chevron_left भीष्म पर्व अध्याय ४७
सञ्जय़ उवाच:
क्रौञ्चं ततो महाव्यूहमभेद्यं तनय़स्तव |
१ क
सञ्जय़ उवाच:
व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा ||
१ ख
सञ्जय़ उवाच:
आचार्यमुपसङ्गम्य कृपं शल्यं च मारिष |
२ क
सञ्जय़ उवाच:
सौमदत्तिं विकर्णं च अश्वत्थामानमेव च ||
२ ख
सञ्जय़ उवाच:
दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत |
३ क
सञ्जय़ उवाच:
अन्यांश्च सुवहूञ्शूरान्युद्धाय़ समुपागतान् ||
३ ख
सञ्जय़ उवाच:
प्राहेदं वचनं काले हर्षय़ंस्तनय़स्तव |
४ क
सञ्जय़ उवाच:
नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः ||
४ ख
सञ्जय़ उवाच:
एकैकशः समर्था हि यूय़ं सर्वे महारथाः |
५ क
सञ्जय़ उवाच:
पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः ||
५ ख
सञ्जय़ उवाच:
अपर्याप्तं तदस्माकं वलं भीष्माभिरक्षितम् |
६ क
सञ्जय़ उवाच:
पर्याप्तं त्विदमेतेषां वलं पार्थिवसत्तमाः ||
६ ख
सञ्जय़ उवाच:
संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा |
७ क
सञ्जय़ उवाच:
आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा ||
७ ख
सञ्जय़ उवाच:
शत्रुञ्जय़ेन सहितास्तथा दुःशासनेन च |
८ क
सञ्जय़ उवाच:
विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ||
८ ख
सञ्जय़ उवाच:
चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः |
९ क
सञ्जय़ उवाच:
भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः ||
९ ख
सञ्जय़ उवाच:
ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष |
१० क
सञ्जय़ उवाच:
अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिवाधने ||
१० ख
सञ्जय़ उवाच:
भीष्मः सैन्येन महता समन्तात्परिवारितः |
११ क
सञ्जय़ उवाच:
यय़ौ प्रकर्षन्महतीं वाहिनीं सुरराडिव ||
११ ख
सञ्जय़ उवाच:
तमन्वय़ान्महेष्वासो भारद्वाजः प्रतापवान् |
१२ क
सञ्जय़ उवाच:
कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते ||
१२ ख
सञ्जय़ उवाच:
विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि |
१३ क
सञ्जय़ उवाच:
सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् ||
१३ ख
सञ्जय़ उवाच:
गान्धाराः सिन्धुसौवीराः शिवय़ोऽथ वसातय़ः |
१४ क
सञ्जय़ उवाच:
शकुनिश्च स्वसैन्येन भारद्वाजमपालय़त् ||
१४ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा सहितः सर्वसोदरैः |
१५ क
सञ्जय़ उवाच:
अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः ||
१५ ख
सञ्जय़ उवाच:
दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः |
१६ क
सञ्जय़ उवाच:
अभ्यरक्षत संहृष्टः सौवलेय़स्य वाहिनीम् ||
१६ ख
सञ्जय़ उवाच:
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष |
१७ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालय़न् ||
१७ ख
सञ्जय़ उवाच:
सौमदत्तिः सुशर्मा च काम्वोजश्च सुदक्षिणः |
१८ क
सञ्जय़ उवाच:
शताय़ुश्च श्रुताय़ुश्च दक्षिणं पार्श्वमास्थिताः ||
१८ ख
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |
१९ क
सञ्जय़ उवाच:
महत्या सेनय़ा सार्धं सेनापृष्ठे व्यवस्थिताः ||
१९ ख
सञ्जय़ उवाच:
पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः |
२० क
सञ्जय़ उवाच:
केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ||
२० ख
सञ्जय़ उवाच:
ततस्ते तावकाः सर्वे हृष्टा युद्धाय़ भारत |
२१ क
सञ्जय़ उवाच:
दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादय़न् ||
२१ ख
सञ्जय़ उवाच:
तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः |
२२ क
सञ्जय़ उवाच:
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||
२२ ख
सञ्जय़ उवाच:
ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः |
२३ क
सञ्जय़ उवाच:
आनकाश्चाभ्यहन्यन्त स शव्दस्तुमुलोऽभवत् ||
२३ ख
सञ्जय़ उवाच:
ततः श्वेतैर्हय़ैर्युक्ते महति स्यन्दने स्थितौ |
२४ क
सञ्जय़ उवाच:
प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ||
२४ ख
सञ्जय़ उवाच:
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय़ः |
२५ क
सञ्जय़ उवाच:
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||
२५ ख
सञ्जय़ उवाच:
अनन्तविजय़ं राजा कुन्तीपुत्रो युधिष्ठिरः |
२६ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||
२६ ख
सञ्जय़ उवाच:
काशिराजश्च शैव्यश्च शिखण्डी च महारथः |
२७ क
सञ्जय़ उवाच:
धृष्टद्युम्नो विराटश्च सात्यकिश्च महाय़शाः ||
२७ ख
सञ्जय़ उवाच:
पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः |
२८ क
सञ्जय़ उवाच:
सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे ||
२८ ख
सञ्जय़ उवाच:
स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः |
२९ क
सञ्जय़ उवाच:
नभश्च पृथिवीं चैव तुमुलो व्यनुनादय़त् ||
२९ ख
सञ्जय़ उवाच:
एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः |
३० क
सञ्जय़ उवाच:
पुनर्युद्धाय़ सञ्जग्मुस्तापय़ानाः परस्परम् ||
३० ख