व्रह्मो उवाच:
केचिद्व्रह्ममय़ं वृक्षं केचिद्व्रह्ममय़ं महत् |
१ क
व्रह्मो उवाच:
केचित्पुरुषमव्यक्तं केचित्परमनामय़म् |
१ ख
व्रह्मो उवाच:
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ||
१ ग
व्रह्मो उवाच:
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् |
२ क
व्रह्मो उवाच:
आत्मानमुपसङ्गम्य सोऽमृतत्वाय़ कल्पते ||
२ ख
व्रह्मो उवाच:
निमेषमात्रमपि चेत्संय़म्यात्मानमात्मनि |
३ क
व्रह्मो उवाच:
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ||
३ ख
व्रह्मो उवाच:
प्राणाय़ामैरथ प्राणान्संय़म्य स पुनः पुनः |
४ क
व्रह्मो उवाच:
दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ||
४ ख
व्रह्मो उवाच:
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति |
५ क
व्रह्मो उवाच:
अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय़ कल्पते ||
५ ख
व्रह्मो उवाच:
सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः |
६ क
व्रह्मो उवाच:
अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रय़म् |
६ ख
व्रह्मो उवाच:
न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः ||
६ ग
व्रह्मो उवाच:
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् |
७ क
व्रह्मो उवाच:
ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते ||
७ ख
व्रह्मो उवाच:
एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः |
८ क
व्रह्मो उवाच:
सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा ||
८ ख
व्रह्मो उवाच:
आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः |
९ क
व्रह्मो उवाच:
क्षेत्रज्ञसत्त्वय़ोरैक्यमित्येतन्नोपपद्यते ||
९ ख
व्रह्मो उवाच:
पृथग्भूतस्ततो नित्यमित्येतदविचारितम् |
१० क
व्रह्मो उवाच:
पृथग्भावश्च विज्ञेय़ः सहजश्चापि तत्त्वतः ||
१० ख
व्रह्मो उवाच:
तथैवैकत्वनानात्वमिष्यते विदुषां नय़ः |
११ क
व्रह्मो उवाच:
मशकोदुम्वरे त्वैक्यं पृथक्त्वमपि दृश्यते ||
११ ख
व्रह्मो उवाच:
मत्स्यो यथान्यः स्यादप्सु सम्प्रय़ोगस्तथानय़ोः |
१२ क
व्रह्मो उवाच:
सम्वन्धस्तोय़विन्दूनां पर्णे कोकनदस्य च ||
१२ ख
गुरुरु उवाच:
इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम् |
१३ क
गुरुरु उवाच:
पुनः संशय़मापन्नाः पप्रच्छुर्द्विजसत्तमाः ||
१३ ख
ऋषय़ ऊचुः:
किं स्विदेवेह धर्माणामनुष्ठेय़तमं स्मृतम् |
१४ क
ऋषय़ ऊचुः:
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ||
१४ ख
ऋषय़ ऊचुः:
ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे |
१५ क
ऋषय़ ऊचुः:
केचित्संशय़ितं सर्वं निःसंशय़मथापरे ||
१५ ख
ऋषय़ ऊचुः:
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे |
१६ क
ऋषय़ ऊचुः:
एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे |
१६ ख
ऋषय़ ऊचुः:
एकमेके पृथक्चान्ये वहुत्वमिति चापरे ||
१६ ग
ऋषय़ ऊचुः:
मन्यन्ते व्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः |
१७ क
ऋषय़ ऊचुः:
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ||
१७ ख
ऋषय़ ऊचुः:
अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे |
१८ क
ऋषय़ ऊचुः:
आहारं केचिदिच्छन्ति केचिच्चानशने रताः ||
१८ ख
ऋषय़ ऊचुः:
कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे |
१९ क
ऋषय़ ऊचुः:
देशकालावुभौ केचिन्नैतदस्तीति चापरे |
१९ ख
ऋषय़ ऊचुः:
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् ||
१९ ग
ऋषय़ ऊचुः:
धनानि केचिदिच्छन्ति निर्धनत्वं तथापरे |
२० क
ऋषय़ ऊचुः:
उपास्यसाधनं त्वेके नैतदस्तीति चापरे ||
२० ख
ऋषय़ ऊचुः:
अहिंसानिरताश्चान्ये केचिद्धिंसापराय़णाः |
२१ क
ऋषय़ ऊचुः:
पुण्येन यशसेत्येके नैतदस्तीति चापरे ||
२१ ख
ऋषय़ ऊचुः:
सद्भावनिरताश्चान्ये केचित्संशय़िते स्थिताः |
२२ क
ऋषय़ ऊचुः:
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः ||
२२ ख
ऋषय़ ऊचुः:
यज्ञमित्यपरे धीराः प्रदानमिति चापरे |
२३ क
ऋषय़ ऊचुः:
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ||
२३ ख
ऋषय़ ऊचुः:
तपस्त्वन्ये प्रशंसन्ति स्वाध्याय़मपरे जनाः |
२४ क
ऋषय़ ऊचुः:
ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः ||
२४ ख
ऋषय़ ऊचुः:
एवं व्युत्थापिते धर्मे वहुधा विप्रधावति |
२५ क
ऋषय़ ऊचुः:
निश्चय़ं नाधिगच्छामः संमूढाः सुरसत्तम ||
२५ ख
ऋषय़ ऊचुः:
इदं श्रेय़ इदं श्रेय़ इत्येवं प्रस्थितो जनः |
२६ क
ऋषय़ ऊचुः:
यो हि यस्मिन्रतो धर्मे स तं पूजय़ते सदा ||
२६ ख
ऋषय़ ऊचुः:
तत्र नो विहता प्रज्ञा मनश्च वहुलीकृतम् |
२७ क
ऋषय़ ऊचुः:
एतदाख्यातुमिच्छामः श्रेय़ः किमिति सत्तम ||
२७ ख
ऋषय़ ऊचुः:
अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति |
२८ क
ऋषय़ ऊचुः:
सत्त्वक्षेत्रज्ञय़ोश्चैव सम्वन्धः केन हेतुना ||
२८ ख
ऋषय़ ऊचुः:
एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः |
२९ क
ऋषय़ ऊचुः:
तेभ्यः शशंस धर्मात्मा याथातथ्येन वुद्धिमान् ||
२९ ख