chevron_left कर्ण पर्व अध्याय ४७
सञ्जय़ उवाच:
तद्धर्मशीलस्य वचो निशम्य; राज्ञः क्रुद्धस्याधिरथौ महात्मा |
१ क
सञ्जय़ उवाच:
उवाच दुर्धर्षमदीनसत्त्वं; युधिष्ठिरं जिष्णुरनन्तवीर्यः ||
१ ख
सञ्जय़ उवाच:
संशप्तकैर्युध्यमानस्य मेऽद्य; सेनाग्रय़ाय़ी कुरुसैन्यस्य राजन् |
२ क
सञ्जय़ उवाच:
आशीविषाभान्खगमान्प्रमुञ्च; न्द्रौणिः पुरस्तात्सहसा व्यतिष्ठत् ||
२ ख
सञ्जय़ उवाच:
दृष्ट्वा रथं मेघनिभं ममेम; मम्वष्ठसेना मरणे व्यतिष्ठत् |
३ क
सञ्जय़ उवाच:
तेषामहं पञ्च शतानि हत्वा; ततो द्रौणिमगमं पार्थिवाग्र्य ||
३ ख
सञ्जय़ उवाच:
ततोऽपरान्वाणसङ्घाननेका; नाकर्णपूर्णाय़तविप्रमुक्तान् |
४ क
सञ्जय़ उवाच:
ससर्ज शिक्षास्त्रवलप्रय़त्नै; स्तथा यथा प्रावृषि कालमेघः ||
४ ख
सञ्जय़ उवाच:
नैवाददानं न च सन्दधानं; जानीमहे कतरेणास्यतीति |
५ क
सञ्जय़ उवाच:
वामेन वा यदि वा दक्षिणेन; स द्रोणपुत्रः समरे पर्यवर्तत् ||
५ ख
सञ्जय़ उवाच:
अविध्यन्मां पञ्चभिर्द्रोणपुत्रः; शितैः शरैः पञ्चभिर्वासुदेवम् |
६ क
सञ्जय़ उवाच:
अहं तु तं त्रिंशता वज्रकल्पैः; समार्दय़ं निमिषस्यान्तरेण ||
६ ख
सञ्जय़ उवाच:
स विक्षरन्रुधिरं सर्वगात्रै; रथानीकं सूतसूनोर्विवेश |
७ क
सञ्जय़ उवाच:
मय़ाभिभूतः सैनिकानां प्रवर्हा; नसावपश्यन्रुधिरेण प्रदिग्धान् ||
७ ख
सञ्जय़ उवाच:
ततोऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तय़ोधं द्रुतवाजिनागम् |
८ क
सञ्जय़ उवाच:
पञ्चाशता रथमुख्यैः समेतः; कर्णस्त्वरन्मामुपाय़ात्प्रमाथी ||
८ ख
सञ्जय़ उवाच:
तान्सूदय़ित्वाहमपास्य कर्णं; द्रष्टुं भवन्तं त्वरय़ाभिय़ातः |
९ क
सञ्जय़ उवाच:
सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णा; द्गन्धाद्गावः केसरिणो यथैव ||
९ ख
सञ्जय़ उवाच:
महाझषस्येव मुखं प्रपन्नाः; प्रभद्रकाः कर्णमभि द्रवन्ति |
१० क
सञ्जय़ उवाच:
मृत्योरास्यं व्यात्तमिवान्वपद्य; न्प्रभद्रकाः कर्णमासाद्य राजन् ||
१० ख
सञ्जय़ उवाच:
आय़ाहि पश्याद्य युय़ुत्समानं; मां सूतपुत्रं च वृतौ जय़ाय़ |
११ क
सञ्जय़ उवाच:
षट्साहस्रा भारत राजपुत्राः; स्वर्गाय़ लोकाय़ रथा निमग्नाः ||
११ ख
सञ्जय़ उवाच:
समेत्याहं सूतपुत्रेण सङ्ख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य |
१२ क
सञ्जय़ उवाच:
योत्स्ये भृशं भारत सूतपुत्र; मस्मिन्सङ्ग्रामे यदि वै दृश्यतेऽद्य ||
१२ ख
सञ्जय़ उवाच:
कर्णं न चेदद्य निहन्मि राज; न्सवान्धवं युध्यमानं प्रसह्य |
१३ क
सञ्जय़ उवाच:
प्रतिश्रुत्याकुर्वतां वै गतिर्या; कष्टां गच्छेय़ं तामहं राजसिंह ||
१३ ख
सञ्जय़ उवाच:
आमन्त्रय़े त्वां व्रूहि जय़ं रणे मे; पुरा भीमं धार्तराष्ट्रा ग्रसन्ते |
१४ क
सञ्जय़ उवाच:
सौतिं हनिष्यामि नरेन्द्रसिंह; सैन्यं तथा शत्रुगणांश्च सर्वान् ||
१४ ख