युधिष्ठिर उवाच:
कथं वै सफला वेदाः कथं वै सफलं धनम् |
१०० क
युधिष्ठिर उवाच:
कथं वै सफला दाराः कथं वै सफलं श्रुतम् ||
१०० ख
नारद उवाच:
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् |
१०१ क
नारद उवाच:
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ||
१०१ ख
वैशम्पाय़न उवाच:
एतदाख्याय़ स मुनिर्नारदः सुमहातपाः |
१०२ क
वैशम्पाय़न उवाच:
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् ||
१०२ ख
नारद उवाच:
कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् |
१०३ क
नारद उवाच:
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः ||
१०३ ख
नारद उवाच:
कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः |
१०४ क
नारद उवाच:
उपानय़न्ति पण्यानि उपधाभिरवञ्चिताः ||
१०४ ख
नारद उवाच:
कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः |
१०५ क
नारद उवाच:
नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम् ||
१०५ ख
नारद उवाच:
कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च |
१०६ क
नारद उवाच:
धर्मार्थं च द्विजातिभ्यो दीय़ते मधुसर्पिषी ||
१०६ ख
नारद उवाच:
द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम् |
१०७ क
नारद उवाच:
चातुर्मास्यावरं सम्यङ्निय़तं सम्प्रय़च्छसि ||
१०७ ख
नारद उवाच:
कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि |
१०८ क
नारद उवाच:
सतां मध्ये महाराज सत्करोषि च पूजय़न् ||
१०८ ख
नारद उवाच:
कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ |
१०९ क
नारद उवाच:
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो ||
१०९ ख
नारद उवाच:
कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ |
११० क
नारद उवाच:
धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् ||
११० ख
नारद उवाच:
कच्चिदस्त्राणि सर्वाणि व्रह्मदण्डश्च तेऽनघ |
१११ क
नारद उवाच:
विषय़ोगाश्च ते सर्वे विदिताः शत्रुनाशनाः ||
१११ ख
नारद उवाच:
कच्चिदग्निभय़ाच्चैव सर्पव्यालभय़ात्तथा |
११२ क
नारद उवाच:
रोगरक्षोभय़ाच्चैव राष्ट्रं स्वं परिरक्षसि ||
११२ ख
नारद उवाच:
कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानवान्धवान् |
११३ क
नारद उवाच:
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि ||
११३ ख
वैशम्पाय़न उवाच:
एताः कुरूणामृषभो महात्मा; श्रुत्वा गिरो व्राह्मणसत्तमस्य |
११४ क
वैशम्पाय़न उवाच:
प्रणम्य पादावभिवाद्य हृष्टो; राजाव्रवीन्नारदं देवरूपम् ||
११४ ख
वैशम्पाय़न उवाच:
एवं करिष्यामि यथा त्वय़ोक्तं; प्रज्ञा हि मे भूय़ एवाभिवृद्धा |
११५ क
वैशम्पाय़न उवाच:
उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च ||
११५ ख
नारद उवाच:
एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे |
११६ क
नारद उवाच:
स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् ||
११६ ख