chevron_left विराट पर्व अध्याय ५०
वैशम्पाय़न उवाच:
अपय़ाते तु राधेय़े दुर्योधनपुरोगमाः |
१ क
वैशम्पाय़न उवाच:
अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम् ||
१ ख
वैशम्पाय़न उवाच:
वहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः |
२ क
वैशम्पाय़न उवाच:
अभिय़ानीय़माज्ञाय़ वैराटिरिदमव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
आस्थाय़ रुचिरं जिष्णो रथं सारथिना मय़ा |
३ क
वैशम्पाय़न उवाच:
कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वय़ा ||
३ ख
अर्जुन उवाच:
लोहिताक्षमरिष्टं यं वैय़ाघ्रमनुपश्यसि |
४ क
अर्जुन उवाच:
नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर ||
४ ख
अर्जुन उवाच:
कृपस्यैतद्रथानीकं प्रापय़स्वैतदेव माम् |
५ क
अर्जुन उवाच:
एतस्य दर्शय़िष्यामि शीघ्रास्त्रं दृढधन्विनः ||
५ ख
अर्जुन उवाच:
कमण्डलुर्ध्वजे यस्य शातकुम्भमय़ः शुभः |
६ क
अर्जुन उवाच:
आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः ||
६ ख
अर्जुन उवाच:
सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् |
७ क
अर्जुन उवाच:
अत्रैव चाविरोधेन एष धर्मः सनातनः ||
७ ख
अर्जुन उवाच:
यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति |
८ क
अर्जुन उवाच:
ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति ||
८ ख
अर्जुन उवाच:
अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते |
९ क
अर्जुन उवाच:
आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः ||
९ ख
अर्जुन उवाच:
सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि |
१० क
अर्जुन उवाच:
एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः ||
१० ख
अर्जुन उवाच:
य एष तु रथानीके सुवर्णकवचावृतः |
११ क
अर्जुन उवाच:
सेनाग्र्येण तृतीय़ेन व्यवहार्येण तिष्ठति ||
११ ख
अर्जुन उवाच:
यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः |
१२ क
अर्जुन उवाच:
धृतराष्ट्रात्मजः श्रीमानेष राजा सुय़ोधनः ||
१२ ख
अर्जुन उवाच:
एतस्याभिमुखं वीर रथं पररथारुजः |
१३ क
अर्जुन उवाच:
प्रापय़स्वैष तेजोभिप्रमाथी युद्धदुर्मदः ||
१३ ख
अर्जुन उवाच:
एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः |
१४ क
अर्जुन उवाच:
एतस्य दर्शय़िष्यामि शीघ्रास्त्रं विपुलं शरैः ||
१४ ख
अर्जुन उवाच:
नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति |
१५ क
अर्जुन उवाच:
एष वैकर्तनः कर्णो विदितः पूर्वमेव ते ||
१५ ख
अर्जुन उवाच:
एतस्य रथमास्थाय़ राधेय़स्य दुरात्मनः |
१६ क
अर्जुन उवाच:
यत्तो भवेथाः सङ्ग्रामे स्पर्धत्येष मय़ा सदा ||
१६ ख
अर्जुन उवाच:
यस्तु नीलानुसारेण पञ्चतारेण केतुना |
१७ क
अर्जुन उवाच:
हस्तावापी वृहद्धन्वा रथे तिष्ठति वीर्यवान् ||
१७ ख
अर्जुन उवाच:
यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः |
१८ क
अर्जुन उवाच:
यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति ||
१८ ख
अर्जुन उवाच:
महतो रथवंशस्य नानाध्वजपताकिनः |
१९ क
अर्जुन उवाच:
वलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः ||
१९ ख
अर्जुन उवाच:
हैमं चन्द्रार्कसङ्काशं कवचं यस्य दृश्यते |
२० क
अर्जुन उवाच:
जातरूपशिरस्त्राणस्त्रासय़न्निव मे मनः ||
२० ख
अर्जुन उवाच:
एष शान्तनवो भीष्मः सर्वेषां नः पितामहः |
२१ क
अर्जुन उवाच:
राजश्रिय़ाववद्धस्तु दुर्योधनवशानुगः ||
२१ ख
अर्जुन उवाच:
पश्चादेष प्रय़ातव्यो न मे विघ्नकरो भवेत् |
२२ क
अर्जुन उवाच:
एतेन युध्यमानस्य यत्तः संय़च्छ मे हय़ान् ||
२२ ख
अर्जुन उवाच:
ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् |
२३ क
अर्जुन उवाच:
यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनञ्जय़म् ||
२३ ख