chevron_left अनुशासन पर्व अध्याय ४७
युधिष्ठिर उवाच:
सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम |
१ क
युधिष्ठिर उवाच:
अतीव संशय़च्छेत्ता भवान्वै प्रथितः क्षितौ ||
१ ख
युधिष्ठिर उवाच:
कश्चित्तु संशय़ो मेऽस्ति तन्मे व्रूहि पितामह |
२ क
युधिष्ठिर उवाच:
अस्यामापदि कष्टाय़ामन्यं पृच्छाम कं वय़म् ||
२ ख
युधिष्ठिर उवाच:
यथा नरेण कर्तव्यं यश्च धर्मः सनातनः |
३ क
युधिष्ठिर उवाच:
एतत्सर्वं महावाहो भवान्व्याख्यातुमर्हति ||
३ ख
युधिष्ठिर उवाच:
चतस्रो विहिता भार्या व्राह्मणस्य पितामह |
४ क
युधिष्ठिर उवाच:
व्राह्मणी क्षत्रिय़ा वैश्या शूद्रा च रतिमिच्छतः ||
४ ख
युधिष्ठिर उवाच:
तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम |
५ क
युधिष्ठिर उवाच:
आनुपूर्व्येण कस्तेषां पित्र्यं दाय़ाद्यमर्हति ||
५ ख
युधिष्ठिर उवाच:
केन वा किं ततो हार्यं पितृवित्तात्पितामह |
६ क
युधिष्ठिर उवाच:
एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः ||
६ ख
भीष्म उवाच:
व्राह्मणः क्षत्रिय़ो वैश्यस्त्रय़ो वर्णा द्विजातय़ः |
७ क
भीष्म उवाच:
एतेषु विहितो धर्मो व्राह्मणस्य युधिष्ठिर ||
७ ख
भीष्म उवाच:
वैषम्यादथ वा लोभात्कामाद्वापि परन्तप |
८ क
भीष्म उवाच:
व्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ||
८ ख
भीष्म उवाच:
शूद्रां शय़नमारोप्य व्राह्मणः पीडितो भवेत् |
९ क
भीष्म उवाच:
प्राय़श्चित्तीय़ते चापि विधिदृष्टेन हेतुना ||
९ ख
भीष्म उवाच:
तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर |
१० क
भीष्म उवाच:
अतस्ते निय़मं वित्ते सम्प्रवक्ष्यामि भारत ||
१० ख
भीष्म उवाच:
लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत् |
११ क
भीष्म उवाच:
व्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ||
११ ख
भीष्म उवाच:
शेषं तु दशधा कार्यं व्राह्मणस्वं युधिष्ठिर |
१२ क
भीष्म उवाच:
तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् ||
१२ ख
भीष्म उवाच:
क्षत्रिय़ाय़ास्तु यः पुत्रो व्राह्मणः सोऽप्यसंशय़ः |
१३ क
भीष्म उवाच:
स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति ||
१३ ख
भीष्म उवाच:
वर्णे तृतीय़े जातस्तु वैश्याय़ां व्राह्मणादपि |
१४ क
भीष्म उवाच:
द्विरंशस्तेन हर्तव्यो व्राह्मणस्वाद्युधिष्ठिर ||
१४ ख
भीष्म उवाच:
शूद्राय़ां व्राह्मणाज्जातो नित्यादेय़धनः स्मृतः |
१५ क
भीष्म उवाच:
अल्पं वापि प्रदातव्यं शूद्रापुत्राय़ भारत ||
१५ ख
भीष्म उवाच:
दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः |
१६ क
भीष्म उवाच:
सवर्णासु तु जातानां समान्भागान्प्रकल्पय़ेत् ||
१६ ख
भीष्म उवाच:
अव्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् |
१७ क
भीष्म उवाच:
त्रिषु वर्णेषु जातो हि व्राह्मणाद्व्राह्मणो भवेत् ||
१७ ख
भीष्म उवाच:
स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते |
१८ क
भीष्म उवाच:
हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् ||
१८ ख
भीष्म उवाच:
तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति |
१९ क
भीष्म उवाच:
अवश्यं हि धनं देय़ं शूद्रापुत्राय़ भारत ||
१९ ख
भीष्म उवाच:
आनृशंस्यं परो धर्म इति तस्मै प्रदीय़ते |
२० क
भीष्म उवाच:
यत्र तत्र समुत्पन्नो गुणाय़ैवोपकल्पते ||
२० ख
भीष्म उवाच:
यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत् |
२१ क
भीष्म उवाच:
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय़ भारत ||
२१ ख
भीष्म उवाच:
त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु |
२२ क
भीष्म उवाच:
यजेत तेन द्रव्येण न वृथा साधय़ेद्धनम् ||
२२ ख
भीष्म उवाच:
त्रिसाहस्रपरो दाय़ः स्त्रिय़ो देय़ो धनस्य वै |
२३ क
भीष्म उवाच:
तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति ||
२३ ख
भीष्म उवाच:
स्त्रीणां तु पतिदाय़ाद्यमुपभोगफलं स्मृतम् |
२४ क
भीष्म उवाच:
नापहारं स्त्रिय़ः कुर्युः पतिवित्तात्कथञ्चन ||
२४ ख
भीष्म उवाच:
स्त्रिय़ास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर |
२५ क
भीष्म उवाच:
व्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा |
२५ ख
भीष्म उवाच:
सा हि पुत्रसमा राजन्विहिता कुरुनन्दन ||
२५ ग
भीष्म उवाच:
एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ |
२६ क
भीष्म उवाच:
एतद्धर्ममनुस्मृत्य न वृथा साधय़ेद्धनम् ||
२६ ख
युधिष्ठिर उवाच:
शूद्राय़ां व्राह्मणाज्जातो यद्यदेय़धनः स्मृतः |
२७ क
युधिष्ठिर उवाच:
केन प्रतिविशेषेण दशमोऽप्यस्य दीय़ते ||
२७ ख
युधिष्ठिर उवाच:
व्राह्मण्यां व्राह्मणाज्जातो व्राह्मणः स्यान्न संशय़ः |
२८ क
युधिष्ठिर उवाच:
क्षत्रिय़ाय़ां तथैव स्याद्वैश्याय़ामपि चैव हि ||
२८ ख
युधिष्ठिर उवाच:
कस्मात्ते विषमं भागं भजेरन्नृपसत्तम |
२९ क
युधिष्ठिर उवाच:
यदा सर्वे त्रय़ो वर्णास्त्वय़ोक्ता व्राह्मणा इति ||
२९ ख
भीष्म उवाच:
दारा इत्युच्यते लोके नाम्नैकेन परन्तप |
३० क
भीष्म उवाच:
प्रोक्तेन चैकनाम्नाय़ं विशेषः सुमहान्भवेत् ||
३० ख
भीष्म उवाच:
तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत व्राह्मणीम् |
३१ क
भीष्म उवाच:
सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीय़सी ||
३१ ख
भीष्म उवाच:
स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् |
३२ क
भीष्म उवाच:
हव्यं कव्यं च यच्चान्यद्धर्मय़ुक्तं भवेद्गृहे ||
३२ ख
भीष्म उवाच:
न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति |
३३ क
भीष्म उवाच:
व्राह्मणी त्वेव तत्कुर्याद्व्राह्मणस्य युधिष्ठिर ||
३३ ख
भीष्म उवाच:
अन्नं पानं च माल्यं च वासांस्याभरणानि च |
३४ क
भीष्म उवाच:
व्राह्मण्यै तानि देय़ानि भर्तुः सा हि गरीय़सी ||
३४ ख
भीष्म उवाच:
मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन |
३५ क
भीष्म उवाच:
तत्राप्येष महाराज दृष्टो धर्मः सनातनः ||
३५ ख
भीष्म उवाच:
अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर |
३६ क
भीष्म उवाच:
यथा व्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः ||
३६ ख
भीष्म उवाच:
व्राह्मण्याः सदृशः पुत्रः क्षत्रिय़ाय़ाश्च यो भवेत् |
३७ क
भीष्म उवाच:
राजन्विशेषो नास्त्यत्र वर्णय़ोरुभय़ोरपि ||
३७ ख
भीष्म उवाच:
न तु जात्या समा लोके व्राह्मण्याः क्षत्रिय़ा भवेत् |
३८ क
भीष्म उवाच:
व्राह्मण्याः प्रथमः पुत्रो भूय़ान्स्याद्राजसत्तम |
३८ ख
भीष्म उवाच:
भूय़ोऽपि भूय़सा हार्यं पितृवित्ताद्युधिष्ठिर ||
३८ ग
भीष्म उवाच:
यथा न सदृशी जातु व्राह्मण्याः क्षत्रिय़ा भवेत् |
३९ क
भीष्म उवाच:
क्षत्रिय़ाय़ास्तथा वैश्या न जातु सदृशी भवेत् ||
३९ ख
भीष्म उवाच:
श्रीश्च राज्यं च कोशश्च क्षत्रिय़ाणां युधिष्ठिर |
४० क
भीष्म उवाच:
विहितं दृश्यते राजन्सागरान्ता च मेदिनी ||
४० ख
भीष्म उवाच:
क्षत्रिय़ो हि स्वधर्मेण श्रिय़ं प्राप्नोति भूय़सीम् |
४१ क
भीष्म उवाच:
राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रिय़ात् ||
४१ ख
भीष्म उवाच:
व्राह्मणा हि महाभागा देवानामपि देवताः |
४२ क
भीष्म उवाच:
तेषु राजा प्रवर्तेत पूजय़ा विधिपूर्वकम् ||
४२ ख
भीष्म उवाच:
प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् |
४३ क
भीष्म उवाच:
लुप्यमानाः स्वधर्मेण क्षत्रिय़ो रक्षति प्रजाः ||
४३ ख
भीष्म उवाच:
दस्युभिर्ह्रिय़माणं च धनं दाराश्च सर्वशः |
४४ क
भीष्म उवाच:
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ||
४४ ख
भीष्म उवाच:
भूय़ान्स्यात्क्षत्रिय़ापुत्रो वैश्यापुत्रान्न संशय़ः |
४५ क
भीष्म उवाच:
भूय़स्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ||
४५ ख
युधिष्ठिर उवाच:
उक्तं ते विधिवद्राजन्व्राह्मणस्वे पितामह |
४६ क
युधिष्ठिर उवाच:
इतरेषां तु वर्णानां कथं विनिय़मो भवेत् ||
४६ ख
भीष्म उवाच:
क्षत्रिय़स्यापि भार्ये द्वे विहिते कुरुनन्दन |
४७ क
भीष्म उवाच:
तृतीय़ा च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ||
४७ ख
भीष्म उवाच:
एष एव क्रमो हि स्यात्क्षत्रिय़ाणां युधिष्ठिर |
४८ क
भीष्म उवाच:
अष्टधा तु भवेत्कार्यं क्षत्रिय़स्वं युधिष्ठिर ||
४८ ख
भीष्म उवाच:
क्षत्रिय़ाय़ा हरेत्पुत्रश्चतुरोंऽशान्पितुर्धनात् |
४९ क
भीष्म उवाच:
युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत् ||
४९ ख