सञ्जय़ उवाच:
विष्णोः स्वसानन्दिकरः स विष्ण्वाय़ुधभूषितः |
१ क
सञ्जय़ उवाच:
रराजातिरथः सङ्ख्ये जनार्दन इवापरः ||
१ ख
सञ्जय़ उवाच:
मारुतोद्धूतकेशान्तमुद्यतारिवराय़ुधम् |
२ क
सञ्जय़ उवाच:
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ||
२ ख
सञ्जय़ उवाच:
तच्चक्रं भृशमुद्विग्नाः सञ्चिच्छिदुरनेकधा |
३ क
सञ्जय़ उवाच:
महारथस्ततः कार्ष्णिः सञ्जग्राह महागदाम् ||
३ ख
सञ्जय़ उवाच:
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः |
४ क
सञ्जय़ उवाच:
अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् ||
४ ख
सञ्जय़ उवाच:
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव |
५ क
सञ्जय़ उवाच:
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ||
५ ख
सञ्जय़ उवाच:
तस्याश्वान्गदय़ा हत्वा तथोभौ पार्ष्णिसारथी |
६ क
सञ्जय़ उवाच:
शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत ||
६ ख
सञ्जय़ उवाच:
ततः सुवलदाय़ादं कालकेय़मपोथय़त् |
७ क
सञ्जय़ उवाच:
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ||
७ ख
सञ्जय़ उवाच:
पुनर्व्रह्मवसातीय़ाञ्जघान रथिनो दश |
८ क
सञ्जय़ उवाच:
केकय़ानां रथान्सप्त हत्वा च दश कुञ्जरान् |
८ ख
सञ्जय़ उवाच:
दौःशासनिरथं साश्वं गदय़ा समपोथय़त् ||
८ ग
सञ्जय़ उवाच:
ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष |
९ क
सञ्जय़ उवाच:
अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाव्रवीत् ||
९ ख
सञ्जय़ उवाच:
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ |
१० क
सञ्जय़ उवाच:
भ्रातृव्यौ सम्प्रजह्राते पुरेव त्र्यम्वकान्तकौ ||
१० ख
सञ्जय़ उवाच:
तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ |
११ क
सञ्जय़ उवाच:
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परन्तपौ ||
११ ख
सञ्जय़ उवाच:
दौःशासनिरथोत्थाय़ कुरूणां कीर्तिवर्धनः |
१२ क
सञ्जय़ उवाच:
प्रोत्तिष्ठमानं सौभद्रं गदय़ा मूर्ध्न्यताडय़त् ||
१२ ख
सञ्जय़ उवाच:
गदावेगेन महता व्याय़ामेन च मोहितः |
१३ क
सञ्जय़ उवाच:
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा |
१३ ख
सञ्जय़ उवाच:
एवं विनिहतो राजन्नेको वहुभिराहवे ||
१३ ग
सञ्जय़ उवाच:
क्षोभय़ित्वा चमूं सर्वां नलिनीमिव कुञ्जरः |
१४ क
सञ्जय़ उवाच:
अशोभत हतो वीरो व्याधैर्वनगजो यथा ||
१४ ख
सञ्जय़ उवाच:
तं तथा पतितं शूरं तावकाः पर्यवारय़न् |
१५ क
सञ्जय़ उवाच:
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ||
१५ ख
सञ्जय़ उवाच:
विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम् |
१६ क
सञ्जय़ उवाच:
अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् ||
१६ ख
सञ्जय़ उवाच:
उपप्लुतं यथा सोमं संशुष्कमिव सागरम् |
१७ क
सञ्जय़ उवाच:
पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् ||
१७ ख
सञ्जय़ उवाच:
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः |
१८ क
सञ्जय़ उवाच:
मुदा परमय़ा युक्ताश्चुक्रुशुः सिंहवन्मुहुः ||
१८ ख
सञ्जय़ उवाच:
आसीत्परमको हर्षस्तावकानां विशां पते |
१९ क
सञ्जय़ उवाच:
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ||
१९ ख
सञ्जय़ उवाच:
अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते |
२० क
सञ्जय़ उवाच:
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्वरात् ||
२० ख
सञ्जय़ उवाच:
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः |
२१ क
सञ्जय़ उवाच:
एकोऽय़ं निहतः शेते नैष धर्मो मतो हि नः ||
२१ ख
सञ्जय़ उवाच:
तस्मिंस्तु निहते वीरे वह्वशोभत मेदिनी |
२२ क
सञ्जय़ उवाच:
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ||
२२ ख
सञ्जय़ उवाच:
रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता |
२३ क
सञ्जय़ उवाच:
उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः ||
२३ ख
सञ्जय़ उवाच:
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता |
२४ क
सञ्जय़ उवाच:
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्वरोत्तमैः ||
२४ ख
सञ्जय़ उवाच:
रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः |
२५ क
सञ्जय़ उवाच:
खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ||
२५ ख
सञ्जय़ उवाच:
चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः |
२६ क
सञ्जय़ उवाच:
विविधैराय़ुधैश्चान्यैः संवृता भूरशोभत ||
२६ ख
सञ्जय़ उवाच:
वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः |
२७ क
सञ्जय़ उवाच:
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ||
२७ ख
सञ्जय़ उवाच:
साङ्कुशैः समहामात्रैः सवर्माय़ुधकेतुभिः |
२८ क
सञ्जय़ उवाच:
पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः ||
२८ ख
सञ्जय़ उवाच:
पृथिव्यामनुकीर्णैश्च व्यश्वसारथिय़ोधिभिः |
२९ क
सञ्जय़ उवाच:
ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः ||
२९ ख
सञ्जय़ उवाच:
पदातिसङ्घैश्च हतैर्विविधाय़ुधभूषणैः |
३० क
सञ्जय़ उवाच:
भीरूणां त्रासजननी घोररूपाभवन्मही ||
३० ख
सञ्जय़ उवाच:
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् |
३१ क
सञ्जय़ उवाच:
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ||
३१ ख
सञ्जय़ उवाच:
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तय़ौवने |
३२ क
सञ्जय़ उवाच:
सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ||
३२ ख
सञ्जय़ उवाच:
दीर्यमाणं वलं दृष्ट्वा सौभद्रे विनिपातिते |
३३ क
सञ्जय़ उवाच:
अजातशत्रुः स्वान्वीरानिदं वचनमव्रवीत् ||
३३ ख
सञ्जय़ उवाच:
स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः |
३४ क
सञ्जय़ उवाच:
संस्तम्भय़त मा भैष्ट विजेष्यामो रणे रिपून् ||
३४ ख
सञ्जय़ उवाच:
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः |
३५ क
सञ्जय़ उवाच:
धर्मराजो युधां श्रेष्ठो व्रुवन्दुःखमपानुदत् ||
३५ ख
सञ्जय़ उवाच:
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे वहून् |
३६ क
सञ्जय़ उवाच:
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरन्वगात् ||
३६ ख
सञ्जय़ उवाच:
हत्वा दशसहस्राणि कौसल्यं च महारथम् |
३७ क
सञ्जय़ उवाच:
कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् ||
३७ ख
सञ्जय़ उवाच:
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः |
३८ क
सञ्जय़ उवाच:
अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत् ||
३८ ख
सञ्जय़ उवाच:
वय़ं तु प्रवरं हत्वा तेषां तैः शरपीडिताः |
३९ क
सञ्जय़ उवाच:
निवेशाय़ाभ्युपाय़ाम साय़ाह्ने रुधिरोक्षिताः ||
३९ ख
सञ्जय़ उवाच:
निरीक्षमाणास्तु वय़ं परे चाय़ोधनं शनैः |
४० क
सञ्जय़ उवाच:
अपय़ाता महाराज ग्लानिं प्राप्ता विचेतसः ||
४० ख
सञ्जय़ उवाच:
ततो निशाय़ा दिवसस्य चाशिवः; शिवारुतः सन्धिरवर्तताद्भुतः |
४१ क
सञ्जय़ उवाच:
कुशेशय़ापीडनिभे दिवाकरे; विलम्वमानेऽस्तमुपेत्य पर्वतम् ||
४१ ख
सञ्जय़ उवाच:
वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन्प्रभाम् |
४२ क
सञ्जय़ उवाच:
दिवं च भूमिं च समानय़न्निव; प्रिय़ां तनुं भानुरुपैति पावकम् ||
४२ ख
सञ्जय़ उवाच:
महाभ्रकूटाचलशृङ्गसंनिभै; र्गजैरनेकैरिव वज्रपातितैः |
४३ क
सञ्जय़ उवाच:
सवैजय़न्त्यङ्कुशवर्मय़न्तृभि; र्निपातितैर्निष्टनतीव गौश्चिता ||
४३ ख
सञ्जय़ उवाच:
हतेश्वरैश्चूर्णितपत्त्युपस्करै; र्हताश्वसूतैर्विपताककेतुभिः |
४४ क
सञ्जय़ उवाच:
महारथैर्भूः शुशुभे विचूर्णितैः; पुरैरिवामित्रहतैर्नराधिप ||
४४ ख
सञ्जय़ उवाच:
रथाश्ववृन्दैः सहसादिभिर्हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः |
४५ क
सञ्जय़ उवाच:
निरस्तजिह्वादशनान्त्रलोचनै; र्धरा वभौ घोरविरूपदर्शना ||
४५ ख
सञ्जय़ उवाच:
प्रविद्धवर्माभरणा वराय़ुधा; विपन्नहस्त्यश्वरथानुगा नराः |
४६ क
सञ्जय़ उवाच:
महार्हशय़्यास्तरणोचिताः सदा; क्षितावनाथा इव शेरते हताः ||
४६ ख
सञ्जय़ उवाच:
अतीव हृष्टाः श्वसृगालवाय़सा; वडाः सुपर्णाश्च वृकास्तरक्षवः |
४७ क
सञ्जय़ उवाच:
वय़ांस्यसृक्पान्यथ रक्षसां गणाः; पिशाचसङ्घाश्च सुदारुणा रणे ||
४७ ख
सञ्जय़ उवाच:
त्वचो विनिर्भिद्य पिवन्वसामसृ; क्तथैव मज्जां पिशितानि चाश्नुवन् |
४८ क
सञ्जय़ उवाच:
वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्यनेकशः ||
४८ ख
सञ्जय़ उवाच:
शरीरसङ्घाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसङ्कटा |
४९ क
सञ्जय़ उवाच:
मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी ||
४९ ख