chevron_left आश्वमेधिक पर्व अध्याय ५०
व्रह्मो उवाच:
भूतानामथ पञ्चानां यथैषामीश्वरं मनः |
१ क
व्रह्मो उवाच:
निय़मे च विसर्गे च भूतात्मा मन एव च ||
१ ख
व्रह्मो उवाच:
अधिष्ठाता मनो नित्यं भूतानां महतां तथा |
२ क
व्रह्मो उवाच:
वुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते ||
२ ख
व्रह्मो उवाच:
इन्द्रिय़ाणि मनो युङ्क्ते सदश्वानिव सारथिः |
३ क
व्रह्मो उवाच:
इन्द्रिय़ाणि मनो वुद्धिं क्षेत्रज्ञो युञ्जते सदा ||
३ ख
व्रह्मो उवाच:
महाभूतसमाय़ुक्तं वुद्धिसंय़मनं रथम् |
४ क
व्रह्मो उवाच:
तमारुह्य स भूतात्मा समन्तात्परिधावति ||
४ ख
व्रह्मो उवाच:
इन्द्रिय़ग्रामसंय़ुक्तो मनःसारथिरेव च |
५ क
व्रह्मो उवाच:
वुद्धिसंय़मनो नित्यं महान्व्रह्ममय़ो रथः ||
५ ख
व्रह्मो उवाच:
एवं यो वेत्ति विद्वान्वै सदा व्रह्ममय़ं रथम् |
६ क
व्रह्मो उवाच:
स धीरः सर्वलोकेषु न मोहमधिगच्छति ||
६ ख
व्रह्मो उवाच:
अव्यक्तादि विशेषान्तं त्रसस्थावरसङ्कुलम् |
७ क
व्रह्मो उवाच:
चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम् ||
७ ख
व्रह्मो उवाच:
नदीपर्वतजालैश्च सर्वतः परिभूषितम् |
८ क
व्रह्मो उवाच:
विविधाभिस्तथाद्भिश्च सततं समलङ्कृतम् ||
८ ख
व्रह्मो उवाच:
आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः |
९ क
व्रह्मो उवाच:
एतद्व्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित् ||
९ ख
व्रह्मो उवाच:
लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च |
१० क
व्रह्मो उवाच:
तान्येवाग्रे प्रलीय़न्ते पश्चाद्भूतकृता गुणाः |
१० ख
व्रह्मो उवाच:
गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रय़ः ||
१० ग
व्रह्मो उवाच:
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः |
११ क
व्रह्मो उवाच:
सर्वे स्वभावतः सृष्टा न क्रिय़ाभ्यो न कारणात् ||
११ ख
व्रह्मो उवाच:
एते विश्वकृतो विप्रा जाय़न्ते ह पुनः पुनः |
१२ क
व्रह्मो उवाच:
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु |
१२ ख
व्रह्मो उवाच:
प्रलीय़न्ते यथाकालमूर्मय़ः सागरे यथा ||
१२ ग
व्रह्मो उवाच:
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति |
१३ क
व्रह्मो उवाच:
भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्प्रजापतिम् ||
१३ ख
व्रह्मो उवाच:
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः |
१४ क
व्रह्मो उवाच:
तथैव वेदानृषय़स्तपसा प्रतिपेदिरे ||
१४ ख
व्रह्मो उवाच:
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा |
१५ क
व्रह्मो उवाच:
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ||
१५ ख
व्रह्मो उवाच:
ओषधान्यगदादीनी नानाविद्याश्च सर्वशः |
१६ क
व्रह्मो उवाच:
तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् ||
१६ ख
व्रह्मो उवाच:
यद्दुरापं दुराम्नाय़ं दुराधर्षं दुरन्वय़म् |
१७ क
व्रह्मो उवाच:
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ||
१७ ख
व्रह्मो उवाच:
सुरापो व्रह्महा स्तेय़ी भ्रूणहा गुरुतल्पगः |
१८ क
व्रह्मो उवाच:
तपसैव सुतप्तेन मुच्यन्ते किल्विषात्ततः ||
१८ ख
व्रह्मो उवाच:
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः |
१९ क
व्रह्मो उवाच:
यानि चान्यानि भूतानि त्रसानि स्थावराणि च ||
१९ ख
व्रह्मो उवाच:
तपःपराय़णा नित्यं सिध्यन्ते तपसा सदा |
२० क
व्रह्मो उवाच:
तथैव तपसा देवा महाभागा दिवं गताः ||
२० ख
व्रह्मो उवाच:
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः |
२१ क
व्रह्मो उवाच:
अहङ्कारसमाय़ुक्तास्ते सकाशे प्रजापतेः ||
२१ ख
व्रह्मो उवाच:
ध्यानय़ोगेन शुद्धेन निर्ममा निरहङ्कृताः |
२२ क
व्रह्मो उवाच:
प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ||
२२ ख
व्रह्मो उवाच:
ध्यानय़ोगादुपागम्य प्रसन्नमतय़ः सदा |
२३ क
व्रह्मो उवाच:
सुखोपचय़मव्यक्तं प्रविशन्त्यात्मवत्तय़ा ||
२३ ख
व्रह्मो उवाच:
ध्यानय़ोगादुपागम्य निर्ममा निरहङ्कृताः |
२४ क
व्रह्मो उवाच:
अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम् ||
२४ ख
व्रह्मो उवाच:
अव्यक्तादेव सम्भूतः समय़ज्ञो गतः पुनः |
२५ क
व्रह्मो उवाच:
तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय़ केवलम् ||
२५ ख
व्रह्मो उवाच:
विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः |
२६ क
व्रह्मो उवाच:
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ||
२६ ख
व्रह्मो उवाच:
चित्तं चित्तादुपागम्य मुनिरासीत संय़तः |
२७ क
व्रह्मो उवाच:
यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम् ||
२७ ख
व्रह्मो उवाच:
अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम् |
२८ क
व्रह्मो उवाच:
निवोधत यथा हीदं गुणैर्लक्षणमित्युत ||
२८ ख
व्रह्मो उवाच:
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं व्रह्म शाश्वतम् |
२९ क
व्रह्मो उवाच:
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ||
२९ ख
व्रह्मो उवाच:
कर्म केचित्प्रशंसन्ति मन्दवुद्धितरा नराः |
३० क
व्रह्मो उवाच:
ये तु वुद्धा महात्मानो न प्रशंसन्ति कर्म ते ||
३० ख
व्रह्मो उवाच:
कर्मणा जाय़ते जन्तुर्मूर्तिमान्षोडशात्मकः |
३१ क
व्रह्मो उवाच:
पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम् ||
३१ ख
व्रह्मो उवाच:
तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः |
३२ क
व्रह्मो उवाच:
विद्यामय़ोऽय़ं पुरुषो न तु कर्ममय़ः स्मृतः ||
३२ ख
व्रह्मो उवाच:
अपूर्वममृतं नित्यं य एनमविचारिणम् |
३३ क
व्रह्मो उवाच:
य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम् |
३३ ख
व्रह्मो उवाच:
अग्राह्योऽमृतो भवति य एभिः कारणैर्ध्रुवः ||
३३ ग
व्रह्मो उवाच:
अपोह्य सर्वसङ्कल्पान्संय़म्यात्मानमात्मनि |
३४ क
व्रह्मो उवाच:
स तद्व्रह्म शुभं वेत्ति यस्माद्भूय़ो न विद्यते ||
३४ ख
व्रह्मो उवाच:
प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुय़ात् |
३५ क
व्रह्मो उवाच:
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ||
३५ ख
व्रह्मो उवाच:
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः |
३६ क
व्रह्मो उवाच:
प्रवृत्तय़श्च याः सर्वाः पश्यन्ति परिणामजाः ||
३६ ख
व्रह्मो उवाच:
एषा गतिरसक्तानामेष धर्मः सनातनः |
३७ क
व्रह्मो उवाच:
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ||
३७ ख
व्रह्मो उवाच:
समेन सर्वभूतेषु निःस्पृहेण निराशिषा |
३८ क
व्रह्मो उवाच:
शक्या गतिरिय़ं गन्तुं सर्वत्र समदर्शिना ||
३८ ख
व्रह्मो उवाच:
एतद्वः सर्वमाख्यातं मय़ा विप्रर्षिसत्तमाः |
३९ क
व्रह्मो उवाच:
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ||
३९ ख
गुरुरु उवाच:
इत्युक्तास्ते तु मुनय़ो व्रह्मणा गुरुणा तथा |
४० क
गुरुरु उवाच:
कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन् ||
४० ख
गुरुरु उवाच:
त्वमप्येतन्महाभाग यथोक्तं व्रह्मणो वचः |
४१ क
गुरुरु उवाच:
सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि ||
४१ ख
वासुदेव उवाच:
इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् |
४२ क
वासुदेव उवाच:
चकार सर्वं कौन्तेय़ ततो मोक्षमवाप्तवान् ||
४२ ख
वासुदेव उवाच:
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह |
४३ क
वासुदेव उवाच:
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ||
४३ ख
अर्जुन उवाच:
को न्वसौ व्राह्मणः कृष्ण कश्च शिष्यो जनार्दन |
४४ क
अर्जुन उवाच:
श्रोतव्यं चेन्मय़ैतद्वै तत्त्वमाचक्ष्व मे विभो ||
४४ ख
वासुदेव उवाच:
अहं गुरुर्महावाहो मनः शिष्यं च विद्धि मे |
४५ क
वासुदेव उवाच:
त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनञ्जय़ ||
४५ ख
वासुदेव उवाच:
मय़ि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह |
४६ क
वासुदेव उवाच:
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ||
४६ ख
वासुदेव उवाच:
ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन |
४७ क
वासुदेव उवाच:
सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् ||
४७ ख
वासुदेव उवाच:
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते |
४८ क
वासुदेव उवाच:
मय़ा तव महावाहो तस्मादत्र मनः कुरु ||
४८ ख
वासुदेव उवाच:
मय़ा तु भरतश्रेष्ठ चिरदृष्टः पिता विभो |
४९ क