सञ्जय़ उवाच:
निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ||
४७ ग
सञ्जय़ उवाच:
छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च |
४८ क
सञ्जय़ उवाच:
परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः ||
४८ ख
सञ्जय़ उवाच:
ग्रैवेय़ाण्यथ शक्तीश्च पताकाः कणपांस्तथा |
४९ क
सञ्जय़ उवाच:
तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च ||
४९ ख
सञ्जय़ उवाच:
अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह |
५० क
सञ्जय़ उवाच:
घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि |
५० ख
सञ्जय़ उवाच:
पततः पतितांश्चैव पश्यामः सह सादिभिः ||
५० ग
सञ्जय़ उवाच:
छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः |
५१ क
सञ्जय़ उवाच:
आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव ||
५१ ख
सञ्जय़ उवाच:
विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः |
५२ क
सञ्जय़ उवाच:
अश्वारोहवरांश्चापि पातय़ामास भारत |
५२ ख
सञ्जय़ उवाच:
तद्घोरमभवद्युद्धं तस्य तेषां च भारत ||
५२ ग
सञ्जय़ उवाच:
खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः |
५३ क
सञ्जय़ उवाच:
परिस्तोमाश्च प्रासाश्च ऋष्टय़श्च महाधनाः ||
५३ ख
सञ्जय़ उवाच:
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च |
५४ क
सञ्जय़ उवाच:
तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ||
५४ ख
सञ्जय़ उवाच:
प्रोथय़न्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा |
५५ क
सञ्जय़ उवाच:
स चक्रे वसुधां कीर्णां शवलैः कुसुमैरिव ||
५५ ख
सञ्जय़ उवाच:
आप्लुत्य रथिनः कांश्चित्परामृश्य महावलः |
५६ क
सञ्जय़ उवाच:
पातय़ामास खड्गेन सध्वजानपि पाण्डवः ||
५६ ख
सञ्जय़ उवाच:
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः |
५७ क
सञ्जय़ उवाच:
मार्गांश्च चरतश्चित्रान्व्यस्मय़न्त रणे जनाः ||
५७ ख
सञ्जय़ उवाच:
निजघान पदा कांश्चिदाक्षिप्यान्यानपोथय़त् |
५८ क
सञ्जय़ उवाच:
खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषय़न् ||
५८ ख
सञ्जय़ उवाच:
ऊरुवेगेन चाप्यन्यान्पातय़ामास भूतले |
५९ क
सञ्जय़ उवाच:
अपरे चैनमालोक्य भय़ात्पञ्चत्वमागताः ||
५९ ख
सञ्जय़ उवाच:
एवं सा वहुला सेना कलिङ्गानां तरस्विनाम् |
६० क
सञ्जय़ उवाच:
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ||
६० ख
सञ्जय़ उवाच:
ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ |
६१ क
सञ्जय़ उवाच:
श्रुताय़ुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ||
६१ ख
सञ्जय़ उवाच:
तमाय़ान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः |
६२ क
सञ्जय़ उवाच:
भीमसेनममेय़ात्मा प्रत्यविध्यत्स्तनान्तरे ||
६२ ख
सञ्जय़ उवाच:
कलिङ्गवाणाभिहतस्तोत्त्रार्दित इव द्विपः |
६३ क
सञ्जय़ उवाच:
भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः ||
६३ ख
सञ्जय़ उवाच:
अथाशोकः समादाय़ रथं हेमपरिष्कृतम् |
६४ क
सञ्जय़ उवाच:
भीमं सम्पादय़ामास रथेन रथसारथिः ||
६४ ख
सञ्जय़ उवाच:
तमारुह्य रथं तूर्णं कौन्तेय़ः शत्रुसूदनः |
६५ क
सञ्जय़ उवाच:
कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाव्रवीत् ||
६५ ख
सञ्जय़ उवाच:
ततः श्रुताय़ुर्वलवान्भीमाय़ निशिताञ्शरान् |
६६ क
सञ्जय़ उवाच:
प्रेषय़ामास सङ्क्रुद्धो दर्शय़न्पाणिलाघवम् ||
६६ ख
सञ्जय़ उवाच:
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः |
६७ क
सञ्जय़ उवाच:
समाहतो भृशं राजन्कलिङ्गेन महाय़शाः |
६७ ख
सञ्जय़ उवाच:
सञ्चुक्रुधे भृशं भीमो दण्डाहत इवोरगः ||
६७ ग
सञ्जय़ उवाच:
क्रुद्धश्च चापमाय़म्य वलवद्वलिनां वरः |
६८ क
सञ्जय़ उवाच:
कलिङ्गमवधीत्पार्थो भीमः सप्तभिराय़सैः ||
६८ ख
सञ्जय़ उवाच:
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महावलौ |
६९ क
सञ्जय़ उवाच:
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ||
६९ ख
सञ्जय़ उवाच:
ततः पुनरमेय़ात्मा नाराचैर्निशितैस्त्रिभिः |
७० क
सञ्जय़ उवाच:
केतुमन्तं रणे भीमोऽगमय़द्यमसादनम् ||
७० ख
सञ्जय़ उवाच:
ततः कलिङ्गाः सङ्क्रुद्धा भीमसेनममर्षणम् |
७१ क
सञ्जय़ उवाच:
अनीकैर्वहुसाहस्रैः क्षत्रिय़ाः समवारय़न् ||
७१ ख
सञ्जय़ उवाच:
ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः |
७२ क
सञ्जय़ उवाच:
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ||
७२ ख
सञ्जय़ उवाच:
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् |
७३ क
सञ्जय़ उवाच:
गदामादाय़ तरसा परिप्लुत्य महावलः |
७३ ख
सञ्जय़ उवाच:
भीमः सप्तशतान्वीराननय़द्यमसादनम् ||
७३ ग
सञ्जय़ उवाच:
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः |
७४ क
सञ्जय़ उवाच:
प्राहिणोन्मृत्युलोकाय़ तदद्भुतमिवाभवत् ||
७४ ख
सञ्जय़ उवाच:
एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः |
७५ क
सञ्जय़ उवाच:
विभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् ||
७५ ख
सञ्जय़ उवाच:
हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना |
७६ क
सञ्जय़ उवाच:
विप्रजग्मुरनीकेषु मेघा वातहता इव |
७६ ख
सञ्जय़ उवाच:
मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ||
७६ ग
सञ्जय़ उवाच:
ततो भीमो महावाहुः शङ्खं प्राध्मापय़द्वली |
७७ क
सञ्जय़ उवाच:
सर्वकालिङ्गसैन्यानां मनांसि समकम्पय़त् ||
७७ ख
सञ्जय़ उवाच:
मोहश्चापि कलिङ्गानामाविवेश परन्तप |
७८ क
सञ्जय़ उवाच:
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ||
७८ ख
सञ्जय़ उवाच:
भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः |
७९ क
सञ्जय़ उवाच:
मार्गान्वहून्विचरता धावता च ततस्ततः |
७९ ख
सञ्जय़ उवाच:
मुहुरुत्पतता चैव संमोहः समजाय़त ||
७९ ग
सञ्जय़ उवाच:
भीमसेनभय़त्रस्तं सैन्यं च समकम्पत |
८० क
सञ्जय़ उवाच:
क्षोभ्यमाणमसम्वाधं ग्राहेणेव महत्सरः ||
८० ख
सञ्जय़ उवाच:
त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा |
८१ क
सञ्जय़ उवाच:
पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ||
८१ ख
सञ्जय़ उवाच:
सर्वकालिङ्गय़ोधेषु पाण्डूनां ध्वजिनीपतिः |
८२ क
सञ्जय़ उवाच:
अव्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ||
८२ ख
सञ्जय़ उवाच:
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः |
८३ क
सञ्जय़ उवाच:
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ||
८३ ख
सञ्जय़ उवाच:
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः |
८४ क
सञ्जय़ उवाच:
महता मेघवर्णेन नागानीकेन पृष्ठतः ||
८४ ख
सञ्जय़ उवाच:
एवं सञ्चोद्य सर्वाणि स्वान्यनीकानि पार्षतः |
८५ क
सञ्जय़ उवाच:
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ||
८५ ख
सञ्जय़ उवाच:
न हि पाञ्चालराजस्य लोके कश्चन विद्यते |
८६ क
सञ्जय़ उवाच:
भीमसात्यकय़ोरन्यः प्राणेभ्यः प्रिय़कृत्तमः ||
८६ ख
सञ्जय़ उवाच:
सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् |
८७ क
सञ्जय़ उवाच:
भीमसेनं महावाहुं पार्षतः परवीरहा ||
८७ ख
सञ्जय़ उवाच:
ननर्द वहुधा राजन्हृष्टश्चासीत्परन्तपः |
८८ क
सञ्जय़ उवाच:
शङ्खं दध्मौ च समरे सिंहनादं ननाद च ||
८८ ख
सञ्जय़ उवाच:
स च पारावताश्वस्य रथे हेमपरिष्कृते |
८९ क
सञ्जय़ उवाच:
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ||
८९ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् |
९० क
सञ्जय़ उवाच:
भीमसेनममेय़ात्मा त्राणाय़ाजौ समभ्ययात् ||
९० ख
सञ्जय़ उवाच:
तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ |
९१ क
सञ्जय़ उवाच:
कलिङ्गान्समरे वीरौ योधय़न्तौ मनस्विनौ ||
९१ ख
सञ्जय़ उवाच:
स तत्र गत्वा शैनेय़ो जवेन जय़तां वरः |
९२ क
सञ्जय़ उवाच:
पार्थपार्षतय़ोः पार्ष्णिं जग्राह पुरुषर्षभः ||
९२ ख
सञ्जय़ उवाच:
स कृत्वा कदनं तत्र प्रगृहीतशरासनः |
९३ क
सञ्जय़ उवाच:
आस्थितो रौद्रमात्मानं जघान समरे परान् ||
९३ ख
सञ्जय़ उवाच:
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् |
९४ क