chevron_left वन पर्व अध्याय ५०
वृहदश्व उवाच:
आसीद्राजा नलो नाम वीरसेनसुतो वली |
१ क
वृहदश्व उवाच:
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ||
१ ख
वृहदश्व उवाच:
अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा |
२ क
वृहदश्व उवाच:
उपर्युपरि सर्वेषामादित्य इव तेजसा ||
२ ख
वृहदश्व उवाच:
व्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः |
३ क
वृहदश्व उवाच:
अक्षप्रिय़ः सत्यवादी महानक्षौहिणीपतिः ||
३ ख
वृहदश्व उवाच:
ईप्सितो वरनारीणामुदारः संय़तेन्द्रिय़ः |
४ क
वृहदश्व उवाच:
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वय़म् ||
४ ख
वृहदश्व उवाच:
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः |
५ क
वृहदश्व उवाच:
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ||
५ ख
वृहदश्व उवाच:
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः |
६ क
वृहदश्व उवाच:
तमभ्यगच्छद्व्रह्मर्षिर्दमनो नाम भारत ||
६ ख
वृहदश्व उवाच:
तं स भीमः प्रजाकामस्तोषय़ामास धर्मवित् |
७ क
वृहदश्व उवाच:
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ||
७ ख
वृहदश्व उवाच:
तस्मै प्रसन्नो दमनः सभार्याय़ वरं ददौ |
८ क
वृहदश्व उवाच:
कन्यारत्नं कुमारांश्च त्रीनुदारान्महाय़शाः ||
८ ख
वृहदश्व उवाच:
दमय़न्तीं दमं दान्तं दमनं च सुवर्चसम् |
९ क
वृहदश्व उवाच:
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ||
९ ख
वृहदश्व उवाच:
दमय़न्ती तु रूपेण तेजसा यशसा श्रिय़ा |
१० क
वृहदश्व उवाच:
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ||
१० ख
वृहदश्व उवाच:
अथ तां वय़सि प्राप्ते दासीनां समलङ्कृतम् |
११ क
वृहदश्व उवाच:
शतं सखीनां च तथा पर्युपास्ते शचीमिव ||
११ ख
वृहदश्व उवाच:
तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता |
१२ क
वृहदश्व उवाच:
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा |
१२ ख
वृहदश्व उवाच:
अतीव रूपसम्पन्ना श्रीरिवाय़तलोचना ||
१२ ग
वृहदश्व उवाच:
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् |
१३ क
वृहदश्व उवाच:
मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता |
१३ ख
वृहदश्व उवाच:
चित्तप्रमाथिनी वाला देवानामपि सुन्दरी ||
१३ ग
वृहदश्व उवाच:
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि |
१४ क
वृहदश्व उवाच:
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वय़म् ||
१४ ख
वृहदश्व उवाच:
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् |
१५ क
वृहदश्व उवाच:
नैषधस्य समीपे तु दमय़न्तीं पुनः पुनः ||
१५ ख
वृहदश्व उवाच:
तय़ोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान् |
१६ क
वृहदश्व उवाच:
अन्योन्यं प्रति कौन्तेय़ स व्यवर्धत हृच्छय़ः ||
१६ ख
वृहदश्व उवाच:
अशक्नुवन्नलः कामं तदा धारय़ितुं हृदा |
१७ क
वृहदश्व उवाच:
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ||
१७ ख
वृहदश्व उवाच:
स ददर्श तदा हंसाञ्जातरूपपरिच्छदान् |
१८ क
वृहदश्व उवाच:
वने विचरतां तेषामेकं जग्राह पक्षिणम् ||
१८ ख
वृहदश्व उवाच:
ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम् |
१९ क
वृहदश्व उवाच:
न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रिय़म् ||
१९ ख
वृहदश्व उवाच:
दमय़न्तीसकाशे त्वां कथय़िष्यामि नैषध |
२० क
वृहदश्व उवाच:
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ||
२० ख
वृहदश्व उवाच:
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः |
२१ क
वृहदश्व उवाच:
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ||
२१ ख
वृहदश्व उवाच:
विदर्भनगरीं गत्वा दमय़न्त्यास्तदान्तिके |
२२ क
वृहदश्व उवाच:
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ||
२२ ख
वृहदश्व उवाच:
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता |
२३ क
वृहदश्व उवाच:
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ||
२३ ख
वृहदश्व उवाच:
अथ हंसा विससृपुः सर्वतः प्रमदावने |
२४ क
वृहदश्व उवाच:
एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन् ||
२४ ख
वृहदश्व उवाच:
दमय़न्ती तु यं हंसं समुपाधावदन्तिके |
२५ क
वृहदश्व उवाच:
स मानुषीं गिरं कृत्वा दमय़न्तीमथाव्रवीत् ||
२५ ख
वृहदश्व उवाच:
दमय़न्ति नलो नाम निषधेषु महीपतिः |
२६ क
वृहदश्व उवाच:
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ||
२६ ख
वृहदश्व उवाच:
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि |
२७ क
वृहदश्व उवाच:
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ||
२७ ख
वृहदश्व उवाच:
वय़ं हि देवगन्धर्वमनुष्योरगराक्षसान् |
२८ क
वृहदश्व उवाच:
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ||
२८ ख
वृहदश्व उवाच:
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः |
२९ क
वृहदश्व उवाच:
विशिष्टाय़ा विशिष्टेन सङ्गमो गुणवान्भवेत् ||
२९ ख
वृहदश्व उवाच:
एवमुक्ता तु हंसेन दमय़न्ती विशां पते |
३० क
वृहदश्व उवाच:
अव्रवीत्तत्र तं हंसं तमप्येवं नलं वद ||
३० ख
वृहदश्व उवाच:
तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते |
३१ क
वृहदश्व उवाच:
पुनरागम्य निषधान्नले सर्वं न्यवेदय़त् ||
३१ ख