chevron_left भीष्म पर्व अध्याय ४८
धृतराष्ट्र उवाच:
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च |
१ क
धृतराष्ट्र उवाच:
कथं प्रहरतां श्रेष्ठाः सम्प्रहारं प्रचक्रिरे ||
१ ख
सञ्जय़ उवाच:
समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः |
२ क
सञ्जय़ उवाच:
अपारमिव सन्दृश्य सागरप्रतिमं वलम् ||
२ ख
सञ्जय़ उवाच:
तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव |
३ क
सञ्जय़ उवाच:
अव्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः ||
३ ख
सञ्जय़ उवाच:
ते मनः क्रूरमास्थाय़ समभित्यक्तजीविताः |
४ क
सञ्जय़ उवाच:
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ||
४ ख
सञ्जय़ उवाच:
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् |
५ क
सञ्जय़ उवाच:
तावकानां परेषां च व्यतिषक्तरथद्विपम् ||
५ ख
सञ्जय़ उवाच:
मुक्तास्तु रथिभिर्वाणा रुक्मपुङ्खाः सुतेजनाः |
६ क
सञ्जय़ उवाच:
संनिपेतुरकुण्ठाग्रा नागेषु च हय़ेषु च ||
६ ख
सञ्जय़ उवाच:
तथा प्रवृत्ते सङ्ग्रामे धनुरुद्यम्य दंशितः |
७ क
सञ्जय़ उवाच:
अभिपत्य महावाहुर्भीष्मो भीमपराक्रमः ||
७ ख
सञ्जय़ उवाच:
सौभद्रे भीमसेने च शैनेय़े च महारथे |
८ क
सञ्जय़ उवाच:
केकय़े च विराटे च धृष्टद्युम्ने च पार्षते ||
८ ख
सञ्जय़ उवाच:
एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः |
९ क
सञ्जय़ उवाच:
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ||
९ ख
सञ्जय़ उवाच:
प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे |
१० क
सञ्जय़ उवाच:
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ||
१० ख
सञ्जय़ उवाच:
सादितध्वजनागाश्च हतप्रवरवाजिनः |
११ क
सञ्जय़ उवाच:
विप्रय़ातरथानीकाः समपद्यन्त पाण्डवाः ||
११ ख
सञ्जय़ उवाच:
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् |
१२ क
सञ्जय़ उवाच:
वार्ष्णेय़मव्रवीत्क्रुद्धो याहि यत्र पितामहः ||
१२ ख
सञ्जय़ उवाच:
एष भीष्मः सुसङ्क्रुद्धो वार्ष्णेय़ मम वाहिनीम् |
१३ क
सञ्जय़ उवाच:
नाशय़िष्यति सुव्यक्तं दुर्योधनहिते रतः ||
१३ ख
सञ्जय़ उवाच:
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन |
१४ क
सञ्जय़ उवाच:
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ||
१४ ख
सञ्जय़ उवाच:
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना |
१५ क
सञ्जय़ उवाच:
सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन ||
१५ ख
सञ्जय़ उवाच:
तमव्रवीद्वासुदेवो यत्तो भव धनञ्जय़ |
१६ क
सञ्जय़ उवाच:
एष त्वा प्रापय़े वीर पितामहरथं प्रति ||
१६ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् |
१७ क
सञ्जय़ उवाच:
प्रापय़ामास भीष्माय़ रथं प्रति जनेश्वर ||
१७ ख
सञ्जय़ उवाच:
चञ्चद्वहुपताकेन वलाकावर्णवाजिना |
१८ क
सञ्जय़ उवाच:
समुच्छ्रितमहाभीमनदद्वानरकेतुना |
१८ ख
सञ्जय़ उवाच:
महता मेघनादेन रथेनादित्यवर्चसा ||
१८ ग
सञ्जय़ उवाच:
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः |
१९ क
सञ्जय़ उवाच:
आय़ाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः ||
१९ ख
सञ्जय़ उवाच:
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् |
२० क
सञ्जय़ उवाच:
त्रासय़ानं रणे शूरान्पातय़न्तं च साय़कैः ||
२० ख
सञ्जय़ उवाच:
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकय़ैः |
२१ क
सञ्जय़ उवाच:
सहसा प्रत्युदीय़ाय़ भीष्मः शान्तनवोऽर्जुनम् ||
२१ ख
सञ्जय़ उवाच:
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् |
२२ क
सञ्जय़ उवाच:
द्रोणवैकर्तनाभ्यां वा रथः संय़ातुमर्हति ||
२२ ख
सञ्जय़ उवाच:
ततो भीष्मो महाराज कौरवाणां पितामहः |
२३ क
सञ्जय़ उवाच:
अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् ||
२३ ख
सञ्जय़ उवाच:
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः |
२४ क
सञ्जय़ उवाच:
दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः ||
२४ ख
सञ्जय़ उवाच:
सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः |
२५ क
सञ्जय़ उवाच:
विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ||
२५ ख
सञ्जय़ उवाच:
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः |
२६ क
सञ्जय़ उवाच:
न विव्यथे महावाहुर्भिद्यमान इवाचलः ||
२६ ख
सञ्जय़ उवाच:
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः |
२७ क
सञ्जय़ उवाच:
द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ||
२७ ख
सञ्जय़ उवाच:
आर्ताय़निं त्रिभिर्वाणै राजानं चापि पञ्चभिः |
२८ क
सञ्जय़ उवाच:
प्रत्यविध्यदमेय़ात्मा किरीटी भरतर्षभ ||
२८ ख
सञ्जय़ उवाच:
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः |
२९ क
सञ्जय़ उवाच:
द्रौपदेय़ाभिमन्युश्च परिवव्रुर्धनञ्जय़म् ||
२९ ख
सञ्जय़ उवाच:
ततो द्रोणं महेष्वासं गाङ्गेय़स्य प्रिय़े रतम् |
३० क
सञ्जय़ उवाच:
अभ्यवर्षत पाञ्चाल्यः संय़ुक्तः सह सोमकैः ||
३० ख
सञ्जय़ उवाच:
भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् |
३१ क
सञ्जय़ उवाच:
अशीत्या निशितैर्वाणैस्ततोऽक्रोशन्त तावकाः ||
३१ ख
सञ्जय़ उवाच:
तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् |
३२ क
सञ्जय़ उवाच:
प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् ||
३२ ख
सञ्जय़ उवाच:
तेषां तु रथसिंहानां मध्यं प्राप्य धनञ्जय़ः |
३३ क
सञ्जय़ उवाच:
चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान् ||
३३ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः |
३४ क
सञ्जय़ उवाच:
पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संय़ुगे ||
३४ ख
सञ्जय़ उवाच:
एष पाण्डुसुतस्तात कृष्णेन सहितो वली |
३५ क
सञ्जय़ उवाच:
यततां सर्वसैन्यानां मूलं नः परिकृन्तति |
३५ ख
सञ्जय़ उवाच:
त्वय़ि जीवति गाङ्गेय़े द्रोणे च रथिनां वरे ||
३५ ग
सञ्जय़ उवाच:
त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः |
३६ क
सञ्जय़ उवाच:
न युध्यति रणे पार्थं हितकामः सदा मम ||
३६ ख
सञ्जय़ उवाच:
स तथा कुरु गाङ्गेय़ यथा हन्येत फल्गुनः |
३७ क
सञ्जय़ उवाच:
एवमुक्तस्ततो राजन्पिता देवव्रतस्तव |
३७ ख
सञ्जय़ उवाच:
धिक्क्षत्रधर्ममित्युक्त्वा यय़ौ पार्थरथं प्रति ||
३७ ग
सञ्जय़ उवाच:
उभौ श्वेतहय़ौ राजन्संसक्तौ दृश्य पार्थिवाः |
३८ क
सञ्जय़ उवाच:
सिंहनादान्भृशं चक्रुः शङ्खशव्दांश्च भारत ||
३८ ख
सञ्जय़ उवाच:
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः |
३९ क
सञ्जय़ उवाच:
परिवार्य रणे भीष्मं स्थिता युद्धाय़ मारिष ||
३९ ख
सञ्जय़ उवाच:
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जय़म् |
४० क
सञ्जय़ उवाच:
स्थिता युद्धाय़ महते ततो युद्धमवर्तत ||
४० ख
सञ्जय़ उवाच:
गाङ्गेय़स्तु रणे पार्थमानर्छन्नवभिः शरैः |
४१ क
सञ्जय़ उवाच:
तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः ||
४१ ख
सञ्जय़ उवाच:
ततः शरसहस्रेण सुप्रय़ुक्तेन पाण्डवः |
४२ क
सञ्जय़ उवाच:
अर्जुनः समरश्लाघी भीष्मस्यावारय़द्दिशः ||
४२ ख
सञ्जय़ उवाच:
शरजालं ततस्तत्तु शरजालेन कौरव |
४३ क
सञ्जय़ उवाच:
वारय़ामास पार्थस्य भीष्मः शान्तनवस्तथा ||
४३ ख
सञ्जय़ उवाच:
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ |
४४ क
सञ्जय़ उवाच:
निर्विशेषमय़ुध्येतां कृतप्रतिकृतैषिणौ ||
४४ ख
सञ्जय़ उवाच:
भीष्मचापविमुक्तानि शरजालानि सङ्घशः |
४५ क
सञ्जय़ उवाच:
शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसाय़कैः ||
४५ ख
सञ्जय़ उवाच:
तथैवार्जुनमुक्तानि शरजालानि भागशः |
४६ क
सञ्जय़ उवाच:
गाङ्गेय़शरनुन्नानि न्यपतन्त महीतले ||
४६ ख
सञ्जय़ उवाच:
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः |
४७ क
सञ्जय़ उवाच:
भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः ||
४७ ख
सञ्जय़ उवाच:
अन्योन्यस्य हय़ान्विद्ध्वा ध्वजौ च सुमहावलौ |
४८ क
सञ्जय़ उवाच:
रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ ||
४८ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः |
४९ क