वासुदेव उवाच:
उपपन्नमिदं वाक्यं सोमकानां धुरन्धरे |
१ क
वासुदेव उवाच:
अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः ||
१ ख
वासुदेव उवाच:
एतच्च पूर्वकार्यं नः सुनीतमभिकाङ्क्षताम् |
२ क
वासुदेव उवाच:
अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुवालिशः ||
२ ख
वासुदेव उवाच:
किं तु सम्वन्धकं तुल्यमस्माकं कुरुपाण्डुषु |
३ क
वासुदेव उवाच:
यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च ||
३ ख
वासुदेव उवाच:
ते विवाहार्थमानीता वय़ं सर्वे यथा भवान् |
४ क
वासुदेव उवाच:
कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति ||
४ ख
वासुदेव उवाच:
भवान्वृद्धतमो राज्ञां वय़सा च श्रुतेन च |
५ क
वासुदेव उवाच:
शिष्यवत्ते वय़ं सर्वे भवामेह न संशय़ः ||
५ ख
वासुदेव उवाच:
भवन्तं धृतराष्ट्रश्च सततं वहु मन्यते |
६ क
वासुदेव उवाच:
आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च ||
६ ख
वासुदेव उवाच:
स भवान्प्रेषय़त्वद्य पाण्डवार्थकरं वचः |
७ क
वासुदेव उवाच:
सर्वेषां निश्चितं तन्नः प्रेषय़िष्यति यद्भवान् ||
७ ख
वासुदेव उवाच:
यदि तावच्छमं कुर्यान्न्याय़ेन कुरुपुङ्गवः |
८ क
वासुदेव उवाच:
न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षय़ः ||
८ ख
वासुदेव उवाच:
अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः |
९ क
वासुदेव उवाच:
अन्येषां प्रेषय़ित्वा च पश्चादस्मान्समाह्वय़ेः ||
९ ख
वासुदेव उवाच:
ततो दुर्योधनो मन्दः सहामात्यः सवान्धवः |
१० क
वासुदेव उवाच:
निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि ||
१० ख
वैशम्पाय़न उवाच:
ततः सत्कृत्य वार्ष्णेय़ं विराटः पृथिवीपतिः |
११ क
वैशम्पाय़न उवाच:
गृहान्प्रस्थापय़ामास सगणं सहवान्धवम् ||
११ ख
वैशम्पाय़न उवाच:
द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः |
१२ क
वैशम्पाय़न उवाच:
चक्रुः साङ्ग्रामिकं सर्वं विराटश्च महीपतिः ||
१२ ख
वैशम्पाय़न उवाच:
ततः सम्प्रेषय़ामास विराटः सह वान्धवैः |
१३ क
वैशम्पाय़न उवाच:
सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः ||
१३ ख
वैशम्पाय़न उवाच:
वचनात्कुरुसिंहानां मत्स्यपाञ्चालय़ोश्च ते |
१४ क
वैशम्पाय़न उवाच:
समाजग्मुर्महीपालाः सम्प्रहृष्टा महावलाः ||
१४ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्वलम् |
१५ क
वैशम्पाय़न उवाच:
धृतराष्ट्रसुतश्चापि समानिन्ये महीपतीन् ||
१५ ख
वैशम्पाय़न उवाच:
समाकुला मही राजन्कुरुपाण्डवकारणात् |
१६ क
वैशम्पाय़न उवाच:
तदा समभवत्कृत्स्ना सम्प्रय़ाणे महीक्षिताम् ||
१६ ख
वैशम्पाय़न उवाच:
वलानि तेषां वीराणामागच्छन्ति ततस्ततः |
१७ क
वैशम्पाय़न उवाच:
चालय़न्तीव गां देवीं सपर्वतवनामिमाम् ||
१७ ख
वैशम्पाय़न उवाच:
ततः प्रज्ञावय़ोवृद्धं पाञ्चाल्यः स्वपुरोहितम् |
१८ क
वैशम्पाय़न उवाच:
कुरुभ्यः प्रेषय़ामास युधिष्ठिरमते तदा ||
१८ ख