नारद उवाच:
कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रिय़ः |
५० क
नारद उवाच:
पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रिय़ान् ||
५० ख
नारद उवाच:
कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः |
५१ क
नारद उवाच:
साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ||
५१ ख
नारद उवाच:
कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते |
५२ क
नारद उवाच:
तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ||
५२ ख
नारद उवाच:
कच्चिदष्टाङ्गसंय़ुक्ता चतुर्विधवला चमूः |
५३ क
नारद उवाच:
वलमुख्यैः सुनीता ते द्विषतां प्रतिवाधनी ||
५३ ख
नारद उवाच:
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप |
५४ क
नारद उवाच:
अविहाय़ महाराज विहंसि समरे रिपून् ||
५४ ख
नारद उवाच:
कच्चित्स्वपरराष्ट्रेषु वहवोऽधिकृतास्तव |
५५ क
नारद उवाच:
अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् ||
५५ ख
नारद उवाच:
कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च |
५६ क
नारद उवाच:
घ्रेय़ाणि च महाराज रक्षन्त्यनुमतास्तव ||
५६ ख
नारद उवाच:
कच्चित्कोशं च कोष्ठं च वाहनं द्वारमाय़ुधम् |
५७ क
नारद उवाच:
आय़श्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ||
५७ ख
नारद उवाच:
कच्चिदाभ्यन्तरेभ्यश्च वाह्येभ्यश्च विशां पते |
५८ क
नारद उवाच:
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् ||
५८ ख
नारद उवाच:
कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च |
५९ क
नारद उवाच:
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ||
५९ ख
नारद उवाच:
कच्चिदाय़स्य चार्धेन चतुर्भागेन वा पुनः |
६० क
नारद उवाच:
पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव ||
६० ख
नारद उवाच:
कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान् |
६१ क
नारद उवाच:
अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् ||
६१ ख
नारद उवाच:
कच्चिदाय़व्यये युक्ताः सर्वे गणकलेखकाः |
६२ क
नारद उवाच:
अनुतिष्ठन्ति पूर्वाह्णे नित्यमाय़व्ययं तव ||
६२ ख
नारद उवाच:
कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रिय़ान् |
६३ क
नारद उवाच:
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्विषम् ||
६३ ख
नारद उवाच:
कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् |
६४ क
नारद उवाच:
त्वं कर्मस्वनुरूपेषु निय़ोजय़सि भारत ||
६४ ख
नारद उवाच:
कच्चिन्न लुव्धाश्चौरा वा वैरिणो वा विशां पते |
६५ क
नारद उवाच:
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ||
६५ ख
नारद उवाच:
कच्चिन्न लुव्धैश्चौरैर्वा कुमारैः स्त्रीवलेन वा |
६६ क
नारद उवाच:
त्वय़ा वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः ||
६६ ख
नारद उवाच:
कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च |
६७ क
नारद उवाच:
भागशो विनिविष्टानि न कृषिर्देवमातृका ||
६७ ख
नारद उवाच:
कच्चिद्वीजं च भक्तं च कर्षकाय़ावसीदते |
६८ क
नारद उवाच:
प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् ||
६८ ख
नारद उवाच:
कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः |
६९ क
नारद उवाच:
वार्त्ताय़ां संश्रितस्तात लोकोऽय़ं सुखमेधते ||
६९ ख
नारद उवाच:
कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः |
७० क
नारद उवाच:
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव ||
७० ख
नारद उवाच:
कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः |
७१ क
नारद उवाच:
ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः ||
७१ ख
नारद उवाच:
कच्चिद्वलेनानुगताः समानि विषमाणि च |
७२ क
नारद उवाच:
पुराणचौराः साध्यक्षाश्चरन्ति विषय़े तव ||
७२ ख
नारद उवाच:
कच्चित्स्त्रिय़ः सान्त्वय़सि कच्चित्ताश्च सुरक्षिताः |
७३ क
नारद उवाच:
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ||
७३ ख
नारद उवाच:
कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च |
७४ क
नारद उवाच:
प्रिय़ाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम् ||
७४ ख
नारद उवाच:
कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते |
७५ क
नारद उवाच:
सञ्चिन्तय़सि धर्मार्थौ याम उत्थाय़ पश्चिमे ||
७५ ख
नारद उवाच:
कच्चिद्दर्शय़से नित्यं मनुष्यान्समलङ्कृतान् |
७६ क
नारद उवाच:
उत्थाय़ काले कालज्ञः सह पाण्डव मन्त्रिभिः ||
७६ ख
नारद उवाच:
कच्चिद्रक्ताम्वरधराः खड्गहस्ताः स्वलङ्कृताः |
७७ क
नारद उवाच:
अभितस्त्वामुपासन्ते रक्षणार्थमरिन्दम ||
७७ ख
नारद उवाच:
कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशां पते |
७८ क
नारद उवाच:
परीक्ष्य वर्तसे सम्यगप्रिय़ेषु प्रिय़ेषु च ||
७८ ख
नारद उवाच:
कच्चिच्छारीरमावाधमौषधैर्निय़मेन वा |
७९ क
नारद उवाच:
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ||
७९ ख
नारद उवाच:
कच्चिद्वैद्याश्चिकित्साय़ामष्टाङ्गाय़ां विशारदाः |
८० क
नारद उवाच:
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ||
८० ख
नारद उवाच:
कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशां पते |
८१ क
नारद उवाच:
अर्थिप्रत्यर्थिनः प्राप्तानपास्यसि कथञ्चन ||
८१ ख
नारद उवाच:
कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणय़ेन वा |
८२ क
नारद उवाच:
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च ||
८२ ख
नारद उवाच:
कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः |
८३ क
नारद उवाच:
त्वय़ा सह विरुध्यन्ते परैः क्रीताः कथञ्चन ||
८३ ख
नारद उवाच:
कच्चित्ते दुर्वलः शत्रुर्वलेनोपनिपीडितः |
८४ क
नारद उवाच:
मन्त्रेण वलवान्कश्चिदुभाभ्यां वा युधिष्ठिर ||
८४ ख
नारद उवाच:
कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः |
८५ क
नारद उवाच:
कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वय़ा हृताः ||
८५ ख
नारद उवाच:
कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते |
८६ क
नारद उवाच:
व्राह्मणानां च साधूनां तव निःश्रेय़से शुभा ||
८६ ख
नारद उवाच:
कच्चिद्धर्मे त्रय़ीमूले पूर्वैराचरिते जनैः |
८७ क
नारद उवाच:
वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे ||
८७ ख
नारद उवाच:
कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः |
८८ क
नारद उवाच:
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ||
८८ ख
नारद उवाच:
कच्चित्क्रतूनेकचित्तो वाजपेय़ांश्च सर्वशः |
८९ क
नारद उवाच:
पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ||
८९ ख
नारद उवाच:
कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि |
९० क
नारद उवाच:
चैत्यांश्च वृक्षान्कल्याणान्व्राह्मणांश्च नमस्यसि ||
९० ख
नारद उवाच:
कच्चिदेषा च ते वुद्धिर्वृत्तिरेषा च तेऽनघ |
९१ क
नारद उवाच:
आय़ुष्या च यशस्या च धर्मकामार्थदर्शिनी ||
९१ ख
नारद उवाच:
एतय़ा वर्तमानस्य वुद्ध्या राष्ट्रं न सीदति |
९२ क
नारद उवाच:
विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते ||
९२ ख
नारद उवाच:
कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि |
९३ क
नारद उवाच:
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ||
९३ ख
नारद उवाच:
पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः |
९४ क
नारद उवाच:
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ||
९४ ख
नारद उवाच:
व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत |
९५ क
नारद उवाच:
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ||
९५ ख
नारद उवाच:
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् |
९६ क
नारद उवाच:
अदर्शनं ज्ञानवतामालस्यं क्षिप्तचित्तताम् ||
९६ ख
नारद उवाच:
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् |
९७ क
नारद उवाच:
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ||
९७ ख
नारद उवाच:
मङ्गल्यस्याप्रय़ोगं च प्रसङ्गं विषय़ेषु च |
९८ क
नारद उवाच:
कच्चित्त्वं वर्जय़स्येतान्राजदोषांश्चतुर्दश ||
९८ ख
नारद उवाच:
कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम् |
९९ क
नारद उवाच:
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ||
९९ ख