chevron_left शल्य पर्व अध्याय ४७
वैशम्पाय़न उवाच:
ततस्तीर्थवरं रामो यय़ौ वदरपाचनम् |
१ क
वैशम्पाय़न उवाच:
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ||
१ ख
वैशम्पाय़न उवाच:
भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि |
२ क
वैशम्पाय़न उवाच:
स्रुचावती नाम विभो कुमारी व्रह्मचारिणी ||
२ ख
वैशम्पाय़न उवाच:
तपश्चचार सात्युग्रं निय़मैर्वहुभिर्नृप |
३ क
वैशम्पाय़न उवाच:
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ||
३ ख
वैशम्पाय़न उवाच:
समास्तस्या व्यतिक्रान्ता वह्व्यः कुरुकुलोद्वह |
४ क
वैशम्पाय़न उवाच:
चरन्त्या निय़मांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान् ||
४ ख
वैशम्पाय़न उवाच:
तस्यास्तु तेन वृत्तेन तपसा च विशां पते |
५ क
वैशम्पाय़न उवाच:
भक्त्या च भगवान्प्रीतः परय़ा पाकशासनः ||
५ ख
वैशम्पाय़न उवाच:
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः |
६ क
वैशम्पाय़न उवाच:
आस्थाय़ रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ||
६ ख
वैशम्पाय़न उवाच:
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् |
७ क
वैशम्पाय़न उवाच:
आचारैर्मुनिभिर्दृष्टैः पूजय़ामास भारत ||
७ ख
वैशम्पाय़न उवाच:
उवाच निय़मज्ञा च कल्याणी सा प्रिय़ंवदा |
८ क
वैशम्पाय़न उवाच:
भगवन्मुनिशार्दूल किमाज्ञापय़सि प्रभो ||
८ ख
वैशम्पाय़न उवाच:
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत |
९ क
वैशम्पाय़न उवाच:
शक्रभक्त्या तु ते पाणिं न दास्यामि कथञ्चन ||
९ ख
वैशम्पाय़न उवाच:
व्रतैश्च निय़मैश्चैव तपसा च तपोधन |
१० क
वैशम्पाय़न उवाच:
शक्रस्तोषय़ितव्यो वै मय़ा त्रिभुवनेश्वरः ||
१० ख
वैशम्पाय़न उवाच:
इत्युक्तो भगवान्देवः स्मय़न्निव निरीक्ष्य ताम् |
११ क
वैशम्पाय़न उवाच:
उवाच निय़मज्ञां तां सान्त्वय़न्निव भारत ||
११ ख
वैशम्पाय़न उवाच:
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते |
१२ क
वैशम्पाय़न उवाच:
यदर्थमय़मारम्भस्तव कल्याणि हृद्गतः ||
१२ ख
वैशम्पाय़न उवाच:
तच्च सर्वं यथाभूतं भविष्यति वरानने |
१३ क
वैशम्पाय़न उवाच:
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति ||
१३ ख
वैशम्पाय़न उवाच:
यानि स्थानानि दिव्यानि विवुधानां शुभानने |
१४ क
वैशम्पाय़न उवाच:
तपसा तानि प्राप्यानि तपोमूलं महत्सुखम् ||
१४ ख
वैशम्पाय़न उवाच:
इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः |
१५ क
वैशम्पाय़न उवाच:
देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम ||
१५ ख
वैशम्पाय़न उवाच:
पचस्वैतानि सुभगे वदराणि शुभव्रते |
१६ क
वैशम्पाय़न उवाच:
पचेत्युक्त्वा स भगवाञ्जगाम वलसूदनः ||
१६ ख
वैशम्पाय़न उवाच:
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः |
१७ क
वैशम्पाय़न उवाच:
अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे |
१७ ख
वैशम्पाय़न उवाच:
इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते ||
१७ ग
वैशम्पाय़न उवाच:
तस्या जिज्ञासनार्थं स भगवान्पाकशासनः |
१८ क
वैशम्पाय़न उवाच:
वदराणामपचनं चकार विवुधाधिपः ||
१८ ख
वैशम्पाय़न उवाच:
ततः स प्रय़ता राजन्वाग्यता विगतक्लमा |
१९ क
वैशम्पाय़न उवाच:
तत्परा शुचिसंवीता पावके समधिश्रय़त् |
१९ ख
वैशम्पाय़न उवाच:
अपचद्राजशार्दूल वदराणि महाव्रता ||
१९ ग
वैशम्पाय़न उवाच:
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ |
२० क
वैशम्पाय़न उवाच:
न च स्म तान्यपच्यन्त दिनं च क्षय़मभ्यगात् ||
२० ख
वैशम्पाय़न उवाच:
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चय़ः |
२१ क
वैशम्पाय़न उवाच:
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ||
२१ ख
वैशम्पाय़न उवाच:
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना |
२२ क
वैशम्पाय़न उवाच:
दग्धौ दग्धौ पुनः पादावुपावर्तय़तानघा ||
२२ ख
वैशम्पाय़न उवाच:
चरणौ दह्यमानौ च नाचिन्तय़दनिन्दिता |
२३ क
वैशम्पाय़न उवाच:
दुःखं कमलपत्राक्षी महर्षेः प्रिय़काम्यया ||
२३ ख
वैशम्पाय़न उवाच:
अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः |
२४ क
वैशम्पाय़न उवाच:
ततः सन्दर्शय़ामास कन्याय़ै रूपमात्मनः ||
२४ ख
वैशम्पाय़न उवाच:
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् |
२५ क
वैशम्पाय़न उवाच:
प्रीतोऽस्मि ते शुभे भक्त्या तपसा निय़मेन च ||
२५ ख
वैशम्पाय़न उवाच:
तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे |
२६ क
वैशम्पाय़न उवाच:
देहं त्यक्त्वा महाभागे त्रिदिवे मय़ि वत्स्यसि ||
२६ ख
वैशम्पाय़न उवाच:
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति |
२७ क
वैशम्पाय़न उवाच:
सर्वपापापहं सुभ्रु नाम्ना वदरपाचनम् |
२७ ख
वैशम्पाय़न उवाच:
विख्यातं त्रिषु लोकेषु व्रह्मर्षिभिरभिप्लुतम् ||
२७ ग
वैशम्पाय़न उवाच:
अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा |
२८ क
वैशम्पाय़न उवाच:
त्यक्त्वा सप्तर्षय़ो जग्मुर्हिमवन्तमरुन्धतीम् ||
२८ ख
वैशम्पाय़न उवाच:
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः |
२९ क
वैशम्पाय़न उवाच:
वृत्त्यर्थं फलमूलानि समाहर्तुं यय़ुः किल ||
२९ ख
वैशम्पाय़न उवाच:
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने |
३० क
वैशम्पाय़न उवाच:
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ||
३० ख
वैशम्पाय़न उवाच:
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः |
३१ क
वैशम्पाय़न उवाच:
अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा ||
३१ ख
वैशम्पाय़न उवाच:
अरुन्धतीं ततो दृष्ट्वा तीव्रं निय़ममास्थिताम् |
३२ क
वैशम्पाय़न उवाच:
अथागमत्त्रिनय़नः सुप्रीतो वरदस्तदा ||
३२ ख
वैशम्पाय़न उवाच:
व्राह्मं रूपं ततः कृत्वा महादेवो महाय़शाः |
३३ क
वैशम्पाय़न उवाच:
तामभ्येत्याव्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ||
३३ ख
वैशम्पाय़न उवाच:
प्रत्युवाच ततः सा तं व्राह्मणं चारुदर्शना |
३४ क
वैशम्पाय़न उवाच:
क्षीणोऽन्नसञ्चय़ो विप्र वदराणीह भक्षय़ |
३४ ख
वैशम्पाय़न उवाच:
ततोऽव्रवीन्महादेवः पचस्वैतानि सुव्रते ||
३४ ग
वैशम्पाय़न उवाच:
इत्युक्ता सापचत्तानि व्राह्मणप्रिय़काम्यया |
३५ क
वैशम्पाय़न उवाच:
अधिश्रित्य समिद्धेऽग्नौ वदराणि यशस्विनी ||
३५ ख
वैशम्पाय़न उवाच:
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा |
३६ क
वैशम्पाय़न उवाच:
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ||
३६ ख
वैशम्पाय़न उवाच:
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः |
३७ क
वैशम्पाय़न उवाच:
अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः ||
३७ ख
वैशम्पाय़न उवाच:
ततस्ते मुनय़ः प्राप्ताः फलान्यादाय़ पर्वतात् |
३८ क
वैशम्पाय़न उवाच:
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा ||
३८ ख
वैशम्पाय़न उवाच:
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् |
३९ क
वैशम्पाय़न उवाच:
प्रीतोऽस्मि तव धर्मज्ञे तपसा निय़मेन च ||
३९ ख
वैशम्पाय़न उवाच:
ततः सन्दर्शय़ामास स्वरूपं भगवान्हरः |
४० क
वैशम्पाय़न उवाच:
ततोऽव्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत् ||
४० ख
वैशम्पाय़न उवाच:
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् |
४१ क
वैशम्पाय़न उवाच:
अस्याश्च यत्तपो विप्रा न समं तन्मतं मम ||
४१ ख
वैशम्पाय़न उवाच:
अनय़ा हि तपस्विन्या तपस्तप्तं सुदुश्चरम् |
४२ क
वैशम्पाय़न उवाच:
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ||
४२ ख
वैशम्पाय़न उवाच:
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः |
४३ क
वैशम्पाय़न उवाच:
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि ||
४३ ख
वैशम्पाय़न उवाच:
साव्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि |
४४ क
वैशम्पाय़न उवाच:
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमुत्तमम् |
४४ ख
वैशम्पाय़न उवाच:
सिद्धदेवर्षिदय़ितं नाम्ना वदरपाचनम् ||
४४ ग
वैशम्पाय़न उवाच:
तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः |
४५ क
वैशम्पाय़न उवाच:
प्राप्नुय़ादुपवासेन फलं द्वादशवार्षिकम् |
४५ ख
वैशम्पाय़न उवाच:
एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम् ||
४५ ग
वैशम्पाय़न उवाच:
ऋषय़ो विस्मय़ं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् |
४६ क
वैशम्पाय़न उवाच:
अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम् ||
४६ ख
वैशम्पाय़न उवाच:
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धय़ा |
४७ क
वैशम्पाय़न उवाच:
यथा त्वय़ा महाभागे मदर्थं संशितव्रते ||
४७ ख