chevron_left द्रोण पर्व अध्याय ५
सञ्जय़ उवाच:
रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् |
१ क
सञ्जय़ उवाच:
हृष्टो दुर्योधनो राजन्निदं वचनमव्रवीत् ||
१ ख
सञ्जय़ उवाच:
सनाथमिदमत्यर्थं भवता पालितं वलम् |
२ क
सञ्जय़ उवाच:
मन्ये किं तु समर्थं यद्धितं तत्सम्प्रधार्यताम् ||
२ ख
कर्ण उवाच:
व्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप |
३ क
कर्ण उवाच:
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः ||
३ ख
कर्ण उवाच:
ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर |
४ क
कर्ण उवाच:
नान्याय़्यं हि भवान्वाक्यं व्रूय़ादिति मतिर्मम ||
४ ख
दुर्योधन उवाच:
भीष्मः सेनाप्रणेतासीद्वय़सा विक्रमेण च |
५ क
दुर्योधन उवाच:
श्रुतेन च सुसम्पन्नः सर्वैर्योधगुणैस्तथा ||
५ ख
दुर्योधन उवाच:
तेनातिय़शसा कर्ण घ्नता शत्रुगणान्मम |
६ क
दुर्योधन उवाच:
सुय़ुद्धेन दशाहानि पालिताः स्मो महात्मना ||
६ ख
दुर्योधन उवाच:
तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् |
७ क
दुर्योधन उवाच:
कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् ||
७ ख
दुर्योधन उवाच:
न ऋते नाय़कं सेना मुहूर्तमपि तिष्ठति |
८ क
दुर्योधन उवाच:
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ||
८ ख
दुर्योधन उवाच:
यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा |
९ क
दुर्योधन उवाच:
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं वलम् ||
९ ख
दुर्योधन उवाच:
स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु |
१० क
दुर्योधन उवाच:
पश्य सेनापतिं युक्तमनु शान्तनवादिह ||
१० ख
दुर्योधन उवाच:
यं हि सेनाप्रणेतारं भवान्वक्ष्यति संय़ुगे |
११ क
दुर्योधन उवाच:
तं वय़ं सहिताः सर्वे प्रकरिष्याम मारिष ||
११ ख
कर्ण उवाच:
सर्व एव महात्मान इमे पुरुषसत्तमाः |
१२ क
कर्ण उवाच:
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा ||
१२ ख
कर्ण उवाच:
कुलसंहननज्ञानैर्वलविक्रमवुद्धिभिः |
१३ क
कर्ण उवाच:
युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः ||
१३ ख
कर्ण उवाच:
युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः |
१४ क
कर्ण उवाच:
एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः ||
१४ ख
कर्ण उवाच:
अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि |
१५ क
कर्ण उवाच:
शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत ||
१५ ख
कर्ण उवाच:
अय़ं तु सर्वय़ोधानामाचार्यः स्थविरो गुरुः |
१६ क
कर्ण उवाच:
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः ||
१६ ख
कर्ण उवाच:
को हि तिष्ठति दुर्धर्षे द्रोणे व्रह्मविदुत्तमे |
१७ क
कर्ण उवाच:
सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात् ||
१७ ख
कर्ण उवाच:
न च स ह्यस्ति ते योधः सर्वराजसु भारत |
१८ क
कर्ण उवाच:
यो द्रोणं समरे यान्तं नानुय़ास्यति संय़ुगे ||
१८ ख
कर्ण उवाच:
एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि |
१९ क
कर्ण उवाच:
एष वुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते ||
१९ ख
कर्ण उवाच:
एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु |
२० क
कर्ण उवाच:
जिगीषन्तोऽसुरान्सङ्ख्ये कार्त्तिकेय़मिवामराः ||
२० ख
सञ्जय़ उवाच:
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा |
२१ क
सञ्जय़ उवाच:
सेनामध्यगतं द्रोणमिदं वचनमव्रवीत् ||
२१ ख
सञ्जय़ उवाच:
वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वय़सा धिय़ा |
२२ क
सञ्जय़ उवाच:
वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नय़ाज्जय़ात् ||
२२ ख
सञ्जय़ उवाच:
तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि |
२३ क
सञ्जय़ उवाच:
युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते ||
२३ ख
सञ्जय़ उवाच:
स भवान्पातु नः सर्वान्विवुधानिव वासवः |
२४ क
सञ्जय़ उवाच:
भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम ||
२४ ख
सञ्जय़ उवाच:
रुद्राणामिव कापाली वसूनामिव पावकः |
२५ क
सञ्जय़ उवाच:
कुवेर इव यक्षाणां मरुतामिव वासवः ||
२५ ख
सञ्जय़ उवाच:
वसिष्ठ इव विप्राणां तेजसामिव भास्करः |
२६ क
सञ्जय़ उवाच:
पितॄणामिव धर्मोऽथ आदित्यानामिवाम्वुराट् ||
२६ ख
सञ्जय़ उवाच:
नक्षत्राणामिव शशी दितिजानामिवोशनाः |
२७ क
सञ्जय़ उवाच:
श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव ||
२७ ख
सञ्जय़ उवाच:
अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ |
२८ क
सञ्जय़ उवाच:
ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव ||
२८ ख
सञ्जय़ उवाच:
प्रय़ातु नो भवानग्रे देवानामिव पावकिः |
२९ क
सञ्जय़ उवाच:
अनुय़ास्यामहे त्वाजौ सौरभेय़ा इवर्षभम् ||
२९ ख
सञ्जय़ उवाच:
उग्रधन्वा महेष्वासो दिव्यं विस्फारय़न्धनुः |
३० क
सञ्जय़ उवाच:
अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते ||
३० ख
सञ्जय़ उवाच:
ध्रुवं युधिष्ठिरं सङ्ख्ये सानुवन्धं सवान्धवम् |
३१ क
सञ्जय़ उवाच:
जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि ||
३१ ख
सञ्जय़ उवाच:
एवमुक्ते ततो द्रोणे जय़ेत्यूचुर्नराधिपाः |
३२ क
सञ्जय़ उवाच:
सिंहनादेन महता हर्षय़न्तस्तवात्मजम् ||
३२ ख
सञ्जय़ उवाच:
सैनिकाश्च मुदा युक्ता वर्धय़न्ति द्विजोत्तमम् |
३३ क
सञ्जय़ उवाच:
दुर्योधनं पुरस्कृत्य प्रार्थय़न्तो महद्यशः ||
३३ ख
द्रोण उवाच:
वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् |
३४ क
द्रोण उवाच:
त्रैय़म्वकमथेष्वस्त्रमस्त्राणि विविधानि च ||
३४ ख
द्रोण उवाच:
ये चाप्युक्ता मय़ि गुणा भवद्भिर्जय़काङ्क्षिभिः |
३५ क
द्रोण उवाच:
चिकीर्षुस्तानहं सत्यान्योधय़िष्यामि पाण्डवान् ||
३५ ख
सञ्जय़ उवाच:
स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः |
३६ क
सञ्जय़ उवाच:
द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा ||
३६ ख
सञ्जय़ उवाच:
अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः |
३७ क
सञ्जय़ उवाच:
सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः ||
३७ ख
सञ्जय़ उवाच:
ततो वादित्रघोषेण सह पुंसां महास्वनैः |
३८ क
सञ्जय़ उवाच:
प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा ||
३८ ख
सञ्जय़ उवाच:
ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च |
३९ क
सञ्जय़ उवाच:
संस्तवैर्गीतशव्दैश्च सूतमागधवन्दिनाम् ||
३९ ख
सञ्जय़ उवाच:
जय़शव्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा |
४० क
सञ्जय़ उवाच:
सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान् ||
४० ख