chevron_left शान्ति पर्व अध्याय ५०
वैशम्पाय़न उवाच:
ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
विस्मय़ं परमं गत्वा प्रत्युवाच जनार्दनम् ||
१ ख
वैशम्पाय़न उवाच:
अहो रामस्य वार्ष्णेय़ शक्रस्येव महात्मनः |
२ क
वैशम्पाय़न उवाच:
विक्रमो येन वसुधा क्रोधान्निःक्षत्रिय़ा कृता ||
२ ख
वैशम्पाय़न उवाच:
गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः |
३ क
वैशम्पाय़न उवाच:
गुप्ता रामभय़ोद्विग्नाः क्षत्रिय़ाणां कुलोद्वहाः ||
३ ख
वैशम्पाय़न उवाच:
अहो धन्यो हि लोकोऽय़ं सभाग्याश्च नरा भुवि |
४ क
वैशम्पाय़न उवाच:
यत्र कर्मेदृशं धर्म्यं द्विजेन कृतमच्युत ||
४ ख
वैशम्पाय़न उवाच:
तथा यान्तौ तदा तात तावच्युतय़ुधिष्ठिरौ |
५ क
वैशम्पाय़न उवाच:
जग्मतुर्यत्र गाङ्गेय़ः शरतल्पगतः प्रभुः ||
५ ख
वैशम्पाय़न उवाच:
ततस्ते ददृशुर्भीष्मं शरप्रस्तरशाय़िनम् |
६ क
वैशम्पाय़न उवाच:
स्वरश्मिजालसंवीतं साय़ंसूर्यमिवानलम् ||
६ ख
वैशम्पाय़न उवाच:
उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम् |
७ क
वैशम्पाय़न उवाच:
देशे परमधर्मिष्ठे नदीमोघवतीमनु ||
७ ख
वैशम्पाय़न उवाच:
दूरादेव तमालोक्य कृष्णो राजा च धर्मराट् |
८ क
वैशम्पाय़न उवाच:
चत्वारः पाण्डवाश्चैव ते च शारद्वतादय़ः ||
८ ख
वैशम्पाय़न उवाच:
अवस्कन्द्याथ वाहेभ्यः संय़म्य प्रचलं मनः |
९ क
वैशम्पाय़न उवाच:
एकीकृत्येन्द्रिय़ग्राममुपतस्थुर्महामुनीन् ||
९ ख
वैशम्पाय़न उवाच:
अभिवाद्य च गोविन्दः सात्यकिस्ते च कौरवाः |
१० क
वैशम्पाय़न उवाच:
व्यासादींस्तानृषीन्पश्चाद्गाङ्गेय़मुपतस्थिरे ||
१० ख
वैशम्पाय़न उवाच:
तपोवृद्धिं ततः पृष्ट्वा गाङ्गेय़ं यदुकौरवाः |
११ क
वैशम्पाय़न उवाच:
परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः ||
११ ख
वैशम्पाय़न उवाच:
ततो निशम्य गाङ्गेय़ं शाम्यमानमिवानलम् |
१२ क
वैशम्पाय़न उवाच:
किञ्चिद्दीनमना भीष्ममिति होवाच केशवः ||
१२ ख
वैशम्पाय़न उवाच:
कच्चिज्ज्ञानानि ते राजन्प्रसन्नानि यथा पुरा |
१३ क
वैशम्पाय़न उवाच:
कच्चिदव्याकुला चैव वुद्धिस्ते वदतां वर ||
१३ ख
वैशम्पाय़न उवाच:
शराभिघातदुःखात्ते कच्चिद्गात्रं न दूय़ते |
१४ क
वैशम्पाय़न उवाच:
मानसादपि दुःखाद्धि शारीरं वलवत्तरम् ||
१४ ख
वैशम्पाय़न उवाच:
वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो |
१५ क
वैशम्पाय़न उवाच:
शन्तनोर्धर्मशीलस्य न त्वेतच्छमकारणम् ||
१५ ख
वैशम्पाय़न उवाच:
सुसूक्ष्मोऽपीह देहे वै शल्यो जनय़ते रुजम् |
१६ क
वैशम्पाय़न उवाच:
किं पुनः शरसङ्घातैश्चितस्य तव भारत ||
१६ ख
वैशम्पाय़न उवाच:
कामं नैतत्तवाख्येय़ं प्राणिनां प्रभवाप्ययौ |
१७ क
वैशम्पाय़न उवाच:
भवान्ह्युपदिशेच्छ्रेय़ो देवानामपि भारत ||
१७ ख
वैशम्पाय़न उवाच:
यद्धि भूतं भविष्यच्च भवच्च पुरुषर्षभ |
१८ क
वैशम्पाय़न उवाच:
सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् ||
१८ ख
वैशम्पाय़न उवाच:
संसारश्चैव भूतानां धर्मस्य च फलोदय़ः |
१९ क
वैशम्पाय़न उवाच:
विदितस्ते महाप्राज्ञ त्वं हि व्रह्ममय़ो निधिः ||
१९ ख
वैशम्पाय़न उवाच:
त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् |
२० क
वैशम्पाय़न उवाच:
स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम् ||
२० ख
वैशम्पाय़न उवाच:
ऋते शान्तनवाद्भीष्मात्त्रिषु लोकेषु पार्थिव |
२१ क
वैशम्पाय़न उवाच:
सत्यसन्धान्महावीर्याच्छूराद्धर्मैकतत्परात् ||
२१ ख
वैशम्पाय़न उवाच:
मृत्युमावार्य तरसा शरप्रस्तरशाय़िनः |
२२ क
वैशम्पाय़न उवाच:
निसर्गप्रभवं किञ्चिन्न च तातानुशुश्रुम ||
२२ ख
वैशम्पाय़न उवाच:
सत्ये तपसि दाने च यज्ञाधिकरणे तथा |
२३ क
वैशम्पाय़न उवाच:
धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे ||
२३ ख
वैशम्पाय़न उवाच:
अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् |
२४ क
वैशम्पाय़न उवाच:
महारथं त्वत्सदृशं न कञ्चिदनुशुश्रुम ||
२४ ख
वैशम्पाय़न उवाच:
त्वं हि देवान्सगन्धर्वान्ससुरासुरराक्षसान् |
२५ क
वैशम्पाय़न उवाच:
शक्त एकरथेनैव विजेतुं नात्र संशय़ः ||
२५ ख
वैशम्पाय़न उवाच:
त्वं हि भीष्म महावाहो वसूनां वासवोपमः |
२६ क
वैशम्पाय़न उवाच:
नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः ||
२६ ख
वैशम्पाय़न उवाच:
अहं हि त्वाभिजानामि यस्त्वं पुरुषसत्तम |
२७ क
वैशम्पाय़न उवाच:
त्रिदशेष्वपि विख्यातः स्वशक्त्या सुमहावलः ||
२७ ख
वैशम्पाय़न उवाच:
मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः |
२८ क
वैशम्पाय़न उवाच:
भवतो यो गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् ||
२८ ख
वैशम्पाय़न उवाच:
त्वं हि सर्वैर्गुणै राजन्देवानप्यतिरिच्यसे |
२९ क
वैशम्पाय़न उवाच:
तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् ||
२९ ख
वैशम्पाय़न उवाच:
तदस्य तप्यमानस्य ज्ञातीनां सङ्क्षय़ेण वै |
३० क
वैशम्पाय़न उवाच:
ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद ||
३० ख
वैशम्पाय़न उवाच:
ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत |
३१ क
वैशम्पाय़न उवाच:
चातुराश्रम्यसंसृष्टास्ते सर्वे विदितास्तव ||
३१ ख
वैशम्पाय़न उवाच:
चातुर्वेद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत |
३२ क
वैशम्पाय़न उवाच:
साङ्ख्ये योगे च निय़ता ये च धर्माः सनातनाः ||
३२ ख
वैशम्पाय़न उवाच:
चातुर्वर्ण्येन यश्चैको धर्मो न स्म विरुध्यते |
३३ क
वैशम्पाय़न उवाच:
सेव्यमानः स चैवाद्यो गाङ्गेय़ विदितस्तव ||
३३ ख
वैशम्पाय़न उवाच:
इतिहासपुराणं च कार्त्स्न्येन विदितं तव |
३४ क
वैशम्पाय़न उवाच:
धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् ||
३४ ख
वैशम्पाय़न उवाच:
ये च केचन लोकेऽस्मिन्नर्थाः संशय़कारकाः |
३५ क
वैशम्पाय़न उवाच:
तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभ ||
३५ ख
वैशम्पाय़न उवाच:
स पाण्डवेय़स्य मनःसमुत्थितं; नरेन्द्र शोकं व्यपकर्ष मेधय़ा |
३६ क
वैशम्पाय़न उवाच:
भवद्विधा ह्युत्तमवुद्धिविस्तरा; विमुह्यमानस्य जनस्य शान्तय़े ||
३६ ख