chevron_left वन पर्व अध्याय ४८
वैशम्पाय़न उवाच:
सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्विकासुतः |
१ क
वैशम्पाय़न उवाच:
अव्रवीत्सञ्जय़ं सूतमामन्त्र्य भरतर्षभ ||
१ ख
वैशम्पाय़न उवाच:
देवपुत्रौ महाभागौ देवराजसमद्युती |
२ क
वैशम्पाय़न उवाच:
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ||
२ ख
वैशम्पाय़न उवाच:
दृढाय़ुधौ दूरपातौ युद्धे च कृतनिश्चय़ौ |
३ क
वैशम्पाय़न उवाच:
शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ ||
३ ख
वैशम्पाय़न उवाच:
भीमार्जुनौ पुरोधाय़ यदा तौ रणमूर्धनि |
४ क
वैशम्पाय़न उवाच:
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ |
४ ख
वैशम्पाय़न उवाच:
न शेषमिह पश्यामि तदा सैन्यस्य सञ्जय़ ||
४ ग
वैशम्पाय़न उवाच:
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ |
५ क
वैशम्पाय़न उवाच:
द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ ||
५ ख
वैशम्पाय़न उवाच:
वृष्णय़ो वा महेष्वासा पाञ्चाला वा महौजसः |
६ क
वैशम्पाय़न उवाच:
युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः |
६ ख
वैशम्पाय़न उवाच:
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ||
६ ग
वैशम्पाय़न उवाच:
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन |
७ क
वैशम्पाय़न उवाच:
न शक्यः सहितुं वेगः पर्वतैरपि संय़ुगे ||
७ ख
वैशम्पाय़न उवाच:
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः |
८ क
वैशम्पाय़न उवाच:
शैक्यया वीरघातिन्या गदय़ा विचरिष्यति ||
८ ख
वैशम्पाय़न उवाच:
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः |
९ क
वैशम्पाय़न उवाच:
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ||
९ ख
वैशम्पाय़न उवाच:
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः |
१० क
वैशम्पाय़न उवाच:
स्मरणीय़ाः स्मरिष्यामि मय़ा या न कृताः पुरा ||
१० ख
सञ्जय़ उवाच:
व्यतिक्रमोऽय़ं सुमहांस्त्वय़ा राजन्नुपेक्षितः |
११ क
सञ्जय़ उवाच:
समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ||
११ ख
सञ्जय़ उवाच:
श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः |
१२ क
सञ्जय़ उवाच:
त्वरितः काम्यके पार्थान्समभावय़दच्युतः ||
१२ ख
सञ्जय़ उवाच:
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः |
१३ क
सञ्जय़ उवाच:
विराटो धृष्टकेतुश्च केकय़ाश्च महारथाः ||
१३ ख
सञ्जय़ उवाच:
तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान् |
१४ क
सञ्जय़ उवाच:
चारेण विदितं सर्वं तन्मय़ा वेदितं च ते ||
१४ ख
सञ्जय़ उवाच:
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः |
१५ क
सञ्जय़ उवाच:
सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ||
१५ ख
सञ्जय़ उवाच:
अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान् |
१६ क
सञ्जय़ उवाच:
कृष्णाजिनोत्तरासङ्गानव्रवीच्च युधिष्ठिरम् ||
१६ ख
सञ्जय़ उवाच:
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे वभूव ह |
१७ क
सञ्जय़ उवाच:
राजसूय़े मय़ा दृष्टा नृपैरन्यैः सुदुर्लभा ||
१७ ख
सञ्जय़ उवाच:
यत्र सर्वान्महीपालाञ्शस्त्रतेजोभय़ार्दितान् |
१८ क
सञ्जय़ उवाच:
सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान् ||
१८ ख
सञ्जय़ उवाच:
सागरानूपगांश्चैव ये च पत्तनवासिनः |
१९ क
सञ्जय़ उवाच:
सिंहलान्वर्वरान्म्लेच्छान्ये च जाङ्गलवासिनः ||
१९ ख
सञ्जय़ उवाच:
पश्चिमानि च राज्यानि शतशः सागरान्तिकान् |
२० क
सञ्जय़ उवाच:
पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ||
२० ख
सञ्जय़ उवाच:
हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा |
२१ क
सञ्जय़ उवाच:
जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् ||
२१ ख
सञ्जय़ उवाच:
एते चान्ये च वहवो ये च ते भरतर्षभ |
२२ क
सञ्जय़ उवाच:
आगतानहमद्राक्षं यज्ञे ते परिवेषकान् ||
२२ ख
सञ्जय़ उवाच:
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी |
२३ क
सञ्जय़ उवाच:
आदाय़ जीवितं तेषामाहरिष्यामि तामहम् ||
२३ ख
सञ्जय़ उवाच:
रामेण सह कौरव्य भीमार्जुनय़मैस्तथा |
२४ क
सञ्जय़ उवाच:
अक्रूरगदसाम्वैश्च प्रद्युम्नेनाहुकेन च |
२४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ||
२४ ग
सञ्जय़ उवाच:
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत |
२५ क
सञ्जय़ उवाच:
दुःशासनं सौवलेय़ं यश्चान्यः प्रतिय़ोत्स्यते ||
२५ ख
सञ्जय़ उवाच:
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् |
२६ क
सञ्जय़ उवाच:
धार्तराष्ट्रीं श्रिय़ं प्राप्य प्रशाधि पृथिवीमिमाम् ||
२६ ख
सञ्जय़ उवाच:
अथैनमव्रवीद्राजा तस्मिन्वीरसमागमे |
२७ क
सञ्जय़ उवाच:
शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च ||
२७ ख
सञ्जय़ उवाच:
प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन |
२८ क
सञ्जय़ उवाच:
अमित्रान्मे महावाहो सानुवन्धान्हनिष्यसि ||
२८ ख
सञ्जय़ उवाच:
वर्षात्त्रय़ोदशादूर्ध्वं सत्यं मां कुरु केशव |
२९ क
सञ्जय़ उवाच:
प्रतिज्ञातो वने वासो राजमध्ये मय़ा ह्ययम् ||
२९ ख
सञ्जय़ उवाच:
तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः |
३० क
सञ्जय़ उवाच:
धृष्टद्युम्नपुरोगास्ते शमय़ामासुरञ्जसा |
३० ख
सञ्जय़ उवाच:
केशवं मधुरैर्वाक्यैः कालय़ुक्तैरमर्षितम् ||
३० ग
सञ्जय़ उवाच:
पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतः |
३१ क
सञ्जय़ उवाच:
दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् |
३१ ख
सञ्जय़ उवाच:
प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि ||
३१ ग
सञ्जय़ उवाच:
ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा |
३२ क
सञ्जय़ उवाच:
मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः ||
३२ ख
सञ्जय़ उवाच:
पास्यन्ति रुधिरं तेषां गृध्रा गोमाय़वस्तथा |
३३ क
सञ्जय़ उवाच:
उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले ||
३३ ख
सञ्जय़ उवाच:
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले |
३४ क
सञ्जय़ उवाच:
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ||
३४ ख
सञ्जय़ उवाच:
परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता |
३५ क
सञ्जय़ उवाच:
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ||
३५ ख
सञ्जय़ उवाच:
एवं वहुविधा वाचस्तदोचुः पुरुषर्षभाः |
३६ क
सञ्जय़ उवाच:
सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ||
३६ ख
सञ्जय़ उवाच:
ते धर्मराजेन वृता वर्षादूर्ध्वं त्रय़ोदशात् |
३७ क
सञ्जय़ उवाच:
पुरस्कृत्योपय़ास्यन्ति वासुदेवं महारथाः ||
३७ ख
सञ्जय़ उवाच:
रामश्च कृष्णश्च धनञ्जय़श्च; प्रद्युम्नसाम्वौ युय़ुधानभीमौ |
३८ क
सञ्जय़ उवाच:
माद्रीसुतौ केकय़राजपुत्राः; पाञ्चालपुत्राः सह धर्मराज्ञा ||
३८ ख
सञ्जय़ उवाच:
एतान्सर्वाँल्लोकवीरानजेय़ा; न्महात्मनः सानुवन्धान्ससैन्यान् |
३९ क
सञ्जय़ उवाच:
को जीवितार्थी समरे प्रत्युदीय़ा; त्क्रुद्धान्सिंहान्केसरिणो यथैव ||
३९ ख
धृतराष्ट्र उवाच:
यन्माव्रवीद्विदुरो द्यूतकाले; त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र |
४० क
धृतराष्ट्र उवाच:
ध्रुवं कुरूणामय़मन्तकालो; महाभय़ो भविता शोणितौघः ||
४० ख
धृतराष्ट्र उवाच:
मन्ये तथा तद्भवितेति सूत; यथा क्षत्ता प्राह वचः पुरा माम् |
४१ क
धृतराष्ट्र उवाच:
असंशय़ं भविता युद्धमेत; द्गते काले पाण्डवानां यथोक्तम् ||
४१ ख