सञ्जय़ उवाच:
स तय़ा वीरघातिन्या जनार्दनमताडय़त् |
५१ क
सञ्जय़ उवाच:
प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् ||
५१ ख
सञ्जय़ उवाच:
नाकम्पय़त शौरिं सा विन्ध्यं गिरिमिवानिलः |
५२ क
सञ्जय़ उवाच:
प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता ||
५२ ख
सञ्जय़ उवाच:
जघान चास्थितं वीरं श्रुताय़ुधममर्षणम् |
५३ क
सञ्जय़ उवाच:
हत्वा श्रुताय़ुधं वीरं जगतीमन्वपद्यत ||
५३ ख
सञ्जय़ उवाच:
हाहाकारो महांस्तत्र सैन्यानां समजाय़त |
५४ क
सञ्जय़ उवाच:
स्वेनास्त्रेण हतं दृष्ट्वा श्रुताय़ुधमरिन्दमम् ||
५४ ख
सञ्जय़ उवाच:
अय़ुध्यमानाय़ हि सा केशवाय़ नराधिप |
५५ क
सञ्जय़ उवाच:
क्षिप्ता श्रुताय़ुधेनाथ तस्मात्तमवधीद्गदा ||
५५ ख
सञ्जय़ उवाच:
यथोक्तं वरुणेनाजौ तथा स निधनं गतः |
५६ क
सञ्जय़ उवाच:
व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ||
५६ ख
सञ्जय़ उवाच:
पतमानस्तु स वभौ पर्णाशाय़ाः प्रिय़ः सुतः |
५७ क
सञ्जय़ उवाच:
सम्भग्न इव वातेन वहुशाखो वनस्पतिः ||
५७ ख
सञ्जय़ उवाच:
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः |
५८ क
सञ्जय़ उवाच:
प्राद्रवन्त हतं दृष्ट्वा श्रुताय़ुधमरिन्दमम् ||
५८ ख
सञ्जय़ उवाच:
तथ काम्वोजराजस्य पुत्रः शूरः सुदक्षिणः |
५९ क
सञ्जय़ उवाच:
अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् ||
५९ ख
सञ्जय़ उवाच:
तस्य पार्थः शरान्सप्त प्रेषय़ामास भारत |
६० क
सञ्जय़ उवाच:
ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ||
६० ख
सञ्जय़ उवाच:
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे |
६१ क
सञ्जय़ उवाच:
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ||
६१ ख
सञ्जय़ उवाच:
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः |
६२ क
सञ्जय़ उवाच:
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ||
६२ ख
सञ्जय़ उवाच:
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः |
६३ क
सञ्जय़ उवाच:
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ||
६३ ख
सञ्जय़ उवाच:
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः |
६४ क
सञ्जय़ उवाच:
सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने ||
६४ ख
सञ्जय़ उवाच:
सा ज्वलन्ती महोल्केव तमासाद्य महारथम् |
६५ क
सञ्जय़ उवाच:
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ||
६५ ख
सञ्जय़ उवाच:
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः |
६६ क
सञ्जय़ उवाच:
साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः |
६६ ख
सञ्जय़ उवाच:
रथं चान्यैः सुवहुभिश्चक्रे विशकलं शरैः ||
६६ ग
सञ्जय़ उवाच:
सुदक्षिणं तु काम्वोजं मोघसङ्कल्पविक्रमम् |
६७ क
सञ्जय़ उवाच:
विभेद हृदि वाणेन पृथुधारेण पाण्डवः ||
६७ ख
सञ्जय़ उवाच:
स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः |
६८ क
सञ्जय़ उवाच:
पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ||
६८ ख
सञ्जय़ उवाच:
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः |
६९ क
सञ्जय़ उवाच:
निर्भग्न इव वातेन कर्णिकारो हिमात्यये ||
६९ ख
सञ्जय़ उवाच:
शेते स्म निहतो भूमौ काम्वोजास्तरणोचितः |
७० क
सञ्जय़ उवाच:
सुदर्शनीय़स्ताम्राक्षः कर्णिना स सुदक्षिणः |
७० ख
सञ्जय़ उवाच:
पुत्रः काम्वोजराजस्य पार्थेन विनिपातितः ||
७० ग
सञ्जय़ उवाच:
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते |
७१ क
सञ्जय़ उवाच:
हतं श्रुताय़ुधं दृष्ट्वा काम्वोजं च सुदक्षिणम् ||
७१ ख