सञ्जय़ उवाच:
युधिष्ठिरेणैवमुक्तः कौन्तेय़ः श्वेतवाहनः |
१ क
सञ्जय़ उवाच:
असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम् ||
१ ख
सञ्जय़ उवाच:
तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा |
२ क
सञ्जय़ उवाच:
उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत ||
२ ख
सञ्जय़ उवाच:
नेह पश्यामि योद्धव्यं तव किञ्चिद्धनञ्जय़ |
३ क
सञ्जय़ उवाच:
ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता ||
३ ख
सञ्जय़ उवाच:
अपय़ातोऽसि कौन्तेय़ राजा द्रष्टव्य इत्यपि |
४ क
सञ्जय़ उवाच:
स राजा भवता दृष्टः कुशली च युधिष्ठिरः ||
४ ख
सञ्जय़ उवाच:
तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् |
५ क
सञ्जय़ उवाच:
हर्षकाले तु सम्प्राप्ते कस्मात्त्वा मन्युराविशत् ||
५ ख
सञ्जय़ उवाच:
न तं पश्यामि कौन्तेय़ यस्ते वध्यो भवेदिह |
६ क
सञ्जय़ उवाच:
कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम् ||
६ ख
सञ्जय़ उवाच:
तत्त्वा पृच्छामि कौन्तेय़ किमिदं ते चिकीर्षितम् |
७ क
सञ्जय़ उवाच:
परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम ||
७ ख
सञ्जय़ उवाच:
एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम् |
८ क
सञ्जय़ उवाच:
अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ||
८ ख
सञ्जय़ उवाच:
दद गाण्डीवमन्यस्मा इति मां योऽभिचोदय़ेत् |
९ क
सञ्जय़ उवाच:
छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम ||
९ ख
सञ्जय़ उवाच:
तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम |
१० क
सञ्जय़ उवाच:
समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ||
१० ख
सञ्जय़ उवाच:
तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम् |
११ क
सञ्जय़ उवाच:
प्रतिज्ञां पालय़िष्यामि हत्वेमं नरसत्तमम् |
११ ख
सञ्जय़ उवाच:
एतदर्थं मय़ा खड्गो गृहीतो यदुनन्दन ||
११ ग
सञ्जय़ उवाच:
सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः |
१२ क
सञ्जय़ उवाच:
विशोको विज्वरश्चापि भविष्यामि जनार्दन ||
१२ ख
सञ्जय़ उवाच:
किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते |
१३ क
सञ्जय़ उवाच:
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् |
१३ ख
सञ्जय़ उवाच:
तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ||
१३ ग
कृष्ण उवाच:
इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वय़ा |
१४ क
कृष्ण उवाच:
अकाले पुरुषव्याघ्र संरम्भक्रिय़यानय़ा |
१४ ख
कृष्ण उवाच:
न हि धर्मविभागज्ञः कुर्यादेवं धनञ्जय़ ||
१४ ग
कृष्ण उवाच:
अकार्याणां च कार्याणां संय़ोगं यः करोति वै |
१५ क
कृष्ण उवाच:
कार्याणामक्रिय़ाणां च स पार्थ पुरुषाधमः ||
१५ ख
कृष्ण उवाच:
अनुसृत्य तु ये धर्मं कवय़ः समुपस्थिताः |
१६ क
कृष्ण उवाच:
समासविस्तरविदां न तेषां वेत्थ निश्चय़म् ||
१६ ख
कृष्ण उवाच:
अनिश्चय़ज्ञो हि नरः कार्याकार्यविनिश्चय़े |
१७ क
कृष्ण उवाच:
अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु ||
१७ ख
कृष्ण उवाच:
न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन |
१८ क
कृष्ण उवाच:
श्रुतेन ज्ञाय़ते सर्वं तच्च त्वं नाववुध्यसे ||
१८ ख
कृष्ण उवाच:
अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित् |
१९ क
कृष्ण उवाच:
प्राणिनां हि वधं पार्थ धार्मिको नाववुध्यते ||
१९ ख
कृष्ण उवाच:
प्राणिनामवधस्तात सर्वज्याय़ान्मतो मम |
२० क
कृष्ण उवाच:
अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथञ्चन ||
२० ख
कृष्ण उवाच:
स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् |
२१ क
कृष्ण उवाच:
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ||
२१ ख
कृष्ण उवाच:
अय़ुध्यमानस्य वधस्तथाशस्त्रस्य भारत |
२२ क
कृष्ण उवाच:
पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः |
२२ ख
कृष्ण उवाच:
कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते वुधैः ||
२२ ग
कृष्ण उवाच:
त्वय़ा चैव व्रतं पार्थ वालेनैव कृतं पुरा |
२३ क
कृष्ण उवाच:
तस्मादधर्मसंय़ुक्तं मौढ्यात्कर्म व्यवस्यसि ||
२३ ख
कृष्ण उवाच:
स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन् |
२४ क
कृष्ण उवाच:
असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वय़ाम् ||
२४ ख
कृष्ण उवाच:
इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ |
२५ क
कृष्ण उवाच:
यद्व्रूय़ात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः ||
२५ ख
कृष्ण उवाच:
विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी |
२६ क
कृष्ण उवाच:
तत्ते वक्ष्यामि तत्त्वेन तन्निवोध धनञ्जय़ ||
२६ ख
कृष्ण उवाच:
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् |
२७ क
कृष्ण उवाच:
तत्त्वेनैतत्सुदुर्ज्ञेय़ं यस्य सत्यमनुष्ठितम् ||
२७ ख
कृष्ण उवाच:
भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् |
२८ क
कृष्ण उवाच:
सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ||
२८ ख
कृष्ण उवाच:
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् |
२९ क
कृष्ण उवाच:
यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ||
२९ ख
कृष्ण उवाच:
तादृशं पश्यते वालो यस्य सत्यमनुष्ठितम् |
३० क
कृष्ण उवाच:
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ||
३० ख
कृष्ण उवाच:
किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः |
३१ क
कृष्ण उवाच:
सुमहत्प्राप्नुय़ात्पुण्यं वलाकोऽन्धवधादिव ||
३१ ख
कृष्ण उवाच:
किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपण्डितः |
३२ क
कृष्ण उवाच:
सुमहत्प्राप्नुय़ात्पापमापगामिव कौशिकः ||
३२ ख
अर्जुन उवाच:
आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा |
३३ क
अर्जुन उवाच:
वलाकान्धाभिसम्वद्धं नदीनां कौशिकस्य च ||
३३ ख
कृष्ण उवाच:
मृगव्याधोऽभवत्कश्चिद्वलाको नाम भारत |
३४ क
कृष्ण उवाच:
यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः ||
३४ ख
कृष्ण उवाच:
सोऽन्धौ च मातापितरौ विभर्त्यन्यांश्च संश्रितान् |
३५ क
कृष्ण उवाच:
स्वधर्मनिरतो नित्यं सत्यवागनसूय़कः ||
३५ ख
कृष्ण उवाच:
स कदाचिन्मृगाँल्लिप्सुर्नान्वविन्दत्प्रय़त्नवान् |
३६ क
कृष्ण उवाच:
अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम् ||
३६ ख
कृष्ण उवाच:
अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा |
३७ क
कृष्ण उवाच:
अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत् ||
३७ ख
कृष्ण उवाच:
अप्सरोगीतवादित्रैर्नादितं च मनोरमम् |
३८ क
कृष्ण उवाच:
विमानमागमत्स्वर्गान्मृगव्याधनिनीषय़ा ||
३८ ख
कृष्ण उवाच:
तद्भूतं सर्वभूतानामभावाय़ किलार्जुन |
३९ क
कृष्ण उवाच:
तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वय़म्भुवा ||
३९ ख
कृष्ण उवाच:
तद्धत्वा सर्वभूतानामभावकृतनिश्चय़म् |
४० क
कृष्ण उवाच:
ततो वलाकः स्वरगादेवं धर्मः सुदुर्विदः ||
४० ख
कृष्ण उवाच:
कौशिकोऽप्यभवद्विप्रस्तपस्वी न वहुश्रुतः |
४१ क
कृष्ण उवाच:
नदीनां सङ्गमे ग्रामाददूरे स किलावसत् ||
४१ ख
कृष्ण उवाच:
सत्यं मय़ा सदा वाच्यमिति तस्याभवद्व्रतम् |
४२ क
कृष्ण उवाच:
सत्यवादीति विख्यातः स तदासीद्धनञ्जय़ ||
४२ ख
कृष्ण उवाच:
अथ दस्युभय़ात्केचित्तदा तद्वनमाविशन् |
४३ क
कृष्ण उवाच:
दस्यवोऽपि गताः क्रूरा व्यमार्गन्त प्रय़त्नतः ||
४३ ख
कृष्ण उवाच:
अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनम् |
४४ क
कृष्ण उवाच:
कतमेन पथा याता भगवन्वहवो जनाः |
४४ ख
कृष्ण उवाच:
सत्येन पृष्टः प्रव्रूहि यदि तान्वेत्थ शंस नः ||
४४ ग
कृष्ण उवाच:
स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह |
४५ क
कृष्ण उवाच:
वहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः |
४५ ख
कृष्ण उवाच:
ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ||
४५ ग
कृष्ण उवाच:
तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः |
४६ क
कृष्ण उवाच:
गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः |
४६ ख
कृष्ण उवाच:
अप्रभूतश्रुतो मूढो धर्माणामविभागवित् ||
४६ ग
कृष्ण उवाच:
वृद्धानपृष्ट्वा सन्देहं महच्छ्वभ्रमितोऽर्हति |
४७ क