chevron_left कर्ण पर्व अध्याय ५०
सञ्जय़ उवाच:
विनाशमरिसैन्यानां कर्णस्य च वधं तथा ||
४६ ख
सञ्जय़ उवाच:
प्रय़ातस्याथ पार्थस्य महान्स्वेदो व्यजाय़त |
४७ क
सञ्जय़ उवाच:
चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति ||
४७ ख
सञ्जय़ उवाच:
ततो गाण्डीवधन्वानमव्रवीन्मधुसूदनः |
४८ क
सञ्जय़ उवाच:
दृष्ट्वा पार्थं तदाय़स्तं चिन्तापरिगतं तदा ||
४८ ख
सञ्जय़ उवाच:
गाण्डीवधन्वन्सङ्ग्रामे ये त्वय़ा धनुषा जिताः |
४९ क
सञ्जय़ उवाच:
न तेषां मानुषो जेता त्वदन्य इह विद्यते ||
४९ ख
सञ्जय़ उवाच:
दृष्टा हि वहवः शूराः शक्रतुल्यपराक्रमाः |
५० क
सञ्जय़ उवाच:
त्वां प्राप्य समरे वीरं ये गताः परमां गतिम् ||
५० ख
सञ्जय़ उवाच:
को हि द्रोणं च भीष्मं च भगदत्तं च मारिष |
५१ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ काम्वोजं च सुदक्षिणम् ||
५१ ख
सञ्जय़ उवाच:
श्रुताय़ुषं महावीर्यमच्युताय़ुषमेव च |
५२ क
सञ्जय़ उवाच:
प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी ||
५२ ख
सञ्जय़ उवाच:
तव ह्यस्त्राणि दिव्यानि लाघवं वलमेव च |
५३ क
सञ्जय़ उवाच:
वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन |
५३ ख
सञ्जय़ उवाच:
असंमोहश्च युद्धेषु विज्ञानस्य च संनतिः ||
५३ ग
सञ्जय़ उवाच:
भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान् |
५४ क
सञ्जय़ उवाच:
पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान् ||
५४ ख
सञ्जय़ उवाच:
धनुर्ग्रहा हि ये केचित्क्षत्रिय़ा युद्धदुर्मदाः |
५५ क
सञ्जय़ उवाच:
आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा ||
५५ ख
सञ्जय़ उवाच:
व्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम् |
५६ क
सञ्जय़ उवाच:
येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वय़ा समः ||
५६ ख
सञ्जय़ उवाच:
अवश्यं तु मय़ा वाच्यं यत्पथ्यं तव पाण्डव |
५७ क
सञ्जय़ उवाच:
मावमंस्था महावाहो कर्णमाहवशोभिनम् ||
५७ ख
सञ्जय़ उवाच:
कर्णो हि वलवान्धृष्टः कृतास्त्रश्च महारथः |
५८ क
सञ्जय़ उवाच:
कृती च चित्रय़ोधी च देशे काले च कोविदः ||
५८ ख
सञ्जय़ उवाच:
तेजसा वह्निसदृशो वाय़ुवेगसमो जवे |
५९ क
सञ्जय़ उवाच:
अन्तकप्रतिमः क्रोधे सिंहसंहननो वली ||
५९ ख
सञ्जय़ उवाच:
अय़ोरत्निर्महावाहुर्व्यूढोरस्कः सुदुर्जय़ः |
६० क
सञ्जय़ उवाच:
अतिमानी च शूरश्च प्रवीरः प्रिय़दर्शनः ||
६० ख
सञ्जय़ उवाच:
सर्वैर्योधगुणैर्युक्तो मित्राणामभय़ङ्करः |
६१ क
सञ्जय़ उवाच:
सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः ||
६१ ख
सञ्जय़ उवाच:
सर्वैरवध्यो राधेय़ो देवैरपि सवासवैः |
६२ क
सञ्जय़ उवाच:
ऋते त्वामिति मे वुद्धिस्त्वमद्य जहि सूतजम् ||
६२ ख
सञ्जय़ उवाच:
देवैरपि हि संय़त्तैर्विभ्रद्भिर्मांसशोणितम् |
६३ क
सञ्जय़ उवाच:
अशक्यः समरे जेतुं सर्वैरपि युय़ुत्सुभिः ||
६३ ख
सञ्जय़ उवाच:
दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेय़ेषु नित्यम् |
६४ क
सञ्जय़ उवाच:
हीनस्वार्थं पाण्डवेय़ैर्विरोधे; हत्वा कर्णं धिष्ठितार्थो भवाद्य ||
६४ ख
सञ्जय़ उवाच:
वीरं मन्यत आत्मानं येन पापः सुय़ोधनः |
६५ क
सञ्जय़ उवाच:
तमद्य मूलं पापानां जय़ सौतिं धनञ्जय़ ||
६५ ख