सञ्जय़ उवाच:
श्रुत्वा कर्णं कल्यमुदारवीर्यं; क्रुद्धः पार्थः फल्गुनस्यामितौजाः |
१ क
सञ्जय़ उवाच:
धनञ्जय़ं वाक्यमुवाच चेदं; युधिष्ठिरः कर्णशराभितप्तः ||
१ ख
सञ्जय़ उवाच:
इदं यदि द्वैतवने ह्यवक्ष्यः; कर्णं योद्धुं न प्रसहे नृपेति |
२ क
सञ्जय़ उवाच:
वय़ं तदा प्राप्तकालानि सर्वे; वृत्तान्युपैष्याम तदैव पार्थ ||
२ ख
सञ्जय़ उवाच:
मय़ि प्रतिश्रुत्य वधं हि तस्य; वलस्य चाप्तस्य तथैव वीर |
३ क
सञ्जय़ उवाच:
आनीय़ नः शत्रुमध्यं स कस्मा; त्समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः ||
३ ख
सञ्जय़ उवाच:
अन्वाशिष्म वय़मर्जुन त्वय़ि; यिय़ासवो वहु कल्याणमिष्टम् |
४ क
सञ्जय़ उवाच:
तन्नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुल इवातिपुष्पः ||
४ ख
सञ्जय़ उवाच:
प्रच्छादितं वडिशमिवामिषेण; प्रच्छादितो गवय़ इवापवाचा |
५ क
सञ्जय़ उवाच:
अनर्थकं मे दर्शितवानसि त्वं; राज्यार्थिनो राज्यरूपं विनाशम् ||
५ ख
सञ्जय़ उवाच:
यत्तत्पृथां वागुवाचान्तरिक्षे; सप्ताहजाते त्वय़ि मन्दवुद्धौ |
६ क
सञ्जय़ उवाच:
जातः पुत्रो वासवविक्रमोऽय़ं; सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति ||
६ ख
सञ्जय़ उवाच:
अय़ं जेता खाण्डवे देवसङ्घा; न्सर्वाणि भूतान्यपि चोत्तमौजाः |
७ क
सञ्जय़ उवाच:
अय़ं जेता मद्रकलिङ्गकेकय़ा; नय़ं कुरून्हन्ति च राजमध्ये ||
७ ख
सञ्जय़ उवाच:
अस्मात्परो न भविता धनुर्धरो; न वै भूतः कश्चन जातु जेता |
८ क
सञ्जय़ उवाच:
इच्छन्नार्यः सर्वभूतानि कुर्या; द्वशे वशी सर्वसमाप्तविद्यः ||
८ ख
सञ्जय़ उवाच:
कान्त्या शशाङ्कस्य जवेन वाय़ोः; स्थैर्येण मेरोः क्षमय़ा पृथिव्याः |
९ क
सञ्जय़ उवाच:
सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य वलेन विष्णोः ||
९ ख
सञ्जय़ उवाच:
तुल्यो महात्मा तव कुन्ति पुत्रो; जातोऽदितेर्विष्णुरिवारिहन्ता |
१० क
सञ्जय़ उवाच:
स्वेषां जय़ाय़ द्विषतां वधाय़; ख्यातोऽमितौजाः कुलतन्तुकर्ता ||
१० ख
सञ्जय़ उवाच:
इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वागुवाच |
११ क
सञ्जय़ उवाच:
एवंविधं त्वां तच्च नाभूत्तवाद्य; देवा हि नूनमनृतं वदन्ति ||
११ ख
सञ्जय़ उवाच:
तथापरेषामृषिसत्तमानां; श्रुत्वा गिरं पूजय़तां सदैव |
१२ क
सञ्जय़ उवाच:
न संनतिं प्रैमि सुय़ोधनस्य; न त्वा जानाम्याधिरथेर्भय़ार्तम् ||
१२ ख
सञ्जय़ उवाच:
त्वष्ट्रा कृतं वाहमकूजनाक्षं; शुभं समास्थाय़ कपिध्वजं त्वम् |
१३ क
सञ्जय़ उवाच:
खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश्चेदं गाण्डिवं तालमात्रम् |
१३ ख
सञ्जय़ उवाच:
स केशवेनोह्यमानः कथं नु; कर्णाद्भीतो व्यपय़ातोऽसि पार्थ ||
१३ ग
सञ्जय़ उवाच:
धनुश्चैतत्केशवाय़ प्रदाय़; यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन् |
१४ क
सञ्जय़ उवाच:
ततोऽहनिष्यत्केशवः कर्णमुग्रं; मरुत्पतिर्वृत्रमिवात्तवज्रः ||
१४ ख
सञ्जय़ उवाच:
मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे; न वा गर्भोऽप्यभविष्यः पृथाय़ाः |
१५ क
सञ्जय़ उवाच:
तत्ते श्रमो राजपुत्राभविष्य; न्न सङ्ग्रामादपय़ातुं दुरात्मन् ||
१५ ख