार्दनश्चाप्यपरोक्षविद्यो; न संशय़ं पश्यति वृष्णिसिंहः ||
९४ ख
सञ्जय़ उवाच:
अहं च जानामि भविष्यरूपं; पश्यामि वुद्ध्या स्वय़मप्रमत्तः |
९५ क
सञ्जय़ उवाच:
दृष्टिश्च मे न व्यथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति ||
९५ ख
सञ्जय़ उवाच:
अनालव्धं जृम्भति गाण्डिवं धनु; रनालव्धा कम्पति मे धनुर्ज्या |
९६ क
सञ्जय़ उवाच:
वाणाश्च मे तूणमुखाद्विसृज्य; मुहुर्मुहुर्गन्तुमुशन्ति चैव ||
९६ ख
सञ्जय़ उवाच:
सैक्यः कोशान्निःसरति प्रसन्नो; हित्वेव जीर्णामुरगस्त्वचं स्वाम् |
९७ क
सञ्जय़ उवाच:
ध्वजे वाचो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन् ||
९७ ख
सञ्जय़ उवाच:
गोमाय़ुसङ्घाश्च वदन्ति रात्रौ; रक्षांस्यथो निष्पतन्त्यन्तरिक्षात् |
९८ क
सञ्जय़ उवाच:
मृगाः शृगालाः शितिकण्ठाश्च काका; गृध्रा वडाश्चैव तरक्षवश्च ||
९८ ख
सञ्जय़ उवाच:
सुपर्णपाताश्च पतन्ति पश्चा; द्दृष्ट्वा रथं श्वेतहय़प्रय़ुक्तम् |
९९ क
सञ्जय़ उवाच:
अहं ह्येकः पार्थिवान्सर्वय़ोधा; ञ्शरान्वर्षन्मृत्युलोकं नय़ेय़म् ||
९९ ख