युधिष्ठिर उवाच:
व्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक् |
१ क
युधिष्ठिर उवाच:
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ||
१ ख
युधिष्ठिर उवाच:
विप्रवादाः सुवहुशः श्रूय़न्ते पुत्रकारिताः |
२ क
युधिष्ठिर उवाच:
अत्र नो मुह्यतां राजन्संशय़ं छेत्तुमर्हसि ||
२ ख
भीष्म उवाच:
आत्मा पुत्रस्तु विज्ञेय़स्तस्यानन्तरजश्च यः |
३ क
भीष्म उवाच:
निय़ुक्तजश्च विज्ञेय़ः सुतः प्रसृतजस्तथा ||
३ ख
भीष्म उवाच:
पतितस्य च भार्याय़ां भर्त्रा सुसमवेतय़ा |
४ क
भीष्म उवाच:
तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः ||
४ ख
भीष्म उवाच:
षडपध्वंसजाश्चापि कानीनापसदास्तथा |
५ क
भीष्म उवाच:
इत्येते ते समाख्यातास्तान्विजानीहि भारत ||
५ ख
युधिष्ठिर उवाच:
षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा |
६ क
युधिष्ठिर उवाच:
एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ||
६ ख
भीष्म उवाच:
त्रिषु वर्णेषु ये पुत्रा व्राह्मणस्य युधिष्ठिर |
७ क
भीष्म उवाच:
वर्णय़ोश्च द्वय़ोः स्यातां यौ राजन्यस्य भारत ||
७ ख
भीष्म उवाच:
एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः |
८ क
भीष्म उवाच:
षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु ||
८ ख
भीष्म उवाच:
चण्डालो व्रात्यवेनौ च व्राह्मण्यां क्षत्रिय़ासु च |
९ क
भीष्म उवाच:
वैश्याय़ां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रय़ः ||
९ ख
भीष्म उवाच:
मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ |
१० क
भीष्म उवाच:
व्राह्मण्यां क्षत्रिय़ाय़ां च क्षत्रिय़स्यैक एव तु ||
१० ख
भीष्म उवाच:
व्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः |
११ क
भीष्म उवाच:
पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप ||
११ ख
युधिष्ठिर उवाच:
क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् |
१२ क
युधिष्ठिर उवाच:
तुल्यावेतौ सुतौ कस्य तन्मे व्रूहि पितामह ||
१२ ख
भीष्म उवाच:
रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत् |
१३ क
भीष्म उवाच:
अध्यूढः समय़ं भित्त्वेत्येतदेव निवोध मे ||
१३ ख
युधिष्ठिर उवाच:
रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम् |
१४ क
युधिष्ठिर उवाच:
अध्यूढं विद्म वै पुत्रं हित्वा च समय़ं कथम् ||
१४ ख
भीष्म उवाच:
आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे |
१५ क
भीष्म उवाच:
न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ||
१५ ख
भीष्म उवाच:
पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते |
१६ क
भीष्म उवाच:
तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ||
१६ ख
भीष्म उवाच:
अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ |
१७ क
भीष्म उवाच:
न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ||
१७ ख
भीष्म उवाच:
कश्चिच्च कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते |
१८ क
भीष्म उवाच:
न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर ||
१८ ख
युधिष्ठिर उवाच:
कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते |
१९ क
युधिष्ठिर उवाच:
शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत ||
१९ ख
भीष्म उवाच:
मातापितृभ्यां सन्त्यक्तं पथि यं तु प्रलक्षय़ेत् |
२० क
भीष्म उवाच:
न चास्य मातापितरौ ज्ञाय़ेते स हि कृत्रिमः ||
२० ख
भीष्म उवाच:
अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रतिलक्षय़ेत् |
२१ क
भीष्म उवाच:
सवर्णस्तं च पोषेत सवर्णस्तस्य जाय़ते ||
२१ ख
युधिष्ठिर उवाच:
कथमस्य प्रय़ोक्तव्यः संस्कारः कस्य वा कथम् |
२२ क
युधिष्ठिर उवाच:
देय़ा कन्या कथं चेति तन्मे व्रूहि पितामह ||
२२ ख
भीष्म उवाच:
आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा |
२४ क
भीष्म उवाच:
त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते |
२४ ख
भीष्म उवाच:
तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत ||
२४ ग
भीष्म उवाच:
अथ देय़ा तु कन्या स्यात्तद्वर्णेन युधिष्ठिर |
२५ क
भीष्म उवाच:
संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चय़े ||
२५ ख
भीष्म उवाच:
कानीनाध्यूढजौ चापि विज्ञेय़ौ पुत्रकिल्विषौ |
२६ क
भीष्म उवाच:
तावपि स्वाविव सुतौ संस्कार्याविति निश्चय़ः ||
२६ ख
भीष्म उवाच:
क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ |
२७ क
भीष्म उवाच:
आत्मवद्वै प्रय़ुञ्जीरन्संस्कारं व्राह्मणादय़ः ||
२७ ख
भीष्म उवाच:
धर्मशास्त्रेषु वर्णानां निश्चय़ोऽय़ं प्रदृश्यते |
२८ क
भीष्म उवाच:
एतत्ते सर्वमाख्यातं किं भूय़ः श्रोतुमिच्छसि ||
२८ ख