कृप उवाच:
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनिय़तेन्द्रिय़ः |
१ क
कृप उवाच:
नालं वेदय़ितुं कृत्स्नौ धर्मार्थाविति मे मतिः ||
१ ख
कृप उवाच:
तथैव तावन्मेधावी विनय़ं यो न शिक्षति |
२ क
कृप उवाच:
न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चय़म् ||
२ ख
कृप उवाच:
शुश्रूषुस्त्वेव मेधावी पुरुषो निय़तेन्द्रिय़ः |
३ क
कृप उवाच:
जानीय़ादागमान्सर्वान्ग्राह्यं च न विरोधय़ेत् ||
३ ख
कृप उवाच:
अनेय़स्त्ववमानी यो दुरात्मा पापपूरुषः |
४ क
कृप उवाच:
दिष्टमुत्सृज्य कल्याणं करोति वहुपापकम् ||
४ ख
कृप उवाच:
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् |
५ क
कृप उवाच:
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते ||
५ ख
कृप उवाच:
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो निय़म्यते |
६ क
कृप उवाच:
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ||
६ ख
कृप उवाच:
तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम् |
७ क
कृप उवाच:
प्राज्ञाः सम्प्रतिषेधन्ते यथाशक्ति पुनः पुनः ||
७ ख
कृप उवाच:
स कल्याणे मतिं कृत्वा निय़म्यात्मानमात्मना |
८ क
कृप उवाच:
कुरु मे वचनं तात येन पश्चान्न तप्यसे ||
८ ख
कृप उवाच:
न वधः पूज्यते लोके सुप्तानामिह धर्मतः |
९ क
कृप उवाच:
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ||
९ ख
कृप उवाच:
ये च व्रूय़ुस्तवास्मीति ये च स्युः शरणागताः |
१० क
कृप उवाच:
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः ||
१० ख
कृप उवाच:
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो |
११ क
कृप उवाच:
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ||
११ ख
कृप उवाच:
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः |
१२ क
कृप उवाच:
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे ||
१२ ख
कृप उवाच:
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः |
१३ क
कृप उवाच:
न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्विषम् ||
१३ ख
कृप उवाच:
त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ |
१४ क
कृप उवाच:
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ||
१४ ख
कृप उवाच:
असम्भावितरूपं हि त्वय़ि कर्म विगर्हितम् |
१५ क
कृप उवाच:
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ||
१५ ख
अश्वत्थामो उवाच:
एवमेतद्यथात्थ त्वमनुशास्मीह मातुल |
१६ क
अश्वत्थामो उवाच:
तैस्तु पूर्वमय़ं सेतुः शतधा विदलीकृतः ||
१६ ख
अश्वत्थामो उवाच:
प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौ |
१७ क
अश्वत्थामो उवाच:
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ||
१७ ख
अश्वत्थामो उवाच:
कर्णश्च पतिते चक्रे रथस्य रथिनां वरः |
१८ क
अश्वत्थामो उवाच:
उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना ||
१८ ख
अश्वत्थामो उवाच:
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निराय़ुधः |
१९ क
अश्वत्थामो उवाच:
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ||
१९ ख
अश्वत्थामो उवाच:
भूरिश्रवा महेष्वासस्तथा प्राय़गतो रणे |
२० क
अश्वत्थामो उवाच:
क्रोशतां भूमिपालानां युय़ुधानेन पातितः ||
२० ख
अश्वत्थामो उवाच:
दुर्योधनश्च भीमेन समेत्य गदय़ा मृधे |
२१ क
अश्वत्थामो उवाच:
पश्यतां भूमिपालानामधर्मेण निपातितः ||
२१ ख
अश्वत्थामो उवाच:
एकाकी वहुभिस्तत्र परिवार्य महारथैः |
२२ क
अश्वत्थामो उवाच:
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः ||
२२ ख
अश्वत्थामो उवाच:
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः |
२३ क
अश्वत्थामो उवाच:
वार्त्तिकानां कथय़तां स मे मर्माणि कृन्तति ||
२३ ख
अश्वत्थामो उवाच:
एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः |
२४ क
अश्वत्थामो उवाच:
तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ||
२४ ख
अश्वत्थामो उवाच:
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके |
२५ क
अश्वत्थामो उवाच:
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै ||
२५ ख
अश्वत्थामो उवाच:
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् |
२६ क
अश्वत्थामो उवाच:
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ||
२६ ख
अश्वत्थामो उवाच:
न स जातः पुमाँल्लोके कश्चिन्न च भविष्यति |
२७ क
अश्वत्थामो उवाच:
यो मे व्यावर्तय़ेदेतां वधे तेषां कृतां मतिम् ||
२७ ख
सञ्जय़ उवाच:
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् |
२८ क
सञ्जय़ उवाच:
एकान्ते योजय़ित्वाश्वान्प्राय़ादभिमुखः परान् ||
२८ ख
सञ्जय़ उवाच:
तमव्रूतां महात्मानौ भोजशारद्वतावुभौ |
२९ क
सञ्जय़ उवाच:
किमय़ं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ||
२९ ख
सञ्जय़ उवाच:
एकसार्थं प्रय़ातौ स्वस्त्वय़ा सह नरर्षभ |
३० क
सञ्जय़ उवाच:
समदुःखसुखौ चैव नावां शङ्कितुमर्हसि ||
३० ख
सञ्जय़ उवाच:
अश्वत्थामा तु सङ्क्रुद्धः पितुर्वधमनुस्मरन् |
३१ क
सञ्जय़ उवाच:
ताभ्यां तथ्यं तदाचख्यौ यदस्यात्मचिकीर्षितम् ||
३१ ख
सञ्जय़ उवाच:
हत्वा शतसहस्राणि योधानां निशितैः शरैः |
३२ क
सञ्जय़ उवाच:
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ||
३२ ख
सञ्जय़ उवाच:
तं तथैव हनिष्यामि न्यस्तवर्माणमद्य वै |
३३ क
सञ्जय़ उवाच:
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा ||
३३ ख
सञ्जय़ उवाच:
कथं च निहतः पापः पाञ्चालः पशुवन्मय़ा |
३४ क
सञ्जय़ उवाच:
शस्त्राहवजितां लोकान्प्राप्नुय़ादिति मे मतिः ||
३४ ख
सञ्जय़ उवाच:
क्षिप्रं संनद्धकवचौ सखड्गावात्तकार्मुकौ |
३५ क
सञ्जय़ उवाच:
समास्थाय़ प्रतीक्षेतां रथवर्यौ परन्तपौ ||
३५ ख
सञ्जय़ उवाच:
इत्युक्त्वा रथमास्थाय़ प्राय़ादभिमुखः परान् |
३६ क
सञ्जय़ उवाच:
तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ||
३६ ख
सञ्जय़ उवाच:
ते प्रय़ाता व्यरोचन्त परानभिमुखास्त्रय़ः |
३७ क
सञ्जय़ उवाच:
हूय़माना यथा यज्ञे समिद्धा हव्यवाहनाः ||
३७ ख
सञ्जय़ उवाच:
यय़ुश्च शिविरं तेषां सम्प्रसुप्तजनं विभो |
३८ क
सञ्जय़ उवाच:
द्वारदेशं तु सम्प्राप्य द्रौणिस्तस्थौ रथोत्तमे ||
३८ ख