chevron_left कर्ण पर्व अध्याय ४९
सञ्जय़ उवाच:
पादौ च मे सशरौ सहध्वजौ; न मादृशं युद्धगतं जय़न्ति ||
९५ ख
सञ्जय़ उवाच:
हता उदीच्या निहताः प्रतीच्याः; प्राच्या निरस्ता दाक्षिणात्या विशस्ताः |
९६ क
सञ्जय़ उवाच:
संशप्तकानां किञ्चिदेवावशिष्टं; सर्वस्य सैन्यस्य हतं मय़ार्धम् ||
९६ ख
सञ्जय़ उवाच:
शेते मय़ा निहता भारती च; चमू राजन्देवचमूप्रकाशा |
९७ क
सञ्जय़ उवाच:
ये नास्त्रज्ञास्तानहं हन्मि शस्त्रै; स्तस्माल्लोकं नेह करोमि भस्मसात् ||
९७ ख
सञ्जय़ उवाच:
इत्येवमुक्त्वा पुनराह पार्थो; युधिष्ठिरं धर्मभृतां वरिष्ठम् |
९८ क
सञ्जय़ उवाच:
अप्यपुत्रा तेन राधा भवित्री; कुन्ती मय़ा वा तदृतं विद्धि राजन् |
९८ ख
सञ्जय़ उवाच:
प्रसीद राजन्क्षम यन्मय़ोक्तं; काले भवान्वेत्स्यति तन्नमस्ते ||
९८ ग
सञ्जय़ उवाच:
प्रसाद्य राजानममित्रसाहं; स्थितोऽव्रवीच्चैनमभिप्रपन्नः |
९९ क
सञ्जय़ उवाच:
याम्येष भीमं समरात्प्रमोक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम् ||
९९ ख
सञ्जय़ उवाच:
तव प्रिय़ार्थं मम जीवितं हि; व्रवीमि सत्यं तदवेहि राजन् |
१०० क
सञ्जय़ उवाच:
इति प्राय़ादुपसङ्गृह्य पादौ; समुत्थितो दीप्ततेजाः किरीटी |
१०० ख
सञ्जय़ उवाच:
नेदं चिरात्क्षिप्रमिदं भविष्य; त्यावर्ततेऽसावभिय़ामि चैनम् ||
१०० ग
सञ्जय़ उवाच:
एतच्छ्रुत्वा पाण्डवो धर्मराजो; भ्रातुर्वाक्यं परुषं फल्गुनस्य |
१०१ क
सञ्जय़ उवाच:
उत्थाय़ तस्माच्छय़नादुवाच; पार्थं ततो दुःखपरीतचेताः ||
१०१ ख
सञ्जय़ उवाच:
कृतं मय़ा पार्थ यथा न साधु; येन प्राप्तं व्यसनं वः सुघोरम् |
१०२ क
सञ्जय़ उवाच:
तस्माच्छिरश्छिन्द्धि ममेदमद्य; कुलान्तकस्याधमपूरुषस्य ||
१०२ ख
सञ्जय़ उवाच:
पापस्य पापव्यसनान्वितस्य; विमूढवुद्धेरलसस्य भीरोः |
१०३ क
सञ्जय़ उवाच:
वृद्धावमन्तुः परुषस्य चैव; किं ते चिरं मामनुवृत्य रूक्षम् ||
१०३ ख
सञ्जय़ उवाच:
गच्छाम्यहं वनमेवाद्य पापः; सुखं भवान्वर्ततां मद्विहीनः |
१०४ क
सञ्जय़ उवाच:
योग्यो राजा भीमसेनो महात्मा; क्लीवस्य वा मम किं राज्यकृत्यम् ||
१०४ ख
सञ्जय़ उवाच:
न चास्मि शक्तः परुषाणि सोढुं; पुनस्तवेमानि रुषान्वितस्य |
१०५ क
सञ्जय़ उवाच:
भीमोऽस्तु राजा मम जीवितेन; किं कार्यमद्यावमतस्य वीर ||
१०५ ख
सञ्जय़ उवाच:
इत्येवमुक्त्वा सहसोत्पपात; राजा ततस्तच्छय़नं विहाय़ |
१०६ क
सञ्जय़ उवाच:
इय़ेष निर्गन्तुमथो वनाय़; तं वासुदेवः प्रणतोऽभ्युवाच ||
१०६ ख
सञ्जय़ उवाच:
राजन्विदितमेतत्ते यथा गाण्डीवधन्वनः |
१०७ क
सञ्जय़ उवाच:
प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता ||
१०७ ख
सञ्जय़ उवाच:
व्रूय़ाद्य एवं गाण्डीवं देह्यन्यस्मै त्वमित्युत |
१०८ क
सञ्जय़ उवाच:
स वध्योऽस्य पुमाँल्लोके त्वय़ा चोक्तोऽय़मीदृशम् ||
१०८ ख
सञ्जय़ उवाच:
अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता |
१०९ क
सञ्जय़ उवाच:
मच्छन्दादवमानोऽय़ं कृतस्तव महीपते |
१०९ ख
सञ्जय़ उवाच:
गुरूणामवमानो हि वध इत्यभिधीय़ते ||
१०९ ग
सञ्जय़ उवाच:
तस्मात्त्वं वै महावाहो मम पार्थस्य चोभय़ोः |
११० क
सञ्जय़ उवाच:
व्यतिक्रममिमं राजन्सङ्क्षमस्वार्जुनं प्रति ||
११० ख
सञ्जय़ उवाच:
शरणं त्वां महाराज प्रपन्नौ स्व उभावपि |
१११ क
सञ्जय़ उवाच:
क्षन्तुमर्हसि मे राजन्प्रणतस्याभिय़ाचतः ||
१११ ख
सञ्जय़ उवाच:
राधेय़स्याद्य पापस्य भूमिः पास्यति शोणितम् |
११२ क
सञ्जय़ उवाच:
सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् |
११२ ख
सञ्जय़ उवाच:
यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम् ||
११२ ग
सञ्जय़ उवाच:
इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः |
११३ क
सञ्जय़ उवाच:
ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा |
११३ ख
सञ्जय़ उवाच:
कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः ||
११३ ग
सञ्जय़ उवाच:
एवमेतद्यथात्थ त्वमस्त्येषोऽतिक्रमो मम |
११४ क
सञ्जय़ उवाच:
अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव |
११४ ख
सञ्जय़ उवाच:
मोक्षिता व्यसनाद्घोराद्वय़मद्य त्वय़ाच्युत ||
११४ ग
सञ्जय़ उवाच:
भवन्तं नाथमासाद्य आवां व्यसनसागरात् |
११५ क
सञ्जय़ उवाच:
घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ||
११५ ख
सञ्जय़ उवाच:
त्वद्वुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वय़म् |
११६ क
सञ्जय़ उवाच:
समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वय़ाच्युत ||
११६ ख