आस्तीक उवाच:
सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रय़ागे |
१ क
आस्तीक उवाच:
तथा यज्ञोऽय़ं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रिय़ेभ्यः ||
१ ख
आस्तीक उवाच:
शक्रस्य यज्ञः शतसङ्ख्य उक्त; स्तथापरस्तुल्यसङ्ख्यः शतं वै |
२ क
आस्तीक उवाच:
तथा यज्ञोऽय़ं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रिय़ेभ्यः ||
२ ख
आस्तीक उवाच:
यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः |
३ क
आस्तीक उवाच:
तथा यज्ञोऽय़ं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रिय़ेभ्यः ||
३ ख
आस्तीक उवाच:
गय़स्य यज्ञः शशविन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः |
४ क
आस्तीक उवाच:
तथा यज्ञोऽय़ं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रिय़ेभ्यः ||
४ ख
आस्तीक उवाच:
नृगस्य यज्ञस्त्वजमीढस्य चासी; द्यथा यज्ञो दाशरथेश्च राज्ञः |
५ क
आस्तीक उवाच:
तथा यज्ञोऽय़ं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रिय़ेभ्यः ||
५ ख
आस्तीक उवाच:
यज्ञः श्रुतो नो दिवि देवसूनो; र्युधिष्ठिरस्याजमीढस्य राज्ञः |
६ क
आस्तीक उवाच:
तथा यज्ञोऽय़ं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रिय़ेभ्यः ||
६ ख
आस्तीक उवाच:
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वय़ं च कर्म प्रचकार यत्र |
७ क
आस्तीक उवाच:
तथा यज्ञोऽय़ं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रिय़ेभ्यः ||
७ ख
आस्तीक उवाच:
इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा |
८ क
आस्तीक उवाच:
नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथञ्चित् ||
८ ख
आस्तीक उवाच:
ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपाय़नेनेति विनिश्चितं मे |
९ क
आस्तीक उवाच:
एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ||
९ ख
आस्तीक उवाच:
विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा |
१० क
आस्तीक उवाच:
प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः ||
१० ख
आस्तीक उवाच:
नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालय़िता प्रजानाम् |
११ क
आस्तीक उवाच:
धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा ||
११ ख
आस्तीक उवाच:
शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् |
१२ क
आस्तीक उवाच:
मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे ||
१२ ख
आस्तीक उवाच:
खट्वाङ्गनाभागदिलीपकल्पो; यय़ातिमान्धातृसमप्रभावः |
१३ क
आस्तीक उवाच:
आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम् ||
१३ ख
आस्तीक उवाच:
वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते निय़तश्च कोपः |
१४ क
आस्तीक उवाच:
प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नाराय़णवद्विभाति ||
१४ ख
आस्तीक उवाच:
यमो यथा धर्मविनिश्चय़ज्ञः; कृष्णो यथा सर्वगुणोपपन्नः |
१५ क
आस्तीक उवाच:
श्रिय़ां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम् ||
१५ ख
आस्तीक उवाच:
दम्भोद्भवेनासि समो वलेन; रामो यथा शस्त्रविदस्त्रविच्च |
१६ क
आस्तीक उवाच:
और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीय़ोऽसि भगीरथो वा ||
१६ ख
सूत उवाच:
एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः |
१७ क
सूत उवाच:
तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजय़ोऽथ ||
१७ ख