chevron_left शान्ति पर्व अध्याय ४९
वासुदेव उवाच:
शृणु कौन्तेय़ रामस्य मय़ा यावत्परिश्रुतम् |
१ क
वासुदेव उवाच:
महर्षीणां कथय़तां कारणं तस्य जन्म च ||
१ ख
वासुदेव उवाच:
यथा च जामदग्न्येन कोटिशः क्षत्रिय़ा हताः |
२ क
वासुदेव उवाच:
उद्भूता राजवंशेषु ये भूय़ो भारते हताः ||
२ ख
वासुदेव उवाच:
जह्नोरजह्नुस्तनय़ो वल्लवस्तस्य चात्मजः |
३ क
वासुदेव उवाच:
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपतिः ||
३ ख
वासुदेव उवाच:
उग्रं तपः समातिष्ठत्सहस्राक्षसमो भुवि |
४ क
वासुदेव उवाच:
पुत्रं लभेय़मजितं त्रिलोकेश्वरमित्युत ||
४ ख
वासुदेव उवाच:
तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः |
५ क
वासुदेव उवाच:
समर्थः पुत्रजनने स्वय़मेवैत्य भारत ||
५ ख
वासुदेव उवाच:
पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः |
६ क
वासुदेव उवाच:
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ||
६ ख
वासुदेव उवाच:
तस्य कन्याभवद्राजन्नाम्ना सत्यवती प्रभो |
७ क
वासुदेव उवाच:
तां गाधिः कविपुत्राय़ सोर्चीकाय़ ददौ प्रभुः ||
७ ख
वासुदेव उवाच:
ततः प्रीतस्तु कौन्तेय़ भार्गवः कुरुनन्दन |
८ क
वासुदेव उवाच:
पुत्रार्थे श्रपय़ामास चरुं गाधेस्तथैव च ||
८ ख
वासुदेव उवाच:
आहूय़ चाह तां भार्यामृचीको भार्गवस्तदा |
९ क
वासुदेव उवाच:
उपय़ोज्यश्चरुरय़ं त्वय़ा मात्राप्ययं तव ||
९ ख
वासुदेव उवाच:
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रिय़र्षभः |
१० क
वासुदेव उवाच:
अजय़्यः क्षत्रिय़ैर्लोके क्षत्रिय़र्षभसूदनः ||
१० ख
वासुदेव उवाच:
तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम् |
११ क
वासुदेव उवाच:
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ||
११ ख
वासुदेव उवाच:
इत्येवमुक्त्वा तां भार्यामृचीको भृगुनन्दनः |
१२ क
वासुदेव उवाच:
तपस्यभिरतो धीमाञ्जगामारण्यमेव ह ||
१२ ख
वासुदेव उवाच:
एतस्मिन्नेव काले तु तीर्थय़ात्रापरो नृपः |
१३ क
वासुदेव उवाच:
गाधिः सदारः सम्प्राप्त ऋचीकस्याश्रमं प्रति ||
१३ ख
वासुदेव उवाच:
चरुद्वय़ं गृहीत्वा तु राजन्सत्यवती तदा |
१४ क
वासुदेव उवाच:
भर्तुर्वाक्यादथाव्यग्रा मात्रे हृष्टा न्यवेदय़त् ||
१४ ख
वासुदेव उवाच:
माता तु तस्याः कौन्तेय़ दुहित्रे स्वं चरुं ददौ |
१५ क
वासुदेव उवाच:
तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह ||
१५ ख
वासुदेव उवाच:
अथ सत्यवती गर्भं क्षत्रिय़ान्तकरं तदा |
१६ क
वासुदेव उवाच:
धारय़ामास दीप्तेन वपुषा घोरदर्शनम् ||
१६ ख
वासुदेव उवाच:
तामृचीकस्तदा दृष्ट्वा ध्यानय़ोगेन वै ततः |
१७ क
वासुदेव उवाच:
अव्रवीद्राजशार्दूल स्वां भार्यां वरवर्णिनीम् ||
१७ ख
वासुदेव उवाच:
मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना |
१८ क
वासुदेव उवाच:
जनिष्यते हि ते पुत्रः क्रूरकर्मा महावलः ||
१८ ख
वासुदेव उवाच:
जनिष्यते हि ते भ्राता व्रह्मभूतस्तपोधनः |
१९ क
वासुदेव उवाच:
विश्वं हि व्रह्म तपसा मय़ा तत्र समर्पितम् ||
१९ ख
वासुदेव उवाच:
सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा |
२० क
वासुदेव उवाच:
पपात शिरसा तस्मै वेपन्ती चाव्रवीदिदम् ||
२० ख
वासुदेव उवाच:
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः |
२१ क
वासुदेव उवाच:
व्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने ||
२१ ख
ऋचीक उवाच:
नैष सङ्कल्पितः कामो मय़ा भद्रे तथा त्वय़ि |
२२ क
ऋचीक उवाच:
उग्रकर्मा भवेत्पुत्रश्चरुर्माता च कारणम् ||
२२ ख
सत्यवत्यु उवाच:
इच्छँल्लोकानपि मुने सृजेथाः किं पुनर्मम |
२३ क
सत्यवत्यु उवाच:
शमात्मकमृजुं पुत्रं लभेय़ं जपतां वर ||
२३ ख
ऋचीक उवाच:
नोक्तपूर्वं मय़ा भद्रे स्वैरेष्वप्यनृतं वचः |
२४ क
ऋचीक उवाच:
किमुताग्निं समाधाय़ मन्त्रवच्चरुसाधने ||
२४ ख
सत्यवत्यु उवाच:
काममेवं भवेत्पौत्रो ममेह तव चैव ह |
२५ क
सत्यवत्यु उवाच:
शमात्मकमृजुं पुत्रं लभेय़ं जपतां वर ||
२५ ख
ऋचीक उवाच:
पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि |
२६ क
ऋचीक उवाच:
यथा त्वय़ोक्तं तु वचस्तथा भद्रे भविष्यति ||
२६ ख
वासुदेव उवाच:
ततः सत्यवती पुत्रं जनय़ामास भार्गवम् |
२७ क
वासुदेव उवाच:
तपस्यभिरतं शान्तं जमदग्निं शमात्मकम् ||
२७ ख
वासुदेव उवाच:
विश्वामित्रं च दाय़ादं गाधिः कुशिकनन्दनः |
२८ क
वासुदेव उवाच:
प्राप व्रह्मर्षिसमितं विश्वेन व्रह्मणा युतम् ||
२८ ख
वासुदेव उवाच:
आर्चीको जनय़ामास जमदग्निः सुदारुणम् |
२९ क
वासुदेव उवाच:
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम् |
२९ ख
वासुदेव उवाच:
रामं क्षत्रिय़हन्तारं प्रदीप्तमिव पावकम् ||
२९ ग
वासुदेव उवाच:
एतस्मिन्नेव काले तु कृतवीर्यात्मजो वली |
३० क
वासुदेव उवाच:
अर्जुनो नाम तेजस्वी क्षत्रिय़ो हैहय़ान्वय़ः ||
३० ख
वासुदेव उवाच:
ददाह पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् |
३१ क
वासुदेव उवाच:
स्ववाह्वस्त्रवलेनाजौ धर्मेण परमेण च ||
३१ ख
वासुदेव उवाच:
तृषितेन स कौरव्य भिक्षितश्चित्रभानुना |
३२ क
वासुदेव उवाच:
सहस्रवाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नय़े ||
३२ ख
वासुदेव उवाच:
ग्रामान्पुराणि घोषांश्च पत्तनानि च वीर्यवान् |
३३ क
वासुदेव उवाच:
जज्वाल तस्य वाणैस्तु चित्रभानुर्दिधक्षय़ा ||
३३ ख
वासुदेव उवाच:
स तस्य पुरुषेन्द्रस्य प्रभावेन महातपाः |
३४ क
वासुदेव उवाच:
ददाह कार्तवीर्यस्य शैलानथ वनानि च ||
३४ ख
वासुदेव उवाच:
स शून्यमाश्रमारण्यं वरुणस्यात्मजस्य तत् |
३५ क
वासुदेव उवाच:
ददाह पवनेनेद्धश्चित्रभानुः सहैहय़ः ||
३५ ख
वासुदेव उवाच:
आपवस्तं ततो रोषाच्छशापार्जुनमच्युत |
३६ क
वासुदेव उवाच:
दग्धेऽऽश्रमे महाराज कार्तवीर्येण वीर्यवान् ||
३६ ख
वासुदेव उवाच:
त्वय़ा न वर्जितं मोहाद्यस्माद्वनमिदं मम |
३७ क
वासुदेव उवाच:
दग्धं तस्माद्रणे रामो वाहूंस्ते छेत्स्यतेऽर्जुन ||
३७ ख
वासुदेव उवाच:
अर्जुनस्तु महाराज वली नित्यं शमात्मकः |
३८ क
वासुदेव उवाच:
व्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत ||
३८ ख
वासुदेव उवाच:
तस्य पुत्राः सुवलिनः शापेनासन्पितुर्वधे |
३९ क
वासुदेव उवाच:
निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा ||
३९ ख
वासुदेव उवाच:
जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ |
४० क
वासुदेव उवाच:
अज्ञातं कार्तवीर्यस्य हैहय़ेन्द्रस्य धीमतः ||
४० ख
वासुदेव उवाच:
ततोऽर्जुनस्य वाहूंस्तु छित्त्वा वै पौरुषान्वितः |
४१ क
वासुदेव उवाच:
तं रुवन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् |
४१ ख
वासुदेव उवाच:
प्रत्यानय़त राजेन्द्र तेषामन्तःपुरात्प्रभुः ||
४१ ग
वासुदेव उवाच:
अर्जुनस्य सुतास्ते तु सम्भूय़ावुद्धय़स्तदा |
४२ क
वासुदेव उवाच:
गत्वाश्रममसम्वुद्धं जमदग्नेर्महात्मनः ||
४२ ख
वासुदेव उवाच:
अपातय़न्त भल्लाग्रैः शिरः काय़ान्नराधिप |
४३ क
वासुदेव उवाच:
समित्कुशार्थं रामस्य निर्गतस्य महात्मनः ||
४३ ख
वासुदेव उवाच:
ततः पितृवधामर्षाद्रामः परममन्युमान् |
४४ क
वासुदेव उवाच:
निःक्षत्रिय़ां प्रतिश्रुत्य महीं शस्त्रमगृह्णत ||
४४ ख
वासुदेव उवाच:
ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् |
४५ क
वासुदेव उवाच:
विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः ||
४५ ख
वासुदेव उवाच:
स हैहय़सहस्राणि हत्वा परममन्युमान् |
४६ क
वासुदेव उवाच:
चकार भार्गवो राजन्महीं शोणितकर्दमाम् ||
४६ ख
वासुदेव उवाच:
स तथा सुमहातेजाः कृत्वा निःक्षत्रिय़ां महीम् |
४७ क
वासुदेव उवाच:
कृपय़ा परय़ाविष्टो वनमेव जगाम ह ||
४७ ख
वासुदेव उवाच:
ततो वर्षसहस्रेषु समतीतेषु केषुचित् |
४८ क
वासुदेव उवाच:
क्षोभं सम्प्राप्तवांस्तीव्रं प्रकृत्या कोपनः प्रभुः ||
४८ ख
वासुदेव उवाच:
विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः |
४९ क
वासुदेव उवाच:
परावसुर्महाराज क्षिप्त्वाह जनसंसदि ||
४९ ख