वैशम्पाय़न उवाच:
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो वली |
१ क
वैशम्पाय़न उवाच:
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि ||
१ ख
वैशम्पाय़न उवाच:
तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह |
२ क
वैशम्पाय़न उवाच:
वृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् ||
२ ख
वैशम्पाय़न उवाच:
निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् |
३ क
वैशम्पाय़न उवाच:
आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः ||
३ ख
वैशम्पाय़न उवाच:
तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः |
४ क
वैशम्पाय़न उवाच:
पूरय़ामास विधिवत्ततः ख्यातः शतक्रतुः ||
४ ख
वैशम्पाय़न उवाच:
तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम् |
५ क
वैशम्पाय़न उवाच:
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् ||
५ ख
वैशम्पाय़न उवाच:
उपस्पृश्य च तत्रापि विधिवन्मुसलाय़ुधः |
६ क
वैशम्पाय़न उवाच:
व्राह्मणान्पूजय़ित्वा च पानाच्छादनभोजनैः |
६ ख
वैशम्पाय़न उवाच:
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह ||
६ ग
वैशम्पाय़न उवाच:
यत्र रामो महाभागो भार्गवः सुमहातपाः |
७ क
वैशम्पाय़न उवाच:
असकृत्पृथिवीं सर्वां हतक्षत्रिय़पुङ्गवाम् ||
७ ख
वैशम्पाय़न उवाच:
उपाध्याय़ं पुरस्कृत्य कश्यपं मुनिसत्तमम् |
८ क
वैशम्पाय़न उवाच:
अय़जद्वाजपेय़ेन सोऽश्वमेधशतेन च |
८ ख
वैशम्पाय़न उवाच:
प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम् ||
८ ग
वैशम्पाय़न उवाच:
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय़ |
९ क
वैशम्पाय़न उवाच:
उपस्पृश्य यथान्याय़ं पूजय़ित्वा तथा द्विजान् ||
९ ख
वैशम्पाय़न उवाच:
पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः |
१० क
वैशम्पाय़न उवाच:
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् ||
१० ख
वैशम्पाय़न उवाच:
यत्रानय़ामास तदा राजसूय़ं महीपते |
११ क
वैशम्पाय़न उवाच:
पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः ||
११ ख
वैशम्पाय़न उवाच:
तत्र निर्जित्य सङ्ग्रामे मानुषान्दैवतांस्तथा |
१२ क
वैशम्पाय़न उवाच:
वरं क्रतुं समाजह्रे वरुणः परवीरहा ||
१२ ख
वैशम्पाय़न उवाच:
तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजाय़त |
१३ क
वैशम्पाय़न उवाच:
देवानां दानवानां च त्रैलोक्यस्य क्षय़ावहः ||
१३ ख
वैशम्पाय़न उवाच:
राजसूय़े क्रतुश्रेष्ठे निवृत्ते जनमेजय़ |
१४ क
वैशम्पाय़न उवाच:
जाय़ते सुमहाघोरः सङ्ग्रामः क्षत्रिय़ान्प्रति ||
१४ ख
वैशम्पाय़न उवाच:
सीराय़ुधस्तदा रामस्तस्मिंस्तीर्थवरे तदा |
१५ क
वैशम्पाय़न उवाच:
तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः ||
१५ ख
वैशम्पाय़न उवाच:
वनमाली ततो हृष्टः स्तूय़मानो द्विजातिभिः |
१६ क
वैशम्पाय़न उवाच:
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः ||
१६ ख
वैशम्पाय़न उवाच:
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम |
१७ क
वैशम्पाय़न उवाच:
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत ||
१७ ख
वैशम्पाय़न उवाच:
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः |
१८ क
वैशम्पाय़न उवाच:
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह ||
१८ ख
वैशम्पाय़न उवाच:
द्वैपाय़नः शुकश्चैव कृष्णश्च मधुसूदनः |
१९ क
वैशम्पाय़न उवाच:
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते ||
१९ ख
वैशम्पाय़न उवाच:
एते चान्ये च वहवो योगसिद्धाः सहस्रशः |
२० क
वैशम्पाय़न उवाच:
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप ||
२० ख
वैशम्पाय़न उवाच:
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ |
२१ क
वैशम्पाय़न उवाच:
आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे ||
२१ ख
वैशम्पाय़न उवाच:
द्वैपाय़नश्च धर्मात्मा तत्रैवाप्लुत्य भारत |
२२ क
वैशम्पाय़न उवाच:
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः ||
२२ ख
वैशम्पाय़न उवाच:
असितो देवलश्चैव तस्मिन्नेव महातपाः |
२३ क
वैशम्पाय़न उवाच:
परमं योगमास्थाय़ ऋषिर्योगमवाप्तवान् ||
२३ ख