वैशम्पाय़न उवाच:
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः |
१ क
वैशम्पाय़न उवाच:
गार्हस्थ्यं धर्ममास्थाय़ असितो देवलः पुरा ||
१ ख
वैशम्पाय़न उवाच:
धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः |
२ क
वैशम्पाय़न उवाच:
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ||
२ ख
वैशम्पाय़न उवाच:
अक्रोधनो महाराज तुल्यनिन्दाप्रिय़ाप्रिय़ः |
३ क
वैशम्पाय़न उवाच:
काञ्चने लोष्टके चैव समदर्शी महातपाः ||
३ ख
वैशम्पाय़न उवाच:
देवताः पूजय़न्नित्यमतिथींश्च द्विजैः सह |
४ क
वैशम्पाय़न उवाच:
व्रह्मचर्यरतो नित्यं सदा धर्मपराय़णः ||
४ ख
वैशम्पाय़न उवाच:
ततोऽभ्येत्य महाराज योगमास्थाय़ भिक्षुकः |
५ क
वैशम्पाय़न उवाच:
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ||
५ ख
वैशम्पाय़न उवाच:
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः |
६ क
वैशम्पाय़न उवाच:
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ||
६ ख
वैशम्पाय़न उवाच:
तं तत्र वसमानं तु जैगीषव्यं महामुनिम् |
७ क
वैशम्पाय़न उवाच:
देवलो दर्शय़न्नेव नैवाय़ुञ्जत धर्मतः ||
७ ख
वैशम्पाय़न उवाच:
एवं तय़ोर्महाराज दीर्घकालो व्यतिक्रमत् |
८ क
वैशम्पाय़न उवाच:
जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः ||
८ ख
वैशम्पाय़न उवाच:
आहारकाले मतिमान्परिव्राड्जनमेजय़ |
९ क
वैशम्पाय़न उवाच:
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् ||
९ ख
वैशम्पाय़न उवाच:
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम् |
१० क
वैशम्पाय़न उवाच:
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ||
१० ख
वैशम्पाय़न उवाच:
देवलस्तु यथाशक्ति पूजय़ामास भारत |
११ क
वैशम्पाय़न उवाच:
ऋषिदृष्टेन विधिना समा वह्व्यः समाहितः ||
११ ख
वैशम्पाय़न उवाच:
कदाचित्तस्य नृपते देवलस्य महात्मनः |
१२ क
वैशम्पाय़न उवाच:
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ||
१२ ख
वैशम्पाय़न उवाच:
समास्तु समतिक्रान्ता वह्व्यः पूजय़तो मम |
१३ क
वैशम्पाय़न उवाच:
न चाय़मलसो भिक्षुरभ्यभाषत किञ्चन ||
१३ ख
वैशम्पाय़न उवाच:
एवं विगणय़न्नेव स जगाम महोदधिम् |
१४ क
वैशम्पाय़न उवाच:
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः ||
१४ ख
वैशम्पाय़न उवाच:
गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम् |
१५ क
वैशम्पाय़न उवाच:
जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत ||
१५ ख
वैशम्पाय़न उवाच:
ततः सविस्मय़श्चिन्तां जगामाथासितः प्रभुः |
१६ क
वैशम्पाय़न उवाच:
कथं भिक्षुरय़ं प्राप्तः समुद्रे स्नात एव च ||
१६ ख
वैशम्पाय़न उवाच:
इत्येवं चिन्तय़ामास महर्षिरसितस्तदा |
१७ क
वैशम्पाय़न उवाच:
स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह ||
१७ ख
वैशम्पाय़न उवाच:
कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह |
१८ क
वैशम्पाय़न उवाच:
कलशं जलपूर्णं वै गृहीत्वा जनमेजय़ ||
१८ ख
वैशम्पाय़न उवाच:
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः |
१९ क
वैशम्पाय़न उवाच:
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत ||
१९ ख
वैशम्पाय़न उवाच:
न व्याहरति चैवैनं जैगीषव्यः कथञ्चन |
२० क
वैशम्पाय़न उवाच:
काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः ||
२० ख
वैशम्पाय़न उवाच:
तं दृष्ट्वा चाप्लुतं तोय़े सागरे सागरोपमम् |
२१ क
वैशम्पाय़न उवाच:
प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः ||
२१ ख
वैशम्पाय़न उवाच:
असितो देवलो राजंश्चिन्तय़ामास वुद्धिमान् |
२२ क
वैशम्पाय़न उवाच:
दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् ||
२२ ख
वैशम्पाय़न उवाच:
चिन्तय़ामास राजेन्द्र तदा स मुनिसत्तमः |
२३ क
वैशम्पाय़न उवाच:
मय़ा दृष्टः समुद्रे च आश्रमे च कथं त्वय़म् ||
२३ ख
वैशम्पाय़न उवाच:
एवं विगणय़न्नेव स मुनिर्मन्त्रपारगः |
२४ क
वैशम्पाय़न उवाच:
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते |
२४ ख
वैशम्पाय़न उवाच:
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ||
२४ ग
वैशम्पाय़न उवाच:
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् |
२५ क
वैशम्पाय़न उवाच:
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ||
२५ ख
वैशम्पाय़न उवाच:
ततोऽसितः सुसंरव्धो व्यवसाय़ी दृढव्रतः |
२६ क
वैशम्पाय़न उवाच:
अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः ||
२६ ख
वैशम्पाय़न उवाच:
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत |
२७ क
वैशम्पाय़न उवाच:
पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत ||
२७ ख
वैशम्पाय़न उवाच:
तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् |
२८ क
वैशम्पाय़न उवाच:
व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम् ||
२८ ख
वैशम्पाय़न उवाच:
लोकान्समुत्पतन्तं च शुभानेकान्तय़ाजिनाम् |
२९ क
वैशम्पाय़न उवाच:
ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह ||
२९ ख
वैशम्पाय़न उवाच:
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः |
३० क
वैशम्पाय़न उवाच:
तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुय़ाजिनाम् |
३० ख
वैशम्पाय़न उवाच:
व्रजन्तं लोकममलमपश्यद्देवपूजितम् ||
३० ग
वैशम्पाय़न उवाच:
चातुर्मास्यैर्वहुविधैर्यजन्ते ये तपोधनाः |
३१ क
वैशम्पाय़न उवाच:
तेषां स्थानं तथा यान्तं तथाग्निष्टोमय़ाजिनाम् ||
३१ ख
वैशम्पाय़न उवाच:
अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः |
३२ क
वैशम्पाय़न उवाच:
तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः ||
३२ ख
वैशम्पाय़न उवाच:
वाजपेय़ं क्रतुवरं तथा वहुसुवर्णकम् |
३३ क
वैशम्पाय़न उवाच:
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ||
३३ ख
वैशम्पाय़न उवाच:
यजन्ते पुण्डरीकेण राजसूय़ेन चैव ये |
३४ क
वैशम्पाय़न उवाच:
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||
३४ ख
वैशम्पाय़न उवाच:
अश्वमेधं क्रतुवरं नरमेधं तथैव च |
३५ क
वैशम्पाय़न उवाच:
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ||
३५ ख
वैशम्पाय़न उवाच:
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये |
३६ क
वैशम्पाय़न उवाच:
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||
३६ ख
वैशम्पाय़न उवाच:
द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप |
३७ क
वैशम्पाय़न उवाच:
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||
३७ ख
वैशम्पाय़न उवाच:
मित्रावरुणय़ोर्लोकानादित्यानां तथैव च |
३८ क
वैशम्पाय़न उवाच:
सलोकतामनुप्राप्तमपश्यत ततोऽसितः ||
३८ ख
वैशम्पाय़न उवाच:
रुद्राणां च वसूनां च स्थानं यच्च वृहस्पतेः |
३९ क
वैशम्पाय़न उवाच:
तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः ||
३९ ख
वैशम्पाय़न उवाच:
आरुह्य च गवां लोकं प्रय़ान्तं व्रह्मसत्रिणाम् |
४० क
वैशम्पाय़न उवाच:
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ||
४० ख
वैशम्पाय़न उवाच:
त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा |
४१ क
वैशम्पाय़न उवाच:
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ||
४१ ख
वैशम्पाय़न उवाच:
ततो मुनिवरं भूय़ो जैगीषव्यमथासितः |
४२ क
वैशम्पाय़न उवाच:
नान्वपश्यत योगस्थमन्तर्हितमरिन्दम ||
४२ ख
वैशम्पाय़न उवाच:
सोऽचिन्तय़न्महाभागो जैगीषव्यस्य देवलः |
४३ क
वैशम्पाय़न उवाच:
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ||
४३ ख
वैशम्पाय़न उवाच:
असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् |
४४ क
वैशम्पाय़न उवाच:
प्रय़तः प्राञ्जलिर्भूत्वा धीरस्तान्व्रह्मसत्रिणः ||
४४ ख
वैशम्पाय़न उवाच:
जैगीषव्यं न पश्यामि तं शंसत महौजसम् |
४५ क
वैशम्पाय़न उवाच:
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ||
४५ ख
सिद्धा ऊचुः:
शृणु देवल भूतार्थं शंसतां नो दृढव्रत |
४६ क
सिद्धा ऊचुः:
जैगीषव्यो गतो लोकं शाश्वतं व्रह्मणोऽव्ययम् ||
४६ ख
सिद्धा ऊचुः:
स श्रुत्वा वचनं तेषां सिद्धानां व्रह्मसत्रिणाम् |
४७ क
सिद्धा ऊचुः:
असितो देवलस्तूर्णमुत्पपात पपात च ||
४७ ख
सिद्धा ऊचुः:
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह |
४८ क
सिद्धा ऊचुः:
न देवल गतिस्तत्र तव गन्तुं तपोधन |
४८ ख
सिद्धा ऊचुः:
व्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान् ||
४८ ग
सिद्धा ऊचुः:
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः |
४९ क