chevron_left भीष्म पर्व अध्याय ४९
धृतराष्ट्र उवाच:
कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः |
१ क
धृतराष्ट्र उवाच:
रणे समीय़तुर्यत्तौ तन्ममाचक्ष्व सञ्जय़ ||
१ ख
धृतराष्ट्र उवाच:
दिष्टमेव परं मन्ये पौरुषादपि सञ्जय़ |
२ क
धृतराष्ट्र उवाच:
यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् ||
२ ख
धृतराष्ट्र उवाच:
भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् |
३ क
धृतराष्ट्र उवाच:
स कथं पाण्डवं युद्धे नातरत्सञ्जय़ौजसा ||
३ ख
सञ्जय़ उवाच:
शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् |
४ क
सञ्जय़ उवाच:
न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः ||
४ ख
सञ्जय़ उवाच:
द्रोणस्तु निशितैर्वाणैर्धृष्टद्युम्नमय़ोधय़त् |
५ क
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन रथनीडादपातय़त् ||
५ ख
सञ्जय़ उवाच:
तस्याथ चतुरो वाहांश्चतुर्भिः साय़कोत्तमैः |
६ क
सञ्जय़ उवाच:
पीडय़ामास सङ्क्रुद्धो धृष्टद्युम्नस्य मारिष ||
६ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः |
७ क
सञ्जय़ उवाच:
विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाव्रवीत् ||
७ ख
सञ्जय़ उवाच:
ततः पुनरमेय़ात्मा भारद्वाजः प्रतापवान् |
८ क
सञ्जय़ उवाच:
शरैः प्रच्छादय़ामास धृष्टद्युम्नममर्षणम् ||
८ ख
सञ्जय़ उवाच:
आददे च शरं घोरं पार्षतस्य वधं प्रति |
९ क
सञ्जय़ उवाच:
शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम् ||
९ ख
सञ्जय़ उवाच:
हाहाकारो महानासीत्सर्वसैन्यस्य भारत |
१० क
सञ्जय़ उवाच:
तमिषुं सन्धितं दृष्ट्वा भारद्वाजेन संय़ुगे ||
१० ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् |
११ क
सञ्जय़ उवाच:
यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ||
११ ख
सञ्जय़ उवाच:
तं च दीप्तं शरं घोरमाय़ान्तं मृत्युमात्मनः |
१२ क
सञ्जय़ उवाच:
चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ||
१२ ख
सञ्जय़ उवाच:
तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह |
१३ क
सञ्जय़ उवाच:
धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ||
१३ ख
सञ्जय़ उवाच:
ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् |
१४ क
सञ्जय़ उवाच:
द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ||
१४ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा शक्तिं कनकभूषणाम् |
१५ क
सञ्जय़ उवाच:
त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव ||
१५ ख
सञ्जय़ उवाच:
शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् |
१६ क
सञ्जय़ उवाच:
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर ||
१६ ख
सञ्जय़ उवाच:
शरवर्षं ततस्तं तु संनिवार्य महाय़शाः |
१७ क
सञ्जय़ उवाच:
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ||
१७ ख
सञ्जय़ उवाच:
स च्छिन्नधन्वा समरे गदां गुर्वीं महाय़शाः |
१८ क
सञ्जय़ उवाच:
द्रोणाय़ प्रेषय़ामास गिरिसारमय़ीं वली ||
१८ ख
सञ्जय़ उवाच:
सा गदा वेगवन्मुक्ता प्राय़ाद्द्रोणजिघांसय़ा |
१९ क
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम् ||
१९ ख
सञ्जय़ उवाच:
लाघवाद्व्यंसय़ामास गदां हेमविभूषिताम् |
२० क
सञ्जय़ उवाच:
व्यंसय़ित्वा गदां तां च प्रेषय़ामास पार्षते ||
२० ख
सञ्जय़ उवाच:
भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान् |
२१ क
सञ्जय़ उवाच:
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ||
२१ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ धृष्टद्युम्नो महामनाः |
२२ क
सञ्जय़ उवाच:
द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः ||
२२ ख
सञ्जय़ उवाच:
रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ |
२३ क
सञ्जय़ उवाच:
वसन्तसमय़े राजन्पुष्पिताविव किंशुकौ ||
२३ ख
सञ्जय़ उवाच:
अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे |
२४ क
सञ्जय़ उवाच:
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् ||
२४ ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः |
२५ क
सञ्जय़ उवाच:
अवाकिरदमेय़ात्मा वृष्ट्या मेघ इवाचलम् ||
२५ ख
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन रथनीडादपातय़त् |
२६ क
सञ्जय़ उवाच:
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ||
२६ ख
सञ्जय़ उवाच:
पातय़ामास समरे सिंहनादं ननाद च |
२७ क
सञ्जय़ उवाच:
ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ||
२७ ख
सञ्जय़ उवाच:
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः |
२८ क
सञ्जय़ उवाच:
गदापाणिरवारोहत्ख्यापय़न्पौरुषं महत् ||
२८ ख
सञ्जय़ उवाच:
तामस्य विशिखैस्तूर्णं पातय़ामास भारत |
२९ क
सञ्जय़ उवाच:
रथादनवरूढस्य तदद्भुतमिवाभवत् ||
२९ ख
सञ्जय़ उवाच:
ततः स विपुलं चर्म शतचन्द्रं च भानुमत् |
३० क
सञ्जय़ उवाच:
खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो वली ||
३० ख
सञ्जय़ उवाच:
अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षय़ा |
३१ क
सञ्जय़ उवाच:
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ||
३१ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् |
३२ क
सञ्जय़ उवाच:
लाघवं चास्त्रय़ोगं च वलं वाह्वोश्च भारत ||
३२ ख
सञ्जय़ उवाच:
यदेनं शरवर्षेण वारय़ामास पार्षतम् |
३३ क
सञ्जय़ उवाच:
न शशाक ततो गन्तुं वलवानपि संय़ुगे ||
३३ ख
सञ्जय़ उवाच:
तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम् |
३४ क
सञ्जय़ उवाच:
वारय़ाणं शरौघांश्च चर्मणा कृतहस्तवत् ||
३४ ख
सञ्जय़ उवाच:
ततो भीमो महावाहुः सहसाभ्यपतद्वली |
३५ क
सञ्जय़ उवाच:
साहाय़्यकारी समरे पार्षतस्य महात्मनः ||
३५ ख
सञ्जय़ उवाच:
स द्रोणं निशितैर्वाणै राजन्विव्याध सप्तभिः |
३६ क
सञ्जय़ उवाच:
पार्षतं च तदा तूर्णमन्यमारोपय़द्रथम् ||
३६ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा कलिङ्गं समचोदय़त् |
३७ क
सञ्जय़ उवाच:
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ||
३७ ख
सञ्जय़ उवाच:
ततः सा महती सेना कलिङ्गानां जनेश्वर |
३८ क
सञ्जय़ उवाच:
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ||
३८ ख
सञ्जय़ उवाच:
पाञ्चाल्यमभिसन्त्यज्य द्रोणोऽपि रथिनां वरः |
३९ क
सञ्जय़ उवाच:
विराटद्रुपदौ वृद्धौ योधय़ामास सङ्गतौ |
३९ ख
सञ्जय़ उवाच:
धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात् ||
३९ ग
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |
४० क
सञ्जय़ उवाच:
कलिङ्गानां च समरे भीमस्य च महात्मनः |
४० ख
सञ्जय़ उवाच:
जगतः प्रक्षय़करं घोररूपं भय़ानकम् ||
४० ग