वैशम्पाय़न उवाच:
ततो यय़ुर्दारुकः केशवश्च; वभ्रुश्च रामस्य पदं पतन्तः |
१ क
वैशम्पाय़न उवाच:
अथापश्यन्राममनन्तवीर्यं; वृक्षे स्थितं चिन्तय़ानं विविक्ते ||
१ ख
वैशम्पाय़न उवाच:
ततः समासाद्य महानुभावः; कृष्णस्तदा दारुकमन्वशासत् |
२ क
वैशम्पाय़न उवाच:
गत्वा कुरूञ्शीघ्रमिमं महान्तं; पार्थाय़ शंसस्व वधं यदूनाम् ||
२ ख
वैशम्पाय़न उवाच:
ततोऽर्जुनः क्षिप्रमिहोपय़ातु; श्रुत्वा मृतान्यादवान्व्रह्मशापात् |
३ क
वैशम्पाय़न उवाच:
इत्येवमुक्तः स यय़ौ रथेन; कुरूंस्तदा दारुको नष्टचेताः ||
३ ख
वैशम्पाय़न उवाच:
ततो गते दारुके केशवोऽथ; दृष्ट्वान्तिके वभ्रुमुवाच वाक्यम् |
४ क
वैशम्पाय़न उवाच:
स्त्रिय़ो भवान्रक्षतु यातु शीघ्रं; नैता हिंस्युर्दस्यवो वित्तलोभात् ||
४ ख
वैशम्पाय़न उवाच:
स प्रस्थितः केशवेनानुशिष्टो; मदातुरो ज्ञातिवधार्दितश्च |
५ क
वैशम्पाय़न उवाच:
तं वै यान्तं संनिधौ केशवस्य; त्वरन्तमेकं सहसैव वभ्रुम् |
५ ख
वैशम्पाय़न उवाच:
व्रह्मानुशप्तमवधीन्महद्वै; कूटोन्मुक्तं मुसलं लुव्धकस्य ||
५ ग
वैशम्पाय़न उवाच:
ततो दृष्ट्वा निहतं वभ्रुमाह; कृष्णो वाक्यं भ्रातरमग्रजं तु |
६ क
वैशम्पाय़न उवाच:
इहैव त्वं मां प्रतीक्षस्व राम; यावत्स्त्रिय़ो ज्ञातिवशाः करोमि ||
६ ख
वैशम्पाय़न उवाच:
ततः पुरीं द्वारवतीं प्रविश्य; जनार्दनः पितरं प्राह वाक्यम् |
७ क
वैशम्पाय़न उवाच:
स्त्रिय़ो भवान्रक्षतु नः समग्रा; धनञ्जय़स्यागमनं प्रतीक्षन् |
७ ख
वैशम्पाय़न उवाच:
रामो वनान्ते प्रतिपालय़न्मा; मास्तेऽद्याहं तेन समागमिष्ये ||
७ ग
वैशम्पाय़न उवाच:
दृष्टं मय़ेदं निधनं यदूनां; राज्ञां च पूर्वं कुरुपुङ्गवानाम् |
८ क
वैशम्पाय़न उवाच:
नाहं विना यदुभिर्यादवानां; पुरीमिमां द्रष्टुमिहाद्य शक्तः ||
८ ख
वैशम्पाय़न उवाच:
तपश्चरिष्यामि निवोध तन्मे; रामेण सार्धं वनमभ्युपेत्य |
९ क
वैशम्पाय़न उवाच:
इतीदमुक्त्वा शिरसास्य पादौ; संस्पृश्य कृष्णस्त्वरितो जगाम ||
९ ख
वैशम्पाय़न उवाच:
ततो महान्निनदः प्रादुरासी; त्सस्त्रीकुमारस्य पुरस्य तस्य |
१० क
वैशम्पाय़न उवाच:
अथाव्रवीत्केशवः संनिवर्त्य; शव्दं श्रुत्वा योषितां क्रोशतीनाम् ||
१० ख
वैशम्पाय़न उवाच:
पुरीमिमामेष्यति सव्यसाची; स वो दुःखान्मोचय़िता नराग्र्यः |
११ क
वैशम्पाय़न उवाच:
ततो गत्वा केशवस्तं ददर्श; रामं वने स्थितमेकं विविक्ते ||
११ ख
वैशम्पाय़न उवाच:
अथापश्यद्योगय़ुक्तस्य तस्य; नागं मुखान्निःसरन्तं महान्तम् |
१२ क
वैशम्पाय़न उवाच:
श्वेतं यय़ौ स ततः प्रेक्ष्यमाणो; महार्णवो येन महानुभावः ||
१२ ख
वैशम्पाय़न उवाच:
सहस्रशीर्षः पर्वताभोगवर्ष्मा; रक्ताननः स्वां तनुं तां विमुच्य |
१३ क
वैशम्पाय़न उवाच:
सम्यक्च तं सागरः प्रत्यगृह्णा; न्नागा दिव्याः सरितश्चैव पुण्याः ||
१३ ख
वैशम्पाय़न उवाच:
कर्कोटको वासुकिस्तक्षकश्च; पृथुश्रवा वरुणः कुञ्जरश्च |
१४ क
वैशम्पाय़न उवाच:
मिश्री शङ्खः कुमुदः पुण्डरीक; स्तथा नागो धृतराष्ट्रो महात्मा ||
१४ ख
वैशम्पाय़न उवाच:
ह्रादः क्राथः शितिकण्ठोऽग्रतेजा; स्तथा नागौ चक्रमन्दातिषण्डौ |
१५ क
वैशम्पाय़न उवाच:
नागश्रेष्ठो दुर्मुखश्चाम्वरीषः; स्वय़ं राजा वरुणश्चापि राजन् |
१५ ख
वैशम्पाय़न उवाच:
प्रत्युद्गम्य स्वागतेनाभ्यनन्दं; स्तेऽपूजय़ंश्चार्घ्यपाद्यक्रिय़ाभिः ||
१५ ग
वैशम्पाय़न उवाच:
ततो गते भ्रातरि वासुदेवो; जानन्सर्वा गतय़ो दिव्यदृष्टिः |
१६ क
वैशम्पाय़न उवाच:
वने शून्ये विचरंश्चिन्तय़ानो; भूमौ ततः संविवेशाग्र्यतेजाः ||
१६ ख
वैशम्पाय़न उवाच:
सर्वं हि तेन प्राक्तदा वित्तमासी; द्गान्धार्या यद्वाक्यमुक्तः स पूर्वम् |
१७ क
वैशम्पाय़न उवाच:
दुर्वाससा पाय़सोच्छिष्टलिप्ते; यच्चाप्युक्तं तच्च सस्मार कृष्णः ||
१७ ख
वैशम्पाय़न उवाच:
स चिन्तय़ानोऽन्धकवृष्णिनाशं; कुरुक्षय़ं चैव महानुभावः |
१८ क
वैशम्पाय़न उवाच:
मेने ततः सङ्क्रमणस्य कालं; ततश्चकारेन्द्रिय़संनिरोधम् ||
१८ ख
वैशम्पाय़न उवाच:
स संनिरुद्धेन्द्रिय़वाङ्मनास्तु; शिश्ये महाय़ोगमुपेत्य कृष्णः |
१९ क
वैशम्पाय़न उवाच:
जराथ तं देशमुपाजगाम; लुव्धस्तदानीं मृगलिप्सुरुग्रः ||
१९ ख
वैशम्पाय़न उवाच:
स केशवं योगय़ुक्तं शय़ानं; मृगाशङ्की लुव्धकः साय़केन |
२० क
वैशम्पाय़न उवाच:
जराविध्यत्पादतले त्वरावां; स्तं चाभितस्तज्जिघृक्षुर्जगाम |
२० ख
वैशम्पाय़न उवाच:
अथापश्यत्पुरुषं योगय़ुक्तं; पीताम्वरं लुव्धकोऽनेकवाहुम् ||
२० ग
वैशम्पाय़न उवाच:
मत्वात्मानमपराद्धं स तस्य; जग्राह पादौ शिरसा चार्तरूपः |
२१ क
वैशम्पाय़न उवाच:
आश्वासय़त्तं महात्मा तदानीं; गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या ||
२१ ख
वैशम्पाय़न उवाच:
दिवं प्राप्तं वासवोऽथाश्विनौ च; रुद्रादित्या वसवश्चाथ विश्वे |
२२ क
वैशम्पाय़न उवाच:
प्रत्युद्ययुर्मुनय़श्चापि सिद्धा; गन्धर्वमुख्याश्च सहाप्सरोभिः ||
२२ ख
वैशम्पाय़न उवाच:
ततो राजन्भगवानुग्रतेजा; नाराय़णः प्रभवश्चाव्ययश्च |
२३ क
वैशम्पाय़न उवाच:
योगाचार्यो रोदसी व्याप्य लक्ष्म्या; स्थानं प्राप स्वं महात्माप्रमेय़म् ||
२३ ख
वैशम्पाय़न उवाच:
ततो देवैरृषिभिश्चापि कृष्णः; समागतश्चारणैश्चैव राजन् |
२४ क
वैशम्पाय़न उवाच:
गन्धर्वाग्र्यैरप्सरोभिर्वराभिः; सिद्धैः साध्यैश्चानतैः पूज्यमानः ||
२४ ख
वैशम्पाय़न उवाच:
ते वै देवाः प्रत्यनन्दन्त राज; न्मुनिश्रेष्ठा वाग्भिरानर्चुरीशम् |
२५ क
वैशम्पाय़न उवाच:
गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः; प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् ||
२५ ख