chevron_left कर्ण पर्व अध्याय ४९
कृष्ण उवाच:
तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति ||
४७ ख
कृष्ण उवाच:
दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति |
४८ क
कृष्ण उवाच:
श्रुतिर्धर्म इति ह्येके वदन्ति वहवो जनाः ||
४८ ख
कृष्ण उवाच:
न त्वेतत्प्रतिसूय़ामि न हि सर्वं विधीय़ते |
४९ क
कृष्ण उवाच:
प्रभवार्थाय़ भूतानां धर्मप्रवचनं कृतम् ||
४९ ख
कृष्ण उवाच:
धारणाद्धर्ममित्याहुर्धर्मो धारय़ति प्रजाः |
५० क
कृष्ण उवाच:
यः स्याद्धारणसंय़ुक्तः स धर्म इति निश्चय़ः ||
५० ख
कृष्ण उवाच:
येऽन्याय़ेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित् |
५१ क
कृष्ण उवाच:
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन ||
५१ ख
कृष्ण उवाच:
अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजतः |
५२ क
कृष्ण उवाच:
श्रेय़स्तत्रानृतं वक्तुं सत्यादिति विचारितम् ||
५२ ख
कृष्ण उवाच:
प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षय़े |
५३ क
कृष्ण उवाच:
नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् |
५३ ख
कृष्ण उवाच:
अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः ||
५३ ग
कृष्ण उवाच:
यः स्तेनैः सह सम्वन्धान्मुच्यते शपथैरपि |
५४ क
कृष्ण उवाच:
श्रेय़स्तत्रानृतं वक्तुं तत्सत्यमविचारितम् ||
५४ ख
कृष्ण उवाच:
न च तेभ्यो धनं देय़ं शक्ये सति कथञ्चन |
५५ क
कृष्ण उवाच:
पापेभ्यो हि धनं दत्तं दातारमपि पीडय़ेत् |
५५ ख
कृष्ण उवाच:
तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् ||
५५ ग
कृष्ण उवाच:
एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि |
५६ क
कृष्ण उवाच:
एतच्छ्रुत्वा व्रूहि पार्थ यदि वध्यो युधिष्ठिरः ||
५६ ख
अर्जुन उवाच:
यथा व्रूय़ान्महाप्राज्ञो यथा व्रूय़ान्महामतिः |
५७ क
अर्जुन उवाच:
हितं चैव यथास्माकं तथैतद्वचनं तव ||
५७ ख
अर्जुन उवाच:
भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च |
५८ क
अर्जुन उवाच:
गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम् ||
५८ ख
अर्जुन उवाच:
न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् |
५९ क
अर्जुन उवाच:
तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ||
५९ ख
अर्जुन उवाच:
अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् |
६० क
अर्जुन उवाच:
तस्मिन्समय़संय़ोगे व्रूहि किञ्चिदनुग्रहम् |
६० ख
अर्जुन उवाच:
इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम् ||
६० ग
अर्जुन उवाच:
जानासि दाशार्ह मम व्रतं त्वं; यो मां व्रूय़ात्कश्चन मानुषेषु |
६१ क
अर्जुन उवाच:
अन्यस्मै त्वं गाण्डिवं देहि पार्थ; यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः ||
६१ ख
अर्जुन उवाच:
हन्यामहं केशव तं प्रसह्य; भीमो हन्यात्तूवरकेति चोक्तः |
६२ क
अर्जुन उवाच:
तन्मे राजा प्रोक्तवांस्ते समक्षं; धनुर्देहीत्यसकृद्वृष्णिसिंह ||
६२ ख
अर्जुन उवाच:
तं हत्वा चेत्केशव जीवलोके; स्थाता कालं नाहमप्यल्पमात्रम् |
६३ क
अर्जुन उवाच:
सा च प्रतिज्ञा मम लोकप्रवुद्धा; भवेत्सत्या धर्मभृतां वरिष्ठ |
६३ ख
अर्जुन उवाच:
यथा जीवेत्पाण्डवोऽहं च कृष्ण; तथा वुद्धिं दातुमद्यार्हसि त्वम् ||
६३ ग
वासुदेव उवाच:
राजा श्रान्तो जगतो विक्षतश्च; कर्णेन सङ्ख्ये निशितैर्वाणसङ्घैः |
६४ क
वासुदेव उवाच:
तस्मात्पार्थ त्वां परुषाण्यवोच; त्कर्णे द्यूतं ह्यद्य रणे निवद्धम् ||
६४ ख
वासुदेव उवाच:
तस्मिन्हते कुरवो निर्जिताः स्यु; रेवम्वुद्धिः पार्थिवो धर्मपुत्रः |
६५ क
वासुदेव उवाच:
यदावमानं लभते महान्तं; तदा जीवन्मृत इत्युच्यते सः ||
६५ ख
वासुदेव उवाच:
तन्मानितः पार्थिवोऽय़ं सदैव; त्वय़ा सभीमेन तथा यमाभ्याम् |
६६ क
वासुदेव उवाच:
वृद्धैश्च लोके पुरुषप्रवीरै; स्तस्यावमानं कलय़ा त्वं प्रय़ुङ्क्ष्व ||
६६ ख
वासुदेव उवाच:
त्वमित्यत्रभवन्तं त्वं व्रूहि पार्थ युधिष्ठिरम् |
६७ क
वासुदेव उवाच:
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ||
६७ ख
वासुदेव उवाच:
एवमाचर कौन्तेय़ धर्मराजे युधिष्ठिरे |
६८ क
वासुदेव उवाच:
अधर्मय़ुक्तं संय़ोगं कुरुष्वैवं कुरूद्वह ||
६८ ख
वासुदेव उवाच:
अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः |
६९ क
वासुदेव उवाच:
अविचार्यैव कार्यैषा श्रेय़ःकामैर्नरैः सदा ||
६९ ख
वासुदेव उवाच:
वधो ह्ययं पाण्डव धर्मराज्ञ; स्त्वत्तो युक्तो वेत्स्यते चैवमेषः |
७० क
वासुदेव उवाच:
ततोऽस्य पादावभिवाद्य पश्चा; च्छमं व्रूय़ाः सान्त्वपूर्वं च पार्थम् ||
७० ख
वासुदेव उवाच:
भ्राता प्राज्ञस्तव कोपं न जातु; कुर्याद्राजा कञ्चन पाण्डवेय़ः |
७१ क
वासुदेव उवाच:
मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ; हृष्टः कर्णं त्वं जहि सूतपुत्रम् ||
७१ ख
सञ्जय़ उवाच:
इत्येवमुक्तस्तु जनार्दनेन; पार्थः प्रशस्याथ सुहृद्वधं तम् |
७२ क
सञ्जय़ उवाच:
ततोऽव्रवीदर्जुनो धर्मराज; मनुक्तपूर्वं परुषं प्रसह्य ||
७२ ख
सञ्जय़ उवाच:
मा त्वं राजन्व्याहर व्याहरत्सु; न तिष्ठसे क्रोशमात्रे रणार्धे |
७३ क
सञ्जय़ उवाच:
भीमस्तु मामर्हति गर्हणाय़; यो युध्यते सर्वय़ोधप्रवीरः ||
७३ ख
सञ्जय़ उवाच:
काले हि शत्रून्प्रतिपीड्य सङ्ख्ये; हत्वा च शूरान्पृथिवीपतींस्तान् |
७४ क
सञ्जय़ उवाच:
यः कुञ्जराणामधिकं सहस्रं; हत्वानदत्तुमुलं सिंहनादम् ||
७४ ख
सञ्जय़ उवाच:
सुदुष्करं कर्म करोति वीरः; कर्तुं यथा नार्हसि त्वं कदाचित् |
७५ क
सञ्जय़ उवाच:
रथादवप्लुत्य गदां परामृशं; स्तय़ा निहन्त्यश्वनरद्विपान्रणे ||
७५ ख
सञ्जय़ उवाच:
वरासिना वाजिरथाश्वकुञ्जरां; स्तथा रथाङ्गैर्धनुषा च हन्त्यरीन् |
७६ क
सञ्जय़ उवाच:
प्रमृद्य पद्भ्यामहितान्निहन्ति यः; पुनश्च दोर्भ्यां शतमन्युविक्रमः ||
७६ ख
सञ्जय़ उवाच:
महावलो वैश्रवणान्तकोपमः; प्रसह्य हन्ता द्विषतां यथार्हम् |
७७ क
सञ्जय़ उवाच:
स भीमसेनोऽर्हति गर्हणां मे; न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः ||
७७ ख
सञ्जय़ उवाच:
महारथान्नागवरान्हय़ांश्च; पदातिमुख्यानपि च प्रमथ्य |
७८ क
सञ्जय़ उवाच:
एको भीमो धार्तराष्ट्रेषु मग्नः; स मामुपालव्धुमरिन्दमोऽर्हति ||
७८ ख
सञ्जय़ उवाच:
कलिङ्गवङ्गाङ्गनिषादमागधा; न्सदामदान्नीलवलाहकोपमान् |
७९ क
सञ्जय़ उवाच:
निहन्ति यः शत्रुगणाननेकशः; स माभिवक्तुं प्रभवत्यनागसम् ||
७९ ख
सञ्जय़ उवाच:
सुय़ुक्तमास्थाय़ रथं हि काले; धनुर्विकर्षञ्शरपूर्णमुष्टिः |
८० क
सञ्जय़ उवाच:
सृजत्यसौ शरवर्षाणि वीरो; महाहवे मेघ इवाम्वुधाराः ||
८० ख
सञ्जय़ उवाच:
वलं तु वाचि द्विजसत्तमानां; क्षात्रं वुधा वाहुवलं वदन्ति |
८१ क
सञ्जय़ उवाच:
त्वं वाग्वलो भारत निष्ठुरश्च; त्वमेव मां वेत्सि यथाविधोऽहम् ||
८१ ख
सञ्जय़ उवाच:
यतामि नित्यं तव कर्तुमिष्टं; दारैः सुतैर्जीवितेनात्मना च |
८२ क
सञ्जय़ उवाच:
एवं च मां वाग्विशिखैर्निहंसि; त्वत्तः सुखं न वय़ं विद्म किञ्चित् ||
८२ ख
सञ्जय़ उवाच:
अवामंस्था मां द्रौपदीतल्पसंस्थो; महारथान्प्रतिहन्मि त्वदर्थे |
८३ क
सञ्जय़ उवाच:
तेनातिशङ्की भारत निष्ठुरोऽसि; त्वत्तः सुखं नाभिजानामि किञ्चित् ||
८३ ख
सञ्जय़ उवाच:
प्रोक्तः स्वय़ं सत्यसन्धेन मृत्यु; स्तव प्रिय़ार्थं नरदेव युद्धे |
८४ क
सञ्जय़ उवाच:
वीरः शिखण्डी द्रौपदोऽसौ महात्मा; मय़ाभिगुप्तेन हतश्च तेन ||
८४ ख
सञ्जय़ उवाच:
न चाभिनन्दामि तवाधिराज्यं; यतस्त्वमक्षेष्वहिताय़ सक्तः |
८५ क
सञ्जय़ उवाच:
स्वय़ं कृत्वा पापमनार्यजुष्ट; मेभिर्युद्धे तर्तुमिच्छस्यरींस्तु ||
८५ ख
सञ्जय़ उवाच:
अक्षेषु दोषा वहवो विधर्माः; श्रुतास्त्वय़ा सहदेवोऽव्रवीद्यान् |
८६ क
सञ्जय़ उवाच:
तान्नैषि सन्तर्तुमसाधुजुष्टा; न्येन स्म सर्वे निरय़ं प्रपन्नाः ||
८६ ख
सञ्जय़ उवाच:
त्वं देविता त्वत्कृते राज्यनाश; स्त्वत्सम्भवं व्यसनं नो नरेन्द्र |
८७ क
सञ्जय़ उवाच:
मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं; भूय़ो राजन्कोपय़न्नल्पभाग्यान् ||
८७ ख
सञ्जय़ उवाच:
एता वाचः परुषाः सव्यसाची; स्थिरप्रज्ञं श्रावय़ित्वा ततक्ष |
८८ क
सञ्जय़ उवाच:
तदानुतेपे सुरराजपुत्रो; विनिःश्वसंश्चाप्यसिमुद्ववर्ह ||
८८ ख
सञ्जय़ उवाच:
तमाह कृष्णः किमिदं पुनर्भवा; न्विकोशमाकाशनिभं करोत्यसिम् |
८९ क
सञ्जय़ उवाच:
प्रव्रूहि सत्यं पुनरुत्तरं विधे; र्वचः प्रवक्ष्याम्यहमर्थसिद्धय़े ||
८९ ख
सञ्जय़ उवाच:
इत्येव पृष्टः पुरुषोत्तमेन; सुदुःखितः केशवमाह वाक्यम् |
९० क
सञ्जय़ उवाच:
अहं हनिष्ये स्वशरीरमेव; प्रसह्य येनाहितमाचरं वै ||
९० ख
सञ्जय़ उवाच:
निशम्य तत्पार्थवचोऽव्रवीदिदं; धनञ्जय़ं धर्मभृतां वरिष्ठः |
९१ क
सञ्जय़ उवाच:
प्रव्रूहि पार्थ स्वगुणानिहात्मन; स्तथा स्वहार्दं भवतीह सद्यः ||
९१ ख
सञ्जय़ उवाच:
तथास्तु कृष्णेत्यभिनन्द्य वाक्यं; धनञ्जय़ः प्राह धनुर्विनाम्य |
९२ क
सञ्जय़ उवाच:
युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्निति शक्रसूनुः ||
९२ ख
सञ्जय़ उवाच:
न मादृशोऽन्यो नरदेव विद्यते; धनुर्धरो देवमृते पिनाकिनम् |
९३ क
सञ्जय़ उवाच:
अहं हि तेनानुमतो महात्मना; क्षणेन हन्यां सचराचरं जगत् ||
९३ ख
सञ्जय़ उवाच:
मय़ा हि राजन्सदिगीश्वरा दिशो; विजित्य सर्वा भवतः कृता वशे |
९४ क
सञ्जय़ उवाच:
स राजसूय़श्च समाप्तदक्षिणः; सभा च दिव्या भवतो ममौजसा ||
९४ ख
सञ्जय़ उवाच:
पाणौ पृषत्का लिखिता ममेमे; धनुश्च सङ्ख्ये विततं सवाणम् |
९५ क