chevron_left विराट पर्व अध्याय ४९
वैशम्पाय़न उवाच:
स शत्रुसेनां तरसा प्रणुद्य; गास्ता विजित्याथ धनुर्धराग्र्यः |
१ क
वैशम्पाय़न उवाच:
दुर्योधनाय़ाभिमुखं प्रय़ातो; भूय़ोऽर्जुनः प्रिय़माजौ चिकीर्षन् ||
१ ख
वैशम्पाय़न उवाच:
गोषु प्रय़ातासु जवेन मत्स्या; न्किरीटिनं कृतकार्यं च मत्वा |
२ क
वैशम्पाय़न उवाच:
दुर्योधनाय़ाभिमुखं प्रय़ान्तं; कुरुप्रवीराः सहसाभिपेतुः ||
२ ख
वैशम्पाय़न उवाच:
तेषामनीकानि वहूनि गाढं; व्यूढानि दृष्ट्वा वहुलध्वजानि |
३ क
वैशम्पाय़न उवाच:
मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिमामन्त्र्य ततोऽभ्युवाच ||
३ ख
वैशम्पाय़न उवाच:
एतेन तूर्णं प्रतिपादय़ेमा; ञ्श्वेतान्हय़ान्काञ्चनरश्मिय़ोक्त्रान् |
४ क
वैशम्पाय़न उवाच:
जवेन सर्वेण कुरु प्रय़त्न; मासादय़ैतद्रथसिंहवृन्दम् ||
४ ख
वैशम्पाय़न उवाच:
गजो गजेनेव मय़ा दुरात्मा; यो योद्धुमाकाङ्क्षति सूतपुत्रः |
५ क
वैशम्पाय़न उवाच:
तमेव मां प्रापय़ राजपुत्र; दुर्योधनापाश्रय़जातदर्पम् ||
५ ख
वैशम्पाय़न उवाच:
स तैर्हय़ैर्वातजवैर्वृहद्भिः; पुत्रो विराटस्य सुवर्णकक्ष्यैः |
६ क
वैशम्पाय़न उवाच:
विध्वंसय़ंस्तद्रथिनामनीकं; ततोऽवहत्पाण्डवमाजिमध्ये ||
६ ख
वैशम्पाय़न उवाच:
तं चित्रसेनो विशिखैर्विपाठैः; सङ्ग्रामजिच्छत्रुसहो जय़श्च |
७ क
वैशम्पाय़न उवाच:
प्रत्युद्ययुर्भारतमापतन्तं; महारथाः कर्णमभीप्समानाः ||
७ ख
वैशम्पाय़न उवाच:
ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः |
८ क
वैशम्पाय़न उवाच:
व्रातान्रथानामदहत्स मन्यु; र्वनं यथाग्निः कुरुपुङ्गवानाम् ||
८ ख
वैशम्पाय़न उवाच:
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते; पार्थं विकर्णोऽतिरथं रथेन |
९ क
वैशम्पाय़न उवाच:
विपाठवर्षेण कुरुप्रवीरो; भीमेन भीमानुजमाससाद ||
९ ख
वैशम्पाय़न उवाच:
ततो विकर्णस्य धनुर्विकृष्य; जाम्वूनदाग्र्योपचितं दृढज्यम् |
१० क
वैशम्पाय़न उवाच:
अपातय़द्ध्वजमस्य प्रमथ्य; छिन्नध्वजः सोऽप्यपय़ाज्जवेन ||
१० ख
वैशम्पाय़न उवाच:
तं शात्रवाणां गणवाधितारं; कर्माणि कुर्वाणममानुषाणि |
११ क
वैशम्पाय़न उवाच:
शत्रुन्तपः कोपममृष्यमाणः; समर्पय़त्कूर्मनखेन पार्थम् ||
११ ख
वैशम्पाय़न उवाच:
स तेन राज्ञातिरथेन विद्धो; विगाहमानो ध्वजिनीं कुरूणाम् |
१२ क
वैशम्पाय़न उवाच:
शत्रुन्तपं पञ्चभिराशु विद्ध्वा; ततोऽस्य सूतं दशभिर्जघान ||
१२ ख
वैशम्पाय़न उवाच:
ततः स विद्धो भरतर्षभेण; वाणेन गात्रावरणातिगेन |
१३ क
वैशम्पाय़न उवाच:
गतासुराजौ निपपात भूमौ; नगो नगाग्रादिव वातरुग्णः ||
१३ ख
वैशम्पाय़न उवाच:
रथर्षभास्ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः |
१४ क
वैशम्पाय़न उवाच:
चकम्पिरे वातवशेन काले; प्रकम्पितानीव महावनानि ||
१४ ख
वैशम्पाय़न उवाच:
हतास्तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः |
१५ क
वैशम्पाय़न उवाच:
वसुप्रदा वासवतुल्यवीर्याः; पराजिता वासवजेन सङ्ख्ये |
१५ ख
वैशम्पाय़न उवाच:
सुवर्णकार्ष्णाय़सवर्मनद्धा; नागा यथा हैमवताः प्रवृद्धाः ||
१५ ग
वैशम्पाय़न उवाच:
तथा स शत्रून्समरे विनिघ्न; न्गाण्डीवधन्वा पुरुषप्रवीरः |
१६ क
वैशम्पाय़न उवाच:
चचार सङ्ख्ये प्रदिशो दिशश्च; दहन्निवाग्निर्वनमातपान्ते ||
१६ ख
वैशम्पाय़न उवाच:
प्रकीर्णपर्णानि यथा वसन्ते; विशातय़ित्वात्यनिलो नुदन्खे |
१७ क
वैशम्पाय़न उवाच:
तथा सपत्नान्विकिरन्किरीटी; चचार सङ्ख्येऽतिरथो रथेन ||
१७ ख
वैशम्पाय़न उवाच:
शोणाश्ववाहस्य हय़ान्निहत्य; वैकर्तनभ्रातुरदीनसत्त्वः |
१८ क
वैशम्पाय़न उवाच:
एकेन सङ्ग्रामजितः शरेण; शिरो जहाराथ किरीटमाली ||
१८ ख
वैशम्पाय़न उवाच:
तस्मिन्हते भ्रातरि सूतपुत्रो; वैकर्तनो वीर्यमथाददानः |
१९ क
वैशम्पाय़न उवाच:
प्रगृह्य दन्ताविव नागराजो; महर्षभं व्याघ्र इवाभ्यधावत् ||
१९ ख
वैशम्पाय़न उवाच:
स पाण्डवं द्वादशभिः पृषत्कै; र्वैकर्तनः शीघ्रमुपाजघान |
२० क
वैशम्पाय़न उवाच:
विव्याध गात्रेषु हय़ांश्च सर्वा; न्विराटपुत्रं च शरैर्निजघ्ने ||
२० ख
वैशम्पाय़न उवाच:
स हस्तिनेवाभिहतो गजेन्द्रः; प्रगृह्य भल्लान्निशितान्निषङ्गात् |
२१ क
वैशम्पाय़न उवाच:
आकर्णपूर्णं च धनुर्विकृष्य; विव्याध वाणैरथ सूतपुत्रम् ||
२१ ख
वैशम्पाय़न उवाच:
अथास्य वाहूरुशिरोललाटं; ग्रीवां रथाङ्गानि परावमर्दी |
२२ क
वैशम्पाय़न उवाच:
स्थितस्य वाणैर्युधि निर्विभेद; गाण्डीवमुक्तैरशनिप्रकाशैः ||
२२ ख
वैशम्पाय़न उवाच:
स पार्थमुक्तैर्विशिखैः प्रणुन्नो; गजो गजेनेव जितस्तरस्वी |
२३ क
वैशम्पाय़न उवाच:
विहाय़ सङ्ग्रामशिरः प्रय़ातो; वैकर्तनः पाण्डववाणतप्तः ||
२३ ख