जनमेजय़ उवाच:
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने |
१ क
जनमेजय़ उवाच:
प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम् ||
१ ख
जनमेजय़ उवाच:
कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम् |
२ क
जनमेजय़ उवाच:
दुर्योधनं पाण्डुपुत्रान्कोपय़ानं महारथान् ||
२ ख
जनमेजय़ उवाच:
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् |
३ क
जनमेजय़ उवाच:
वानेय़मथ वा कृष्टमेतदाख्यातु मे भवान् ||
३ ख
वैशम्पाय़न उवाच:
वानेय़ं च मृगांश्चैव शुद्धैर्वाणैर्निपातितान् |
४ क
वैशम्पाय़न उवाच:
व्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः ||
४ ख
वैशम्पाय़न उवाच:
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने |
५ क
वैशम्पाय़न उवाच:
अन्वय़ुर्व्राह्मणा राजन्साग्नय़ोऽनग्नय़स्तथा ||
५ ख
वैशम्पाय़न उवाच:
व्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् |
६ क
वैशम्पाय़न उवाच:
दश मोक्षविदां तद्वद्यान्विभर्ति युधिष्ठिरः ||
६ ख
वैशम्पाय़न उवाच:
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान् |
७ क
वैशम्पाय़न उवाच:
वाणैरुन्मथ्य विधिवद्व्राह्मणेभ्यो न्यवेदय़त् ||
७ ख
वैशम्पाय़न उवाच:
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत |
८ क
वैशम्पाय़न उवाच:
कृशो वा दुर्वलो वापि दीनो भीतोऽपि वा नरः ||
८ ख
वैशम्पाय़न उवाच:
पुत्रानिव प्रिय़ाञ्ज्ञातीन्भ्रातॄनिव सहोदरान् |
९ क
वैशम्पाय़न उवाच:
पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः ||
९ ख
वैशम्पाय़न उवाच:
पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी |
१० क
वैशम्पाय़न उवाच:
मातेव भोजय़ित्वाग्रे शिष्टमाहारय़त्तदा ||
१० ख
वैशम्पाय़न उवाच:
प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीमथ वाप्युदीचीम् |
११ क
वैशम्पाय़न उवाच:
धनुर्धरा मांसहेतोर्मृगाणां; क्षय़ं चक्रुर्नित्यमेवोपगम्य ||
११ ख
वैशम्पाय़न उवाच:
तथा तेषां वसतां काम्यके वै; विहीनानामर्जुनेनोत्सुकानाम् |
१२ क
वैशम्पाय़न उवाच:
पञ्चैव वर्षाणि तदा व्यतीय़ु; रधीय़तां जपतां जुह्वतां च ||
१२ ख