chevron_left शल्य पर्व अध्याय २२
सञ्जय़ उवाच:
वर्तमाने तथा युद्धे घोररूपे भय़ानके |
१ क
सञ्जय़ उवाच:
अभज्यत वलं तत्र तव पुत्रस्य पाण्डवैः ||
१ ख
सञ्जय़ उवाच:
तांस्तु यत्नेन महता संनिवार्य महारथान् |
२ क
सञ्जय़ उवाच:
पुत्रस्ते योधय़ामास पाण्डवानामनीकिनीम् ||
२ ख
सञ्जय़ उवाच:
निवृत्ताः सहसा योधास्तव पुत्रप्रिय़ैषिणः |
३ क
सञ्जय़ उवाच:
संनिवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् ||
३ ख
सञ्जय़ उवाच:
तावकानां परेषां च देवासुररणोपमम् |
४ क
सञ्जय़ उवाच:
परेषां तव सैन्ये च नासीत्कश्चित्पराङ्मुखः ||
४ ख
सञ्जय़ उवाच:
अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम् |
५ क
सञ्जय़ उवाच:
तेषां क्षय़ो महानासीद्युध्यतामितरेतरम् ||
५ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा क्रोधेन महता युतः |
६ क
सञ्जय़ उवाच:
जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान् ||
६ ख
सञ्जय़ उवाच:
त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः |
७ क
सञ्जय़ उवाच:
चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः ||
७ ख
सञ्जय़ उवाच:
अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् |
८ क
सञ्जय़ उवाच:
अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ||
८ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा रथान्सप्तशतान्रणे |
९ क
सञ्जय़ उवाच:
प्रेषय़द्यत्र राजासौ धर्मपुत्रो युधिष्ठिरः ||
९ ख
सञ्जय़ उवाच:
ते रथा रथिभिर्युक्ता मनोमारुतरंहसः |
१० क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्ग्रामे कौन्तेय़स्य रथं प्रति ||
१० ख
सञ्जय़ उवाच:
ते समन्तान्महाराज परिवार्य युधिष्ठिरम् |
११ क
सञ्जय़ उवाच:
अदृश्यं साय़कैश्चक्रुर्मेघा इव दिवाकरम् ||
११ ख
सञ्जय़ उवाच:
नामृष्यन्त सुसंरव्धाः शिखण्डिप्रमुखा रथाः |
१२ क
सञ्जय़ उवाच:
रथैरग्र्यजवैर्युक्तैः किङ्किणीजालसंवृतैः |
१२ ख
सञ्जय़ उवाच:
आजग्मुरभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् ||
१२ ग
सञ्जय़ उवाच:
ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः |
१३ क
सञ्जय़ उवाच:
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः ||
१३ ख
सञ्जय़ उवाच:
रथान्सप्तशतान्हत्वा कुरूणामातताय़िनाम् |
१४ क
सञ्जय़ उवाच:
पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारय़न् ||
१४ ख
सञ्जय़ उवाच:
तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः |
१५ क
सञ्जय़ उवाच:
न च नस्तादृशं दृष्टं नैव चापि परिश्रुतम् ||
१५ ख
सञ्जय़ उवाच:
वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः |
१६ क
सञ्जय़ उवाच:
वध्यमानेषु योधेषु तावकेष्वितरेषु च ||
१६ ख
सञ्जय़ उवाच:
निनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः |
१७ क
सञ्जय़ उवाच:
उत्कृष्टैः सिंहनादैश्च गर्जितेन च धन्विनाम् ||
१७ ख
सञ्जय़ उवाच:
अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु |
१८ क
सञ्जय़ उवाच:
धावमानेषु योधेषु जय़गृद्धिषु मारिष ||
१८ ख
सञ्जय़ उवाच:
संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे |
१९ क
सञ्जय़ उवाच:
वह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा ||
१९ ख
सञ्जय़ उवाच:
निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे |
२० क
सञ्जय़ उवाच:
प्रादुरासन्विनाशाय़ तदोत्पाताः सुदारुणाः |
२० ख
सञ्जय़ उवाच:
चचाल शव्दं कुर्वाणा सपर्वतवना मही ||
२० ग
सञ्जय़ उवाच:
सदण्डाः सोल्मुका राजञ्शीर्यमाणाः समन्ततः |
२१ क
सञ्जय़ उवाच:
उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् ||
२१ ख
सञ्जय़ उवाच:
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः |
२२ क
सञ्जय़ उवाच:
अश्रूणि मुमुचुर्नागा वेपथुश्चास्पृशद्भृशम् ||
२२ ख
सञ्जय़ उवाच:
एतान्घोराननादृत्य समुत्पातान्सुदारुणान् |
२३ क
सञ्जय़ उवाच:
पुनर्युद्धाय़ संमन्त्र्य क्षत्रिय़ास्तस्थुरव्यथाः |
२३ ख
सञ्जय़ उवाच:
रमणीय़े कुरुक्षेत्रे पुण्ये स्वर्गं यिय़ासवः ||
२३ ग
सञ्जय़ उवाच:
ततो गान्धारराजस्य पुत्रः शकुनिरव्रवीत् |
२४ क
सञ्जय़ उवाच:
युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् ||
२४ ख
सञ्जय़ उवाच:
ततो नः सम्प्रय़ातानां मद्रय़ोधास्तरस्विनः |
२५ क
सञ्जय़ उवाच:
हृष्टाः किलकिलाशव्दमकुर्वन्तापरे तथा ||
२५ ख
सञ्जय़ उवाच:
अस्मांस्तु पुनरासाद्य लव्धलक्षा दुरासदाः |
२६ क
सञ्जय़ उवाच:
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् ||
२६ ख
सञ्जय़ उवाच:
ततो हतं परैस्तत्र मद्रराजवलं तदा |
२७ क
सञ्जय़ उवाच:
दुर्योधनवलं दृष्ट्वा पुनरासीत्पराङ्मुखम् ||
२७ ख
सञ्जय़ उवाच:
गान्धारराजस्तु पुनर्वाक्यमाह ततो वली |
२८ क
सञ्जय़ उवाच:
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ||
२८ ख
सञ्जय़ उवाच:
अनीकं दशसाहस्रमश्वानां भरतर्षभ |
२९ क
सञ्जय़ उवाच:
आसीद्गान्धारराजस्य विमलप्रासय़ोधिनाम् ||
२९ ख
सञ्जय़ उवाच:
वलेन तेन विक्रम्य वर्तमाने जनक्षय़े |
३० क
सञ्जय़ उवाच:
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः ||
३० ख
सञ्जय़ उवाच:
तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः |
३१ क
सञ्जय़ उवाच:
अभज्यत महाराज पाण्डूनां सुमहद्वलम् ||
३१ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्ववलमन्तिकात् |
३२ क
सञ्जय़ उवाच:
अभ्यचोदय़दव्यग्रः सहदेवं महावलम् ||
३२ ख
सञ्जय़ उवाच:
असौ सुवलपुत्रो नो जघनं पीड्य दंशितः |
३३ क
सञ्जय़ उवाच:
सेनां निसूदय़न्त्येष पश्य पाण्डव दुर्मतिम् ||
३३ ख
सञ्जय़ उवाच:
गच्छ त्वं द्रौपदेय़ाश्च शकुनिं सौवलं जहि |
३४ क
सञ्जय़ उवाच:
रथानीकमहं रक्ष्ये पाञ्चालसहितोऽनघ ||
३४ ख
सञ्जय़ उवाच:
गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वय़ा |
३५ क
सञ्जय़ उवाच:
पादाताश्च त्रिसाहस्राः शकुनिं सौवलं जहि ||
३५ ख
सञ्जय़ उवाच:
ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः |
३६ क
सञ्जय़ उवाच:
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् ||
३६ ख
सञ्जय़ उवाच:
पादाताश्च त्रिसाहस्रा द्रौपदेय़ाश्च सर्वशः |
३७ क
सञ्जय़ उवाच:
रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् ||
३७ ख
सञ्जय़ उवाच:
ततस्तु सौवलो राजन्नभ्यतिक्रम्य पाण्डवान् |
३८ क
सञ्जय़ उवाच:
जघान पृष्ठतः सेनां जय़गृध्रः प्रतापवान् ||
३८ ख
सञ्जय़ उवाच:
अश्वारोहास्तु संरव्धाः पाण्डवानां तरस्विनाम् |
३९ क
सञ्जय़ उवाच:
प्राविशन्सौवलानीकमभ्यतिक्रम्य तान्रथान् ||
३९ ख
सञ्जय़ उवाच:
ते तत्र सादिनः शूराः सौवलस्य महद्वलम् |
४० क
सञ्जय़ उवाच:
गजमध्येऽवतिष्ठन्तः शरवर्षैरवाकिरन् ||
४० ख
सञ्जय़ उवाच:
तदुद्यतगदाप्रासमकापुरुषसेवितम् |
४१ क
सञ्जय़ उवाच:
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव ||
४१ ख
सञ्जय़ उवाच:
उपारमन्त ज्याशव्दाः प्रेक्षका रथिनोऽभवन् |
४२ क
सञ्जय़ उवाच:
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत ||
४२ ख
सञ्जय़ उवाच:
शूरवाहुविसृष्टानां शक्तीनां भरतर्षभ |
४३ क
सञ्जय़ उवाच:
ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः ||
४३ ख
सञ्जय़ उवाच:
ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशां पते |
४४ क
सञ्जय़ उवाच:
सम्पतन्तीभिराकाशमावृतं वह्वशोभत ||
४४ ख
सञ्जय़ उवाच:
प्रासानां पततां राजन्रूपमासीत्समन्ततः |
४५ क
सञ्जय़ उवाच:
शलभानामिवाकाशे तदा भरतसत्तम ||
४५ ख
सञ्जय़ उवाच:
रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्निय़न्तृभिः |
४६ क
सञ्जय़ उवाच:
हय़ाः परिपतन्ति स्म शतशोऽथ सहस्रशः ||
४६ ख
सञ्जय़ उवाच:
अन्योन्यपरिपिष्टाश्च समासाद्य परस्परम् |
४७ क
सञ्जय़ उवाच:
अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः ||
४७ ख
सञ्जय़ उवाच:
ततोऽभवत्तमो घोरं सैन्येन रजसा वृते |
४८ क
सञ्जय़ उवाच:
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दमान् |
४८ ख
सञ्जय़ उवाच:
अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति ||
४८ ग