chevron_left विराट पर्व अध्याय ४८
वैशम्पाय़न उवाच:
तथा व्यूढेष्वनीकेषु कौरवेय़ैर्महारथैः |
१ क
वैशम्पाय़न उवाच:
उपाय़ादर्जुनस्तूर्णं रथघोषेण नादय़न् ||
१ ख
वैशम्पाय़न उवाच:
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् |
२ क
वैशम्पाय़न उवाच:
दोधूय़मानस्य भृशं गाण्डीवस्य च निस्वनम् ||
२ ख
वैशम्पाय़न उवाच:
ततस्तत्सर्वमालोक्य द्रोणो वचनमव्रवीत् |
३ क
वैशम्पाय़न उवाच:
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ||
३ ख
वैशम्पाय़न उवाच:
एतद्ध्वजाग्रं पार्थस्य दूरतः सम्प्रकाशते |
४ क
वैशम्पाय़न उवाच:
एष घोषः सजलदो रोरवीति च वानरः ||
४ ख
वैशम्पाय़न उवाच:
एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत् |
५ क
वैशम्पाय़न उवाच:
उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम् ||
५ ख
वैशम्पाय़न उवाच:
इमौ हि वाणौ सहितौ पादय़ोर्मे व्यवस्थितौ |
६ क
वैशम्पाय़न उवाच:
अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ ||
६ ख
वैशम्पाय़न उवाच:
निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् |
७ क
वैशम्पाय़न उवाच:
अभिवादय़ते पार्थः श्रोत्रे च परिपृच्छति ||
७ ख
अर्जुन उवाच:
इषुपाते च सेनाय़ा हय़ान्संय़च्छ सारथे |
८ क
अर्जुन उवाच:
यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः ||
८ ख
अर्जुन उवाच:
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् |
९ क
अर्जुन उवाच:
तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः ||
९ ख
अर्जुन उवाच:
एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् |
१० क
अर्जुन उवाच:
भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः ||
१० ख
अर्जुन उवाच:
राजानं नात्र पश्यामि गाः समादाय़ गच्छति |
११ क
अर्जुन उवाच:
दक्षिणं मार्गमास्थाय़ शङ्के जीवपराय़णः ||
११ ख
अर्जुन उवाच:
उत्सृज्यैतद्रथानीकं गच्छ यत्र सुय़ोधनः |
१२ क
अर्जुन उवाच:
तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् |
१२ ख
अर्जुन उवाच:
तं जित्वा विनिवर्तिष्ये गाः समादाय़ वै पुनः ||
१२ ग
वैशम्पाय़न उवाच:
एवमुक्तः स वैराटिर्हय़ान्संय़म्य यत्नतः |
१३ क
वैशम्पाय़न उवाच:
निय़म्य च ततो रश्मीन्यत्र ते कुरुपुङ्गवाः |
१३ ख
वैशम्पाय़न उवाच:
अचोदय़त्ततो वाहान्यतो दुर्योधनस्ततः ||
१३ ग
वैशम्पाय़न उवाच:
उत्सृज्य रथवंशं तु प्रय़ाते श्वेतवाहने |
१४ क
वैशम्पाय़न उवाच:
अभिप्राय़ं विदित्वास्य द्रोणो वचनमव्रवीत् ||
१४ ख
वैशम्पाय़न उवाच:
नैषोऽन्तरेण राजानं वीभत्सुः स्थातुमिच्छति |
१५ क
वैशम्पाय़न उवाच:
तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रय़ास्यतः ||
१५ ख
वैशम्पाय़न उवाच:
न ह्येनमभिसङ्क्रुद्धमेको युध्येत संय़ुगे |
१६ क
वैशम्पाय़न उवाच:
अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात् ||
१६ ख
वैशम्पाय़न उवाच:
किं नो गावः करिष्यन्ति धनं वा विपुलं तथा |
१७ क
वैशम्पाय़न उवाच:
दुर्योधनः पार्थजले पुरा नौरिव मज्जति ||
१७ ख
वैशम्पाय़न उवाच:
तथैव गत्वा वीभत्सुर्नाम विश्राव्य चात्मनः |
१८ क
वैशम्पाय़न उवाच:
शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् ||
१८ ख
वैशम्पाय़न उवाच:
कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः |
१९ क
वैशम्पाय़न उवाच:
नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः ||
१९ ख
वैशम्पाय़न उवाच:
तेषां नात्मनिनो युद्धे नापय़ानेऽभवन्मतिः |
२० क
वैशम्पाय़न उवाच:
शीघ्रत्वमेव पार्थस्य पूजय़न्ति स्म चेतसा ||
२० ख
वैशम्पाय़न उवाच:
ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् |
२१ क
वैशम्पाय़न उवाच:
विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदय़त् ||
२१ ख
वैशम्पाय़न उवाच:
तस्य शङ्खस्य शव्देन रथनेमिस्वनेन च |
२२ क
वैशम्पाय़न उवाच:
अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् ||
२२ ख
वैशम्पाय़न उवाच:
ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः |
२३ क
वैशम्पाय़न उवाच:
गावः प्रतिन्यवर्तन्त दिशमास्थाय़ दक्षिणाम् ||
२३ ख