व्रह्मो उवाच:
हन्त वः सम्प्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः |
१ क
व्रह्मो उवाच:
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् ||
१ ख
व्रह्मो उवाच:
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् |
२ क
व्रह्मो उवाच:
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् ||
२ ख
व्रह्मो उवाच:
ज्ञानं निःश्रेय़ इत्याहुर्वृद्धा निश्चय़दर्शिनः |
३ क
व्रह्मो उवाच:
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः ||
३ ख
व्रह्मो उवाच:
हिंसापराश्च ये लोके ये च नास्तिकवृत्तय़ः |
४ क
व्रह्मो उवाच:
लोभमोहसमाय़ुक्तास्ते वै निरय़गामिनः ||
४ ख
व्रह्मो उवाच:
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः |
५ क
व्रह्मो उवाच:
तेऽस्मिँल्लोके प्रमोदन्ते जाय़मानाः पुनः पुनः ||
५ ख
व्रह्मो उवाच:
कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः |
६ क
व्रह्मो उवाच:
अनाशीर्योगसंय़ुक्तास्ते धीराः साधुदर्शिनः ||
६ ख
व्रह्मो उवाच:
अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञय़ोर्यथा |
७ क
व्रह्मो उवाच:
संय़ोगो विप्रय़ोगश्च तन्निवोधत सत्तमाः ||
७ ख
व्रह्मो उवाच:
विषय़ो विषय़ित्वं च सम्वन्धोऽय़मिहोच्यते |
८ क
व्रह्मो उवाच:
विषय़ी पुरुषो नित्यं सत्त्वं च विषय़ः स्मृतः ||
८ ख
व्रह्मो उवाच:
व्याख्यातं पूर्वकल्पेन मशकोदुम्वरं यथा |
९ क
व्रह्मो उवाच:
भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम् |
९ ख
व्रह्मो उवाच:
यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते ||
९ ग
व्रह्मो उवाच:
अनित्यं द्वन्द्वसंय़ुक्तं सत्त्वमाहुर्गुणात्मकम् |
१० क
व्रह्मो उवाच:
निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ||
१० ख
व्रह्मो उवाच:
समः सञ्ज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते |
११ क
व्रह्मो उवाच:
उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत् ||
११ ख
व्रह्मो उवाच:
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते |
१२ क
व्रह्मो उवाच:
जलविन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः |
१२ ख
व्रह्मो उवाच:
एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशय़ः ||
१२ ग
व्रह्मो उवाच:
द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चय़ः |
१३ क
व्रह्मो उवाच:
यथा द्रव्यं च कर्ता च संय़ोगोऽप्यनय़ोस्तथा ||
१३ ख
व्रह्मो उवाच:
यथा प्रदीपमादाय़ कश्चित्तमसि गच्छति |
१४ क
व्रह्मो उवाच:
तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः ||
१४ ख
व्रह्मो उवाच:
यावद्द्रव्यगुणस्तावत्प्रदीपः सम्प्रकाशते |
१५ क
व्रह्मो उवाच:
क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय़ गच्छति ||
१५ ख
व्रह्मो उवाच:
व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते |
१६ क
व्रह्मो उवाच:
एतद्विप्रा विजानीत हन्त भूय़ो व्रवीमि वः ||
१६ ख
व्रह्मो उवाच:
सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति |
१७ क
व्रह्मो उवाच:
चतुर्थेनाप्यथांशेन वुद्धिमान्सुखमेधते ||
१७ ख
व्रह्मो उवाच:
एवं धर्मस्य विज्ञेय़ं संसाधनमुपाय़तः |
१८ क
व्रह्मो उवाच:
उपाय़ज्ञो हि मेधावी सुखमत्यन्तमश्नुते ||
१८ ख
व्रह्मो उवाच:
यथाध्वानमपाथेय़ः प्रपन्नो मानवः क्वचित् |
१९ क
व्रह्मो उवाच:
क्लेशेन याति महता विनश्यत्यन्तरापि वा ||
१९ ख
व्रह्मो उवाच:
तथा कर्मसु विज्ञेय़ं फलं भवति वा न वा |
२० क
व्रह्मो उवाच:
पुरुषस्यात्मनिःश्रेय़ः शुभाशुभनिदर्शनम् ||
२० ख
व्रह्मो उवाच:
यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते |
२१ क
व्रह्मो उवाच:
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः ||
२१ ख
व्रह्मो उवाच:
तमेव च यथाध्वानं रथेनेहाशुगामिना |
२२ क
व्रह्मो उवाच:
याय़ादश्वप्रय़ुक्तेन तथा वुद्धिमतां गतिः ||
२२ ख
व्रह्मो उवाच:
उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम् |
२३ क
व्रह्मो उवाच:
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् ||
२३ ख
व्रह्मो उवाच:
यावद्रथपथस्तावद्रथेन स तु गच्छति |
२४ क
व्रह्मो उवाच:
क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति ||
२४ ख
व्रह्मो उवाच:
एवं गच्छति मेधावी तत्त्वय़ोगविधानवित् |
२५ क
व्रह्मो उवाच:
समाज्ञाय़ महावुद्धिरुत्तरादुत्तरोत्तरम् ||
२५ ख
व्रह्मो उवाच:
यथा महार्णवं घोरमप्लवः सम्प्रगाहते |
२६ क
व्रह्मो उवाच:
वाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशय़म् ||
२६ ख
व्रह्मो उवाच:
नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रय़ा |
२७ क
व्रह्मो उवाच:
अक्लान्तः सलिलं गाहेत्क्षिप्रं सन्तरति ध्रुवम् ||
२७ ख
व्रह्मो उवाच:
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः |
२८ क
व्रह्मो उवाच:
व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ ||
२८ ख
व्रह्मो उवाच:
स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा |
२९ क
व्रह्मो उवाच:
ममत्वेनाभिभूतः स तत्रैव परिवर्तते ||
२९ ख
व्रह्मो उवाच:
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् |
३० क
व्रह्मो उवाच:
तथैव रथमारुह्य नाप्सु चर्या विधीय़ते ||
३० ख
व्रह्मो उवाच:
एवं कर्म कृतं चित्रं विषय़स्थं पृथक्पृथक् |
३१ क
व्रह्मो उवाच:
यथा कर्म कृतं लोके तथा तदुपपद्यते ||
३१ ख
व्रह्मो उवाच:
यन्नैव गन्धिनो रस्यं न रूपस्पर्शशव्दवत् |
३२ क
व्रह्मो उवाच:
मन्यन्ते मुनय़ो वुद्ध्या तत्प्रधानं प्रचक्षते ||
३२ ख
व्रह्मो उवाच:
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् |
३३ क
व्रह्मो उवाच:
महतः प्रधानभूतस्य गुणोऽहङ्कार एव च ||
३३ ख
व्रह्मो उवाच:
अहङ्कारप्रधानस्य महाभूतकृतो गुणः |
३४ क
व्रह्मो उवाच:
पृथक्त्वेन हि भूतानां विषय़ा वै गुणाः स्मृताः ||
३४ ख
व्रह्मो उवाच:
वीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम् |
३५ क
व्रह्मो उवाच:
वीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् ||
३५ ख
व्रह्मो उवाच:
वीजधर्मा त्वहङ्कारः प्रसवश्च पुनः पुनः |
३६ क
व्रह्मो उवाच:
वीजप्रसवधर्माणि महाभूतानि पञ्च वै ||
३६ ख
व्रह्मो उवाच:
वीजधर्मिण इत्याहुः प्रसवं च न कुर्वते |
३७ क
व्रह्मो उवाच:
विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् ||
३७ ख
व्रह्मो उवाच:
तत्रैकगुणमाकाशं द्विगुणो वाय़ुरुच्यते |
३८ क
व्रह्मो उवाच:
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः ||
३८ ख
व्रह्मो उवाच:
पृथ्वी पञ्चगुणा ज्ञेय़ा त्रसस्थावरसङ्कुला |
३९ क
व्रह्मो उवाच:
सर्वभूतकरी देवी शुभाशुभनिदर्शना ||
३९ ख
व्रह्मो उवाच:
शव्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः |
४० क
व्रह्मो उवाच:
एते पञ्च गुणा भूमेर्विज्ञेय़ा द्विजसत्तमाः ||
४० ख
व्रह्मो उवाच:
पार्थिवश्च सदा गन्धो गन्धश्च वहुधा स्मृतः |
४१ क
व्रह्मो उवाच:
तस्य गन्धस्य वक्ष्यामि विस्तरेण वहून्गुणान् ||
४१ ख
व्रह्मो उवाच:
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा |
४२ क
व्रह्मो उवाच:
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च |
४२ ख
व्रह्मो उवाच:
एवं दशविधो ज्ञेय़ः पार्थिवो गन्ध इत्युत ||
४२ ग
व्रह्मो उवाच:
शव्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः |
४३ क
व्रह्मो उवाच:
रसज्ञानं तु वक्ष्यामि रसस्तु वहुधा स्मृतः ||
४३ ख
व्रह्मो उवाच:
मधुरोऽम्लः कटुस्तिक्तः कषाय़ो लवणस्तथा |
४४ क
व्रह्मो उवाच:
एवं षड्विधविस्तारो रसो वारिमय़ः स्मृतः ||
४४ ख
व्रह्मो उवाच:
शव्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते |
४५ क
व्रह्मो उवाच:
ज्योतिषश्च गुणो रूपं रूपं च वहुधा स्मृतम् ||
४५ ख
व्रह्मो उवाच:
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा |
४६ क
व्रह्मो उवाच:
ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम् ||
४६ ख
व्रह्मो उवाच:
एवं द्वादशविस्तारं तेजसो रूपमुच्यते |
४७ क
व्रह्मो उवाच:
विज्ञेय़ं व्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः ||
४७ ख
व्रह्मो उवाच:
शव्दस्पर्शौ च विज्ञेय़ौ द्विगुणो वाय़ुरुच्यते |
४८ क
व्रह्मो उवाच:
वाय़ोश्चापि गुणः स्पर्शः स्पर्शश्च वहुधा स्मृतः ||
४८ ख
व्रह्मो उवाच:
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च |
४९ क