वैशम्पाय़न उवाच:
तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु |
१ क
वैशम्पाय़न उवाच:
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ||
१ ख
वैशम्पाय़न उवाच:
लोकाननुचरन्सर्वानागमत्तां सभामृषिः |
२ क
वैशम्पाय़न उवाच:
नारदः सुमहातेजा ऋषिभिः सहितस्तदा ||
२ ख
वैशम्पाय़न उवाच:
पारिजातेन राजेन्द्र रैवतेन च धीमता |
३ क
वैशम्पाय़न उवाच:
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः |
३ ख
वैशम्पाय़न उवाच:
सभास्थान्पाण्डवान्द्रष्टुं प्रीय़माणो मनोजवः ||
३ ग
वैशम्पाय़न उवाच:
तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् |
४ क
वैशम्पाय़न उवाच:
सहसा पाण्डवश्रेष्ठः प्रत्युत्थाय़ानुजैः सह |
४ ख
वैशम्पाय़न उवाच:
अभ्यवादय़त प्रीत्या विनय़ावनतस्तदा ||
४ ग
वैशम्पाय़न उवाच:
तदर्हमासनं तस्मै सम्प्रदाय़ यथाविधि |
५ क
वैशम्पाय़न उवाच:
अर्चय़ामास रत्नैश्च सर्वकामैश्च धर्मवित् ||
५ ख
वैशम्पाय़न उवाच:
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः |
६ क
वैशम्पाय़न उवाच:
धर्मकामार्थसंय़ुक्तं पप्रच्छेदं युधिष्ठिरम् ||
६ ख
नारद उवाच:
कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः |
७ क
नारद उवाच:
सुखानि चानुभूय़न्ते मनश्च न विहन्यते ||
७ ख
नारद उवाच:
कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः |
८ क
नारद उवाच:
वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु ||
८ ख
नारद उवाच:
कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा |
९ क
नारद उवाच:
उभौ वा प्रीतिसारेण न कामेन प्रवाधसे ||
९ ख
नारद उवाच:
कच्चिदर्थं च धर्मं च कामं च जय़तां वर |
१० क
नारद उवाच:
विभज्य काले कालज्ञ सदा वरद सेवसे ||
१० ख
नारद उवाच:
कच्चिद्राजगुणैः षड्भिः सप्तोपाय़ांस्तथानघ |
११ क
नारद उवाच:
वलावलं तथा सम्यक्चतुर्दश परीक्षसे ||
११ ख
नारद उवाच:
कच्चिदात्मानमन्वीक्ष्य परांश्च जय़तां वर |
१२ क
नारद उवाच:
तथा सन्धाय़ कर्माणि अष्टौ भारत सेवसे ||
१२ ख
नारद उवाच:
कच्चित्प्रकृतय़ः षट्ते न लुप्ता भरतर्षभ |
१३ क
नारद उवाच:
आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः ||
१३ ख
नारद उवाच:
कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः |
१४ क
नारद उवाच:
त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम् ||
१४ ख
नारद उवाच:
कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे |
१५ क
नारद उवाच:
कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे ||
१५ ख
नारद उवाच:
कच्चिदात्मसमा वुद्ध्या शुचय़ो जीवितक्षमाः |
१६ क
नारद उवाच:
कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः ||
१६ ख
नारद उवाच:
विजय़ो मन्त्रमूलो हि राज्ञां भवति भारत |
१७ क
नारद उवाच:
सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः ||
१७ ख
नारद उवाच:
कच्चिन्निद्रावशं नैषि कच्चित्काले विवुध्यसे |
१८ क
नारद उवाच:
कच्चिच्चापररात्रेषु चिन्तय़स्यर्थमर्थवित् ||
१८ ख
नारद उवाच:
कच्चिन्मन्त्रय़से नैकः कच्चिन्न वहुभिः सह |
१९ क
नारद उवाच:
कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति ||
१९ ख
नारद उवाच:
कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदय़ान् |
२० क
नारद उवाच:
क्षिप्रमारभसे कर्तुं न विघ्नय़सि तादृशान् ||
२० ख
नारद उवाच:
कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः |
२१ क
नारद उवाच:
सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम् ||
२१ ख
नारद उवाच:
कच्चिद्राजन्कृतान्येव कृतप्राय़ाणि वा पुनः |
२२ क
नारद उवाच:
विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ||
२२ ख
नारद उवाच:
कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः |
२३ क
नारद उवाच:
कारय़न्ति कुमारांश्च योधमुख्यांश्च सर्वशः ||
२३ ख
नारद उवाच:
कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् |
२४ क
नारद उवाच:
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेय़सं परम् ||
२४ ख
नारद उवाच:
कच्चिद्दुर्गाणि सर्वाणि धनधान्याय़ुधोदकैः |
२५ क
नारद उवाच:
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ||
२५ ख
नारद उवाच:
एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः |
२६ क
नारद उवाच:
राजानं राजपुत्रं वा प्रापय़ेन्महतीं श्रिय़म् ||
२६ ख
नारद उवाच:
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च |
२७ क
नारद उवाच:
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ||
२७ ख
नारद उवाच:
कच्चिद्द्विषामविदितः प्रतिय़त्तश्च सर्वदा |
२८ क
नारद उवाच:
नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ||
२८ ख
नारद उवाच:
कच्चिद्विनय़सम्पन्नः कुलपुत्रो वहुश्रुतः |
२९ क
नारद उवाच:
अनसूय़ुरनुप्रष्टा सत्कृतस्ते पुरोहितः ||
२९ ख
नारद उवाच:
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः |
३० क
नारद उवाच:
हुतं च होष्यमाणं च काले वेदय़ते सदा ||
३० ख
नारद उवाच:
कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः |
३१ क
नारद उवाच:
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ||
३१ ख
नारद उवाच:
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः |
३२ क
नारद उवाच:
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ||
३२ ख
नारद उवाच:
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् |
३३ क
नारद उवाच:
श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं निय़ोजय़सि कर्मसु ||
३३ ख
नारद उवाच:
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः |
३४ क
नारद उवाच:
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ||
३४ ख
नारद उवाच:
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा |
३५ क
नारद उवाच:
उग्रप्रतिग्रहीतारं कामय़ानमिव स्त्रिय़ः ||
३५ ख
नारद उवाच:
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः |
३६ क
नारद उवाच:
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव ||
३६ ख
नारद उवाच:
कच्चिद्वलस्य ते मुख्याः सर्वे युद्धविशारदाः |
३७ क
नारद उवाच:
दृष्टापदाना विक्रान्तास्त्वय़ा सत्कृत्य मानिताः ||
३७ ख
नारद उवाच:
कच्चिद्वलस्य भक्तं च वेतनं च यथोचितम् |
३८ क
नारद उवाच:
सम्प्राप्तकालं दातव्यं ददासि न विकर्षसि ||
३८ ख
नारद उवाच:
कालातिक्रमणाद्ध्येते भक्तवेतनय़ोर्भृताः |
३९ क
नारद उवाच:
भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ||
३९ ख
नारद उवाच:
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः |
४० क
नारद उवाच:
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि ||
४० ख
नारद उवाच:
कच्चिन्नैको वहूनर्थान्सर्वशः साम्पराय़िकान् |
४१ क
नारद उवाच:
अनुशास्सि यथाकामं कामात्मा शासनातिगः ||
४१ ख
नारद उवाच:
कच्चित्पुरुषकारेण पुरुषः कर्म शोभय़न् |
४२ क
नारद उवाच:
लभते मानमधिकं भूय़ो वा भक्तवेतनम् ||
४२ ख
नारद उवाच:
कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् |
४३ क
नारद उवाच:
यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे ||
४३ ख
नारद उवाच:
कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेय़ुषाम् |
४४ क
नारद उवाच:
व्यसनं चाभ्युपेतानां विभर्षि भरतर्षभ ||
४४ ख
नारद उवाच:
कच्चिद्भय़ादुपनतं क्लीवं वा रिपुमागतम् |
४५ क
नारद उवाच:
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि ||
४५ ख
नारद उवाच:
कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते |
४६ क
नारद उवाच:
समश्च नाभिशङ्क्यश्च यथा माता यथा पिता ||
४६ ख
नारद उवाच:
कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ |
४७ क
नारद उवाच:
अभिय़ासि जवेनैव समीक्ष्य त्रिविधं वलम् ||
४७ ख
नारद उवाच:
पार्ष्णिमूलं च विज्ञाय़ व्यवसाय़ं पराजय़म् |
४८ क
नारद उवाच:
वलस्य च महाराज दत्त्वा वेतनमग्रतः ||
४८ ख
नारद उवाच:
कच्चिच्च वलमुख्येभ्यः परराष्ट्रे परन्तप |
४९ क
नारद उवाच:
उपच्छन्नानि रत्नानि प्रय़च्छसि यथार्हतः ||
४९ ख