जनमेजय़ उवाच:
शरतल्पे शय़ानस्तु भरतानां पितामहः |
१ क
जनमेजय़ उवाच:
कथमुत्सृष्टवान्देहं कं च योगमधारय़त् ||
१ ख
वैशम्पाय़न उवाच:
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः |
२ क
वैशम्पाय़न उवाच:
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ||
२ ख
वैशम्पाय़न उवाच:
निवृत्तमात्रे त्वय़न उत्तरे वै दिवाकरे |
३ क
वैशम्पाय़न उवाच:
समावेशय़दात्मानमात्मन्येव समाहितः ||
३ ख
वैशम्पाय़न उवाच:
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः |
४ क
वैशम्पाय़न उवाच:
शिश्ये परमय़ा लक्ष्म्या वृतो व्राह्मणसत्तमैः ||
४ ख
वैशम्पाय़न उवाच:
व्यासेन वेदश्रवसा नारदेन सुरर्षिणा |
५ क
वैशम्पाय़न उवाच:
देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना ||
५ ख
वैशम्पाय़न उवाच:
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः |
६ क
वैशम्पाय़न उवाच:
श्रद्धादमपुरस्कारैर्वृतश्चन्द्र इव ग्रहैः ||
६ ख
वैशम्पाय़न उवाच:
भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा |
७ क
वैशम्पाय़न उवाच:
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः ||
७ ख
वैशम्पाय़न उवाच:
स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम् |
८ क
वैशम्पाय़न उवाच:
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ||
८ ख
वैशम्पाय़न उवाच:
कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम् |
९ क
वैशम्पाय़न उवाच:
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ||
९ ख
वैशम्पाय़न उवाच:
आरिराधय़िषुः कृष्णं वाचं जिगमिषामि याम् |
१० क
वैशम्पाय़न उवाच:
तय़ा व्याससमासिन्या प्रीय़तां पुरुषोत्तमः ||
१० ख
वैशम्पाय़न उवाच:
शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम् |
११ क
वैशम्पाय़न उवाच:
युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् ||
११ ख
वैशम्पाय़न उवाच:
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च |
१२ क
वैशम्पाय़न उवाच:
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ||
१२ ख
वैशम्पाय़न उवाच:
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति |
१३ क
वैशम्पाय़न उवाच:
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ||
१३ ख
वैशम्पाय़न उवाच:
हरिं सहस्रशिरसं सहस्रचरणेक्षणम् |
१४ क
वैशम्पाय़न उवाच:
प्राहुर्नाराय़णं देवं यं विश्वस्य पराय़णम् ||
१४ ख
वैशम्पाय़न उवाच:
अणीय़सामणीय़ांसं स्थविष्ठं च स्थवीय़साम् |
१५ क
वैशम्पाय़न उवाच:
गरीय़सां गरिष्ठं च श्रेष्ठं च श्रेय़सामपि ||
१५ ख
वैशम्पाय़न उवाच:
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च |
१६ क
वैशम्पाय़न उवाच:
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ||
१६ ख
वैशम्पाय़न उवाच:
चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम् |
१७ क
वैशम्पाय़न उवाच:
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ||
१७ ख
वैशम्पाय़न उवाच:
यं देवं देवकी देवी वसुदेवादजीजनत् |
१८ क
वैशम्पाय़न उवाच:
भौमस्य व्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ||
१८ ख
वैशम्पाय़न उवाच:
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् |
१९ क
वैशम्पाय़न उवाच:
इष्ट्वानन्त्याय़ गोविन्दं पश्यत्यात्मन्यवस्थितम् ||
१९ ख
वैशम्पाय़न उवाच:
पुराणे पुरुषः प्रोक्तो व्रह्मा प्रोक्तो युगादिषु |
२० क
वैशम्पाय़न उवाच:
क्षय़े सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ||
२० ख
वैशम्पाय़न उवाच:
अतिवाय़्विन्द्रकर्माणमतिसूर्याग्नितेजसम् |
२१ क
वैशम्पाय़न उवाच:
अतिवुद्धीन्द्रिय़ात्मानं तं प्रपद्ये प्रजापतिम् ||
२१ ख
वैशम्पाय़न उवाच:
यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् |
२२ क
वैशम्पाय़न उवाच:
वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ||
२२ ख
वैशम्पाय़न उवाच:
हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् |
२३ क
वैशम्पाय़न उवाच:
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ||
२३ ख
वैशम्पाय़न उवाच:
शुक्ले देवान्पितॄन्कृष्णे तर्पय़त्यमृतेन यः |
२४ क
वैशम्पाय़न उवाच:
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ||
२४ ख
वैशम्पाय़न उवाच:
महतस्तमसः पारे पुरुषं ज्वलनद्युतिम् |
२५ क
वैशम्पाय़न उवाच:
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेय़ात्मने नमः ||
२५ ख
वैशम्पाय़न उवाच:
यं वृहन्तं वृहत्युक्थे यमग्नौ यं महाध्वरे |
२६ क
वैशम्पाय़न उवाच:
यं विप्रसङ्घा गाय़न्ति तस्मै वेदात्मने नमः ||
२६ ख
वैशम्पाय़न उवाच:
ऋग्यजुःसामधामानं दशार्धहविराकृतिम् |
२७ क
वैशम्पाय़न उवाच:
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ||
२७ ख
वैशम्पाय़न उवाच:
यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः |
२८ क
वैशम्पाय़न उवाच:
रथन्तरवृहत्यक्षस्तस्मै स्तोत्रात्मने नमः ||
२८ ख
वैशम्पाय़न उवाच:
यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः |
२९ क
वैशम्पाय़न उवाच:
हिरण्यवर्णः शकुनिस्तस्मै हंसात्मने नमः ||
२९ ख
वैशम्पाय़न उवाच:
पदाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनलक्षणम् |
३० क
वैशम्पाय़न उवाच:
यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः ||
३० ख
वैशम्पाय़न उवाच:
यश्चिनोति सतां सेतुमृतेनामृतय़ोनिना |
३१ क
वैशम्पाय़न उवाच:
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ||
३१ ख
वैशम्पाय़न उवाच:
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः |
३२ क
वैशम्पाय़न उवाच:
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ||
३२ ख
वैशम्पाय़न उवाच:
यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षय़ः |
३३ क
वैशम्पाय़न उवाच:
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ||
३३ ख
वैशम्पाय़न उवाच:
यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः |
३४ क
वैशम्पाय़न उवाच:
प्राहुः सप्तदशं साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ||
३४ ख
वैशम्पाय़न उवाच:
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संय़तेन्द्रिय़ाः |
३५ क
वैशम्पाय़न उवाच:
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ||
३५ ख
वैशम्पाय़न उवाच:
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भय़ाः |
३६ क
वैशम्पाय़न उवाच:
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ||
३६ ख
वैशम्पाय़न उवाच:
योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः |
३७ क
वैशम्पाय़न उवाच:
सम्भक्षय़ति भूतानि तस्मै घोरात्मने नमः ||
३७ ख
वैशम्पाय़न उवाच:
सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् |
३८ क
वैशम्पाय़न उवाच:
वालः स्वपिति यश्चैकस्तस्मै माय़ात्मने नमः ||
३८ ख
वैशम्पाय़न उवाच:
सहस्रशिरसे तस्मै पुरुषाय़ामितात्मने |
३९ क
वैशम्पाय़न उवाच:
चतुःसमुद्रपर्याय़योगनिद्रात्मने नमः ||
३९ ख
वैशम्पाय़न उवाच:
अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् |
४० क
वैशम्पाय़न उवाच:
पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ||
४० ख
वैशम्पाय़न उवाच:
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु |
४१ क
वैशम्पाय़न उवाच:
कुक्षौ समुद्राश्चत्वारस्तस्मै तोय़ात्मने नमः ||
४१ ख
वैशम्पाय़न उवाच:
युगेष्वावर्तते योंऽशैर्दिनर्त्वनय़हाय़नैः |
४२ क
वैशम्पाय़न उवाच:
सर्गप्रलय़योः कर्ता तस्मै कालात्मने नमः ||
४२ ख
वैशम्पाय़न उवाच:
व्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः |
४३ क
वैशम्पाय़न उवाच:
पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ||
४३ ख
वैशम्पाय़न उवाच:
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः |
४४ क
वैशम्पाय़न उवाच:
सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ||
४४ ख
वैशम्पाय़न उवाच:
विषय़े वर्तमानानां यं तं वैशेषिकैर्गुणैः |
४५ क
वैशम्पाय़न उवाच:
प्राहुर्विषय़गोप्तारं तस्मै गोप्त्रात्मने नमः ||
४५ ख
वैशम्पाय़न उवाच:
अन्नपानेन्धनमय़ो रसप्राणविवर्धनः |
४६ क
वैशम्पाय़न उवाच:
यो धारय़ति भूतानि तस्मै प्राणात्मने नमः ||
४६ ख
वैशम्पाय़न उवाच:
परः कालात्परो यज्ञात्परः सदसतोश्च यः |
४७ क
वैशम्पाय़न उवाच:
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ||
४७ ख
वैशम्पाय़न उवाच:
यो मोहय़ति भूतानि स्नेहरागानुवन्धनैः |
४८ क
वैशम्पाय़न उवाच:
सर्गस्य रक्षणार्थाय़ तस्मै मोहात्मने नमः ||
४८ ख
वैशम्पाय़न उवाच:
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् |
४९ क
वैशम्पाय़न उवाच:
यं ज्ञानिनोऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः ||
४९ ख
वैशम्पाय़न उवाच:
अप्रमेय़शरीराय़ सर्वतोऽनन्तचक्षुषे |
५० क
वैशम्पाय़न उवाच:
अपारपरिमेय़ाय़ तस्मै चिन्त्यात्मने नमः ||
५० ख