सञ्जय़ उवाच:
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः |
१ क
सञ्जय़ उवाच:
शरैः पञ्चाशता चैनमविध्यत्कोपय़न्भृशम् ||
१ ख
सञ्जय़ उवाच:
प्रतिविव्याध राधेय़स्तावद्भिरथ तं पुनः |
२ क
सञ्जय़ उवाच:
स तैराचितसर्वाङ्गो वह्वशोभत भारत ||
२ ख
सञ्जय़ उवाच:
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् |
३ क
सञ्जय़ उवाच:
कर्णोऽपि विवभौ शूरः शरैश्चित्रोऽसृगाप्लुतः ||
३ ख
सञ्जय़ उवाच:
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ |
४ क
सञ्जय़ उवाच:
वभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ||
४ ख
सञ्जय़ उवाच:
अथ कर्णस्य सचिवान्षट्शूरांश्चित्रय़ोधिनः |
५ क
सञ्जय़ उवाच:
साश्वसूतध्वजरथान्सौभद्रो निजघान ह ||
५ ख
सञ्जय़ उवाच:
अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः |
६ क
सञ्जय़ उवाच:
प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत् ||
६ ख
सञ्जय़ उवाच:
मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः |
७ क
सञ्जय़ उवाच:
साश्वं ससूतं तरुणमश्वकेतुमपातय़त् ||
७ ख
सञ्जय़ उवाच:
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् |
८ क
सञ्जय़ उवाच:
क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् ||
८ ख
सञ्जय़ उवाच:
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हय़ान् |
९ क
सञ्जय़ उवाच:
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ||
९ ख
सञ्जय़ उवाच:
ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः |
१० क
सञ्जय़ उवाच:
संरम्भाद्रक्तनय़नो वाक्यमुच्चैरथाव्रवीत् ||
१० ख
सञ्जय़ उवाच:
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा |
११ क
सञ्जय़ उवाच:
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ||
११ ख
सञ्जय़ उवाच:
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् |
१२ क
सञ्जय़ उवाच:
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ||
१२ ख
सञ्जय़ उवाच:
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडय़त् |
१३ क
सञ्जय़ उवाच:
तं शल्यो नवभिर्वाणैर्गार्ध्रपत्रैरताडय़त् ||
१३ ख
सञ्जय़ उवाच:
तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी |
१४ क
सञ्जय़ उवाच:
तं विव्याधाय़सैः षड्भिः सोऽपक्रामद्रथान्तरम् ||
१४ ख
सञ्जय़ उवाच:
शत्रुञ्जय़ं चन्द्रकेतुं मेघवेगं सुवर्चसम् |
१५ क
सञ्जय़ उवाच:
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौवलम् ||
१५ ख
सञ्जय़ उवाच:
तं सौवलस्त्रिभिर्विद्ध्वा दुर्योधनमथाव्रवीत् |
१६ क
सञ्जय़ उवाच:
सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः ||
१६ ख
सञ्जय़ उवाच:
अथाव्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा |
१७ क
सञ्जय़ उवाच:
पुरा सर्वान्प्रमथ्नाति व्रूह्यस्य वधमाशु नः ||
१७ ख
सञ्जय़ उवाच:
ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत |
१८ क
सञ्जय़ उवाच:
अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति ||
१८ ख
सञ्जय़ उवाच:
अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् |
१९ क
सञ्जय़ उवाच:
शीघ्रतां नरसिंहस्य पाण्डवेय़स्य पश्यत ||
१९ ख
सञ्जय़ उवाच:
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते |
२० क
सञ्जय़ उवाच:
सन्दधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ||
२० ख
सञ्जय़ उवाच:
आरुजन्निव मे प्राणान्मोहय़न्नपि साय़कैः |
२१ क
सञ्जय़ उवाच:
प्रहर्षय़ति मा भूय़ः सौभद्रः परवीरहा ||
२१ ख
सञ्जय़ उवाच:
अति मा नन्दय़त्येष सौभद्रो विचरन्रणे |
२२ क
सञ्जय़ उवाच:
अन्तरं यस्य संरव्धा न पश्यन्ति महारथाः ||
२२ ख
सञ्जय़ उवाच:
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः |
२३ क
सञ्जय़ उवाच:
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ||
२३ ख
सञ्जय़ उवाच:
अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः |
२४ क
सञ्जय़ उवाच:
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ||
२४ ख
सञ्जय़ उवाच:
तेजस्विनः कुमारस्य शराः परमदारुणाः |
२५ क
सञ्जय़ उवाच:
क्षिण्वन्ति हृदय़ं मेऽद्य घोराः पावकतेजसः ||
२५ ख
सञ्जय़ उवाच:
तमाचार्योऽव्रवीत्कर्णं शनकैः प्रहसन्निव |
२६ क
सञ्जय़ उवाच:
अभेद्यमस्य कवचं युवा चाशुपराक्रमः ||
२६ ख
सञ्जय़ उवाच:
उपदिष्टा मय़ा अस्य पितुः कवचधारणा |
२७ क
सञ्जय़ उवाच:
तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जय़ः ||
२७ ख
सञ्जय़ उवाच:
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च वाणैः समाहितैः |
२८ क
सञ्जय़ उवाच:
अभीशवो हय़ाश्चैव तथोभौ पार्ष्णिसारथी ||
२८ ख
सञ्जय़ उवाच:
एतत्कुरु महेष्वास राधेय़ यदि शक्यते |
२९ क
सञ्जय़ उवाच:
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ||
२९ ख
सञ्जय़ उवाच:
सधनुष्को न शक्योऽय़मपि जेतुं सुरासुरैः |
३० क
सञ्जय़ उवाच:
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ||
३० ख
सञ्जय़ उवाच:
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् |
३१ क
सञ्जय़ उवाच:
अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् ||
३१ ख
सञ्जय़ उवाच:
अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी |
३२ क
सञ्जय़ उवाच:
शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ||
३२ ख
सञ्जय़ उवाच:
त्वरमाणास्त्वराकाले विरथं षण्महारथाः |
३३ क
सञ्जय़ उवाच:
शरवर्षैरकरुणा वालमेकमवाकिरन् ||
३३ ख
सञ्जय़ उवाच:
स छिन्नधन्वा विरथः स्वधर्ममनुपालय़न् |
३४ क
सञ्जय़ उवाच:
खड्गचर्मधरः श्रीमानुत्पपात विहाय़सम् ||
३४ ख
सञ्जय़ उवाच:
मार्गैः स कैशिकाद्यैश्च लाघवेन वलेन च |
३५ क
सञ्जय़ उवाच:
आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ||
३५ ख
सञ्जय़ उवाच:
मय़्येव निपतत्येष सासिरित्यूर्ध्वदृष्टय़ः |
३६ क
सञ्जय़ उवाच:
विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ||
३६ ख
सञ्जय़ उवाच:
तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमय़त्सरुम् |
३७ क
सञ्जय़ उवाच:
राधेय़ो निशितैर्वाणैर्व्यधमच्चर्म चोत्तमम् ||
३७ ख
सञ्जय़ उवाच:
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् |
३८ क
सञ्जय़ उवाच:
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ||
३८ ख
सञ्जय़ उवाच:
स चक्ररेणूज्ज्वलशोभिताङ्गो; वभावतीवोन्नतचक्रपाणिः |
३९ क
सञ्जय़ उवाच:
रणेऽभिमन्युः क्षणदासुभद्रः; स वासुभद्रानुकृतिं प्रकुर्वन् ||
३९ ख
सञ्जय़ उवाच:
स्रुतरुधिरकृतैकरागवक्त्रो; भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः |
४० क
सञ्जय़ उवाच:
प्रभुरमितवलो रणेऽभिमन्यु; र्नृपवरमध्यगतो भृशं व्यराजत् ||
४० ख