वैशम्पाय़न उवाच:
विशेषो हि त्वय़ा भद्रे व्रते ह्यस्मिन्समर्पितः |
४८ क
वैशम्पाय़न उवाच:
तथा चेदं ददाम्यद्य निय़मेन सुतोषितः ||
४८ ख
वैशम्पाय़न उवाच:
विशेषं तव कल्याणि प्रय़च्छामि वरं वरे |
४९ क
वैशम्पाय़न उवाच:
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना ||
४९ ख
वैशम्पाय़न उवाच:
तस्य चाहं प्रसादेन तव कल्याणि तेजसा |
५० क
वैशम्पाय़न उवाच:
प्रवक्ष्याम्यपरं भूय़ो वरमत्र यथाविधि ||
५० ख
वैशम्पाय़न उवाच:
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः |
५१ क
वैशम्पाय़न उवाच:
स स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान् ||
५१ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् |
५२ क
वैशम्पाय़न उवाच:
स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः ||
५२ ख
वैशम्पाय़न उवाच:
गते वज्रधरे राजंस्तत्र वर्षं पपात ह |
५३ क
वैशम्पाय़न उवाच:
पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम् ||
५३ ख
वैशम्पाय़न उवाच:
नेदुर्दुन्दुभय़श्चापि समन्तात्सुमहास्वनाः |
५४ क
वैशम्पाय़न उवाच:
मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते ||
५४ ख
वैशम्पाय़न उवाच:
उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम् |
५५ क
वैशम्पाय़न उवाच:
तपसोग्रेण सा लव्ध्वा तेन रेमे सहाच्युत ||
५५ ख
जनमेजय़ उवाच:
का तस्या भगवन्माता क्व संवृद्धा च शोभना |
५६ क
जनमेजय़ उवाच:
श्रोतुमिच्छाम्यहं व्रह्मन्परं कौतूहलं हि मे ||
५६ ख
वैशम्पाय़न उवाच:
भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः |
५७ क
वैशम्पाय़न उवाच:
दृष्ट्वाप्सरसमाय़ान्तीं घृताचीं पृथुलोचनाम् ||
५७ ख
वैशम्पाय़न उवाच:
स तु जग्राह तद्रेतः करेण जपतां वरः |
५८ क
वैशम्पाय़न उवाच:
तदावपत्पर्णपुटे तत्र सा सम्भवच्छुभा ||
५८ ख
वैशम्पाय़न उवाच:
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः |
५९ क
वैशम्पाय़न उवाच:
नाम चास्याः स कृतवान्भारद्वाजो महामुनिः ||
५९ ख
वैशम्पाय़न उवाच:
स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि |
६० क
वैशम्पाय़न उवाच:
स च तामाश्रमे न्यस्य जगाम हिमवद्वनम् ||
६० ख
वैशम्पाय़न उवाच:
तत्राप्युपस्पृश्य महानुभावो; वसूनि दत्त्वा च महाद्विजेभ्यः |
६१ क
वैशम्पाय़न उवाच:
जगाम तीर्थं सुसमाहितात्मा; शक्रस्य वृष्णिप्रवरस्तदानीम् ||
६१ ख