वैशम्पाय़न उवाच:
वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्विकेय़ः |
१ क
वैशम्पाय़न उवाच:
धर्मात्मानं विदुरमगाधवुद्धिं; सुखासीनो वाक्यमुवाच राजा ||
१ ख
वैशम्पाय़न उवाच:
प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम् |
२ क
वैशम्पाय़न उवाच:
समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव व्रवीहि ||
२ ख
वैशम्पाय़न उवाच:
एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन् |
३ क
वैशम्पाय़न उवाच:
ते चाप्यस्मान्नोद्धरेय़ुः समूला; न्न कामय़े तांश्च विनश्यमानान् ||
३ ख
विदुर उवाच:
त्रिवर्गोऽय़ं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति |
४ क
विदुर उवाच:
धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ||
४ ख
विदुर उवाच:
स वै धर्मो विप्रलुप्तः सभाय़ां; पापात्मभिः सौवलेय़प्रधानैः |
५ क
विदुर उवाच:
आहूय़ कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसन्धं सुतस्ते ||
५ ख
विदुर उवाच:
एतस्य ते दुष्प्रणीतस्य राज; ञ्शेषस्याहं परिपश्याम्युपाय़म् |
६ क
विदुर उवाच:
यथा पुत्रस्तव कौरव्य पापा; न्मुक्तो लोके प्रतितिष्ठेत साधु ||
६ ख
विदुर उवाच:
तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वय़ासीत् |
७ क
विदुर उवाच:
एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत् ||
७ ख
विदुर उवाच:
एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः |
८ क
विदुर उवाच:
एवं शेषं यदि पुत्रेषु ते स्या; देतद्राजंस्त्वरमाणः कुरुष्व ||
८ ख
विदुर उवाच:
अथैतदेवं न करोषि राज; न्ध्रुवं कुरूणां भविता विनाशः |
९ क
विदुर उवाच:
न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके ||
९ ख
विदुर उवाच:
येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम् |
१० क
विदुर उवाच:
येषां भीमो वाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति ||
१० ख
विदुर उवाच:
उक्तं पूर्वं जातमात्रे सुते ते; मय़ा यत्ते हितमासीत्तदानीम् |
११ क
विदुर उवाच:
पुत्रं त्यजेममहितं कुलस्ये; त्येतद्राजन्न च तत्त्वं चकर्थ |
११ ख
विदुर उवाच:
इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात् ||
११ ग
विदुर उवाच:
यद्येतदेवमनुमन्ता सुतस्ते; सम्प्रीय़माणः पाण्डवैरेकराज्यम् |
१२ क
विदुर उवाच:
तापो न ते वै भविता प्रीतिय़ोगा; त्त्वं चेन्न गृह्णासि सुतं सहाय़ैः |
१२ ख
विदुर उवाच:
अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ||
१२ ग
विदुर उवाच:
अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन् |
१३ क
विदुर उवाच:
ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः ||
१३ ख
विदुर उवाच:
दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् |
१४ क
विदुर उवाच:
दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च ||
१४ ख
विदुर उवाच:
युधिष्ठिरं त्वं परिसान्त्वय़स्व; राज्ये चैनं स्थापय़स्वाभिपूज्य |
१५ क
विदुर उवाच:
त्वय़ा पृष्टः किमहमन्यद्वदेय़; मेतत्कृत्वा कृतकृत्योऽसि राजन् ||
१५ ख
धृतराष्ट्र उवाच:
एतद्वाक्यं विदुर यत्ते सभाय़ा; मिह प्रोक्तं पाण्डवान्प्राप्य मां च |
१६ क
धृतराष्ट्र उवाच:
हितं तेषामहितं मामकाना; मेतत्सर्वं मम नोपैति चेतः ||
१६ ख
धृतराष्ट्र उवाच:
इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ |
१७ क
धृतराष्ट्र उवाच:
तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेय़म् ||
१७ ख
धृतराष्ट्र उवाच:
असंशय़ं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः |
१८ क
धृतराष्ट्र उवाच:
स्वं वै देहं परहेतोस्त्यजेति; को नु व्रूय़ात्समतामन्ववेक्षन् ||
१८ ख
धृतराष्ट्र उवाच:
स मा जिह्मं विदुर सर्वं व्रवीषि; मानं च तेऽहमधिकं धारय़ामि |
१९ क
धृतराष्ट्र उवाच:
यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति ||
१९ ख
वैशम्पाय़न उवाच:
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य; दन्तर्वेश्म सहसोत्थाय़ राजन् |
२० क
वैशम्पाय़न उवाच:
नेदमस्तीत्यथ विदुरो भाषमाणः; सम्प्राद्रवद्यत्र पार्था वभूवुः ||
२० ख