chevron_left भीष्म पर्व अध्याय ४८
सञ्जय़ उवाच:
वासुदेवं त्रिभिर्वाणैराजघान स्तनान्तरे ||
४९ ख
सञ्जय़ उवाच:
भीष्मचापच्युतैर्वाणैर्निर्विद्धो मधुसूदनः |
५० क
सञ्जय़ उवाच:
विरराज रणे राजन्सपुष्प इव किंशुकः ||
५० ख
सञ्जय़ उवाच:
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् |
५१ क
सञ्जय़ उवाच:
गाङ्गेय़सारथिं सङ्ख्ये निर्विभेद त्रिभिः शरैः ||
५१ ख
सञ्जय़ उवाच:
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति |
५२ क
सञ्जय़ उवाच:
नाशक्नुतां तदान्योन्यमभिसन्धातुमाहवे ||
५२ ख
सञ्जय़ उवाच:
मण्डलानि विचित्राणि गतप्रत्यागतानि च |
५३ क
सञ्जय़ उवाच:
अदर्शय़ेतां वहुधा सूतसामर्थ्यलाघवात् ||
५३ ख
सञ्जय़ उवाच:
अन्तरं च प्रहारेषु तर्कय़न्तौ महारथौ |
५४ क
सञ्जय़ उवाच:
राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ||
५४ ख
सञ्जय़ उवाच:
उभौ सिंहरवोन्मिश्रं शङ्खशव्दं प्रचक्रतुः |
५५ क
सञ्जय़ उवाच:
तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ||
५५ ख
सञ्जय़ उवाच:
तय़ोः शङ्खप्रणादेन रथनेमिस्वनेन च |
५६ क
सञ्जय़ उवाच:
दारिता सहसा भूमिश्चकम्प च ननाद च ||
५६ ख
सञ्जय़ उवाच:
न तय़ोरन्तरं कश्चिद्ददृशे भरतर्षभ |
५७ क
सञ्जय़ उवाच:
वलिनौ समरे शूरावन्योन्यसदृशावुभौ ||
५७ ख
सञ्जय़ उवाच:
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः |
५८ क
सञ्जय़ उवाच:
तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे ||
५८ ख
सञ्जय़ उवाच:
तय़ोर्नृवरय़ो राजन्दृश्य तादृक्पराक्रमम् |
५९ क
सञ्जय़ उवाच:
विस्मय़ं सर्वभूतानि जग्मुर्भारत संय़ुगे ||
५९ ख
सञ्जय़ उवाच:
न तय़ोर्विवरं कश्चिद्रणे पश्यति भारत |
६० क
सञ्जय़ उवाच:
धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ||
६० ख
सञ्जय़ उवाच:
उभौ हि शरजालेन तावदृश्यौ वभूवतुः |
६१ क
सञ्जय़ उवाच:
प्रकाशौ च पुनस्तूर्णं वभूवतुरुभौ रणे ||
६१ ख
सञ्जय़ उवाच:
तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः |
६२ क
सञ्जय़ उवाच:
अन्योन्यं प्रत्यभाषन्त तय़ोर्दृष्ट्वा पराक्रमम् ||
६२ ख
सञ्जय़ उवाच:
न शक्यौ युधि संरव्धौ जेतुमेतौ महारथौ |
६३ क
सञ्जय़ उवाच:
सदेवासुरगन्धर्वैर्लोकैरपि कथञ्चन ||
६३ ख
सञ्जय़ उवाच:
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् |
६४ क
सञ्जय़ उवाच:
नैतादृशानि युद्धानि भविष्यन्ति कथञ्चन ||
६४ ख
सञ्जय़ उवाच:
नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता |
६५ क
सञ्जय़ उवाच:
सधनुश्च रथस्थश्च प्रवपन्साय़कान्रणे ||
६५ ख
सञ्जय़ उवाच:
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् |
६६ क
सञ्जय़ उवाच:
न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ||
६६ ख
सञ्जय़ उवाच:
इति स्म वाचः श्रूय़न्ते प्रोच्चरन्त्यस्ततस्ततः |
६७ क
सञ्जय़ उवाच:
गाङ्गेय़ार्जुनय़ोः सङ्ख्ये स्तवय़ुक्ता विशां पते ||
६७ ख
सञ्जय़ उवाच:
त्वदीय़ास्तु ततो योधाः पाण्डवेय़ाश्च भारत |
६८ क
सञ्जय़ उवाच:
अन्योन्यं समरे जघ्नुस्तय़ोस्तत्र पराक्रमे ||
६८ ख
सञ्जय़ उवाच:
शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः |
६९ क
सञ्जय़ उवाच:
शरैरन्यैश्च वहुभिः शस्त्रैर्नानाविधैर्युधि |
६९ ख
सञ्जय़ उवाच:
उभय़ोः सेनय़ोर्वीरा न्यकृन्तन्त परस्परम् ||
६९ ग
सञ्जय़ उवाच:
वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे |
७० क
सञ्जय़ उवाच:
द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ||
७० ख