chevron_left शान्ति पर्व अध्याय ४९
वासुदेव उवाच:
ये ते यय़ातिपतने यज्ञे सन्तः समागताः |
५० क
वासुदेव उवाच:
प्रतर्दनप्रभृतय़ो राम किं क्षत्रिय़ा न ते ||
५० ख
वासुदेव उवाच:
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि |
५१ क
वासुदेव उवाच:
भय़ात्क्षत्रिय़वीराणां पर्वतं समुपाश्रितः ||
५१ ख
वासुदेव उवाच:
स पुनः क्षत्रिय़शतैः पृथिवीमनुसन्तताम् |
५२ क
वासुदेव उवाच:
परावसोस्तदा श्रुत्वा शस्त्रं जग्राह भार्गवः ||
५२ ख
वासुदेव उवाच:
ततो ये क्षत्रिय़ा राजञ्शतशस्तेन जीविताः |
५३ क
वासुदेव उवाच:
ते विवृद्धा महावीर्याः पृथिवीपतय़ोऽभवन् ||
५३ ख
वासुदेव उवाच:
स पुनस्ताञ्जघानाशु वालानपि नराधिप |
५४ क
वासुदेव उवाच:
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा ||
५४ ख
वासुदेव उवाच:
जातं जातं स गर्भं तु पुनरेव जघान ह |
५५ क
वासुदेव उवाच:
अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिय़योषितः ||
५५ ख
वासुदेव उवाच:
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रिय़ां प्रभुः |
५६ क
वासुदेव उवाच:
दक्षिणामश्वमेधान्ते कश्यपाय़ाददत्ततः ||
५६ ख
वासुदेव उवाच:
क्षत्रिय़ाणां तु शेषार्थं करेणोद्दिश्य कश्यपः |
५७ क
वासुदेव उवाच:
स्रुक्प्रग्रहवता राजञ्श्रीमान्वाक्यमथाव्रवीत् ||
५७ ख
वासुदेव उवाच:
गच्छ पारं समुद्रस्य दक्षिणस्य महामुने |
५८ क
वासुदेव उवाच:
न ते मद्विषय़े राम वस्तव्यमिह कर्हिचित् ||
५८ ख
वासुदेव उवाच:
ततः शूर्पारकं देशं सागरस्तस्य निर्ममे |
५९ क
वासुदेव उवाच:
सन्त्रासाज्जामदग्न्यस्य सोऽपरान्तं महीतलम् ||
५९ ख
वासुदेव उवाच:
कश्यपस्तु महाराज प्रतिगृह्य महीमिमाम् |
६० क
वासुदेव उवाच:
कृत्वा व्राह्मणसंस्थां वै प्रविवेश महावनम् ||
६० ख
वासुदेव उवाच:
ततः शूद्राश्च वैश्याश्च यथास्वैरप्रचारिणः |
६१ क
वासुदेव उवाच:
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ ||
६१ ख
वासुदेव उवाच:
अराजके जीवलोके दुर्वला वलवत्तरैः |
६२ क
वासुदेव उवाच:
वाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित् ||
६२ ख
वासुदेव उवाच:
ततः कालेन पृथिवी प्रविवेश रसातलम् |
६३ क
वासुदेव उवाच:
अरक्ष्यमाणा विधिवत्क्षत्रिय़ैर्धर्मरक्षिभिः ||
६३ ख
वासुदेव उवाच:
ऊरुणा धारय़ामास कश्यपः पृथिवीं ततः |
६४ क
वासुदेव उवाच:
निमज्जन्तीं तदा राजंस्तेनोर्वीति मही स्मृता ||
६४ ख
वासुदेव उवाच:
रक्षिणश्च समुद्दिश्य प्राय़ाचत्पृथिवी तदा |
६५ क
वासुदेव उवाच:
प्रसाद्य कश्यपं देवी क्षत्रिय़ान्वाहुशालिनः ||
६५ ख
वासुदेव उवाच:
सन्ति व्रह्मन्मय़ा गुप्ता नृषु क्षत्रिय़पुङ्गवाः |
६६ क
वासुदेव उवाच:
हैहय़ानां कुले जातास्ते संरक्षन्तु मां मुने ||
६६ ख
वासुदेव उवाच:
अस्ति पौरवदाय़ादो विडूरथसुतः प्रभो |
६७ क
वासुदेव उवाच:
ऋक्षैः संवर्धितो विप्र ऋक्षवत्येव पर्वते ||
६७ ख
वासुदेव उवाच:
तथानुकम्पमानेन यज्वनाथामितौजसा |
६८ क
वासुदेव उवाच:
पराशरेण दाय़ादः सौदासस्याभिरक्षितः ||
६८ ख
वासुदेव उवाच:
सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद्धि सः |
६९ क
वासुदेव उवाच:
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः ||
६९ ख
वासुदेव उवाच:
शिवेः पुत्रो महातेजा गोपतिर्नाम नामतः |
७० क
वासुदेव उवाच:
वने संरक्षितो गोभिः सोऽभिरक्षतु मां मुने ||
७० ख
वासुदेव उवाच:
प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाय़शाः |
७१ क
वासुदेव उवाच:
वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः ||
७१ ख
वासुदेव उवाच:
दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य ह |
७२ क
वासुदेव उवाच:
अङ्गः स गौतमेनापि गङ्गाकूलेऽभिरक्षितः ||
७२ ख
वासुदेव उवाच:
वृहद्रथो महावाहुर्भुवि भूतिपुरस्कृतः |
७३ क
वासुदेव उवाच:
गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः ||
७३ ख
वासुदेव उवाच:
मरुत्तस्यान्ववाय़े तु क्षत्रिय़ास्तुर्वसोस्त्रय़ः |
७४ क
वासुदेव उवाच:
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ||
७४ ख
वासुदेव उवाच:
एते क्षत्रिय़दाय़ादास्तत्र तत्र परिश्रुताः |
७५ क
वासुदेव उवाच:
सम्यङ्मामभिरक्षन्तु ततः स्थास्यामि निश्चला ||
७५ ख
वासुदेव उवाच:
एतेषां पितरश्चैव तथैव च पितामहाः |
७६ क
वासुदेव उवाच:
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा ||
७६ ख
वासुदेव उवाच:
तेषामपचितिश्चैव मय़ा कार्या न संशय़ः |
७७ क
वासुदेव उवाच:
न ह्यहं कामय़े नित्यमविक्रान्तेन रक्षणम् ||
७७ ख
वासुदेव उवाच:
ततः पृथिव्या निर्दिष्टांस्तान्समानीय़ कश्यपः |
७८ क
वासुदेव उवाच:
अभ्यषिञ्चन्महीपालान्क्षत्रिय़ान्वीर्यसंमतान् ||
७८ ख
वासुदेव उवाच:
तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः |
७९ क
वासुदेव उवाच:
एवमेतत्पुरा वृत्तं यन्मां पृच्छसि पाण्डव ||
७९ ख
वैशम्पाय़न उवाच:
एवं व्रुवन्नेव यदुप्रवीरो; युधिष्ठिरं धर्मभृतां वरिष्ठम् |
८० क
वैशम्पाय़न उवाच:
रथेन तेनाशु यय़ौ यथार्को; विशन्प्रभाभिर्भगवांस्त्रिलोकम् ||
८० ख