धृतराष्ट्र उवाच:
तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः |
१ क
धृतराष्ट्र उवाच:
कथमद्भुतकर्माणं भीमसेनं महावलम् ||
१ ख
धृतराष्ट्र उवाच:
चरन्तं गदय़ा वीरं दण्डपाणिमिवान्तकम् |
२ क
धृतराष्ट्र उवाच:
योधय़ामास समरे कलिङ्गः सह सेनय़ा ||
२ ख
सञ्जय़ उवाच:
पुत्रेण तव राजेन्द्र स तथोक्तो महावलः |
३ क
सञ्जय़ उवाच:
महत्या सेनय़ा गुप्तः प्राय़ाद्भीमरथं प्रति ||
३ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा कलिङ्गानां महाचमूम् |
४ क
सञ्जय़ उवाच:
रथनागाश्वकलिलां प्रगृहीतमहाय़ुधाम् ||
४ ख
सञ्जय़ उवाच:
भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् |
५ क
सञ्जय़ उवाच:
केतुमन्तं च नैषादिमाय़ान्तं सह चेदिभिः ||
५ ख
सञ्जय़ उवाच:
ततः श्रुताय़ुः सङ्क्रुद्धो राज्ञा केतुमता सह |
६ क
सञ्जय़ उवाच:
आससाद रणे भीमं व्यूढानीकेषु चेदिषु ||
६ ख
सञ्जय़ उवाच:
रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः |
७ क
सञ्जय़ उवाच:
अय़ुतेन गजानां च निषादैः सह केतुमान् |
७ ख
सञ्जय़ उवाच:
भीमसेनं रणे राजन्समन्तात्पर्यवारय़त् ||
७ ग
सञ्जय़ उवाच:
चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः |
८ क
सञ्जय़ उवाच:
अभ्यवर्तन्त सहसा निषादान्सह राजभिः ||
८ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं घोररूपं भय़ानकम् |
९ क
सञ्जय़ उवाच:
प्रजानन्न च योधान्स्वान्परस्परजिघांसय़ा ||
९ ख
सञ्जय़ उवाच:
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः |
१० क
सञ्जय़ उवाच:
यथेन्द्रस्य महाराज महत्या दैत्यसेनय़ा ||
१० ख
सञ्जय़ उवाच:
तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत |
११ क
सञ्जय़ उवाच:
वभूव सुमहाञ्शव्दः सागरस्येव गर्जतः ||
११ ख
सञ्जय़ उवाच:
अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते |
१२ क
सञ्जय़ उवाच:
महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् ||
१२ ख
सञ्जय़ उवाच:
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसय़ा |
१३ क
सञ्जय़ उवाच:
स्वानप्याददते स्वाश्च शूराः समरदुर्जय़ाः ||
१३ ख
सञ्जय़ उवाच:
विमर्दः सुमहानासीदल्पानां वहुभिः सह |
१४ क
सञ्जय़ उवाच:
कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ||
१४ ख
सञ्जय़ उवाच:
कृत्वा पुरुषकारं तु यथाशक्ति महावलाः |
१५ क
सञ्जय़ उवाच:
भीमसेनं परित्यज्य संन्यवर्तन्त चेदय़ः ||
१५ ख
सञ्जय़ उवाच:
सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु |
१६ क
सञ्जय़ उवाच:
स्ववाहुवलमास्थाय़ न न्यवर्तत पाण्डवः ||
१६ ख
सञ्जय़ उवाच:
न चचाल रथोपस्थाद्भीमसेनो महावलः |
१७ क
सञ्जय़ उवाच:
शितैरवाकिरन्वाणैः कलिङ्गानां वरूथिनीम् ||
१७ ख
सञ्जय़ उवाच:
कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः |
१८ क
सञ्जय़ उवाच:
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ||
१८ ख
सञ्जय़ उवाच:
ततो भीमो महावाहुर्विधुन्वन्रुचिरं धनुः |
१९ क
सञ्जय़ उवाच:
योधय़ामास कालिङ्गान्स्ववाहुवलमाश्रितः ||
१९ ख
सञ्जय़ उवाच:
शक्रदेवस्तु समरे विसृजन्साय़कान्वहून् |
२० क
सञ्जय़ उवाच:
अश्वाञ्जघान समरे भीमसेनस्य साय़कैः |
२० ख
सञ्जय़ उवाच:
ववर्ष शरवर्षाणि तपान्ते जलदो यथा ||
२० ग
सञ्जय़ उवाच:
हताश्वे तु रथे तिष्ठन्भीमसेनो महावलः |
२१ क
सञ्जय़ उवाच:
शक्रदेवाय़ चिक्षेप सर्वशैक्याय़सीं गदाम् ||
२१ ख
सञ्जय़ उवाच:
स तय़ा निहतो राजन्कलिङ्गस्य सुतो रथात् |
२२ क
सञ्जय़ उवाच:
सध्वजः सह सूतेन जगाम धरणीतलम् ||
२२ ख
सञ्जय़ उवाच:
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः |
२३ क
सञ्जय़ उवाच:
रथैरनेकसाहस्रैर्भिमस्यावारय़द्दिशः ||
२३ ख
सञ्जय़ उवाच:
ततो भीमो महावाहुर्गुर्वीं त्यक्त्वा महागदाम् |
२४ क
सञ्जय़ उवाच:
उद्ववर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ||
२४ ख
सञ्जय़ उवाच:
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ |
२५ क
सञ्जय़ उवाच:
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमय़ैश्चितम् ||
२५ ख
सञ्जय़ उवाच:
कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह |
२६ क
सञ्जय़ उवाच:
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् |
२६ ख
सञ्जय़ उवाच:
प्राहिणोद्भीमसेनाय़ वधाकाङ्क्षी जनेश्वरः ||
२६ ग
सञ्जय़ उवाच:
तमापतन्तं वेगेन प्रेरितं निशितं शरम् |
२७ क
सञ्जय़ उवाच:
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना |
२७ ख
सञ्जय़ उवाच:
उदक्रोशच्च संहृष्टस्त्रासय़ानो वरूथिनीम् ||
२७ ग
सञ्जय़ उवाच:
कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय़ संय़ुगे |
२८ क
सञ्जय़ उवाच:
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ||
२८ ख
सञ्जय़ उवाच:
तानप्राप्तान्महावाहुः खगतानेव पाण्डवः |
२९ क
सञ्जय़ उवाच:
चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना ||
२९ ख
सञ्जय़ उवाच:
निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश |
३० क
सञ्जय़ उवाच:
भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः ||
३० ख
सञ्जय़ उवाच:
भानुमांस्तु ततो भीमं शरवर्षेण छादय़न् |
३१ क
सञ्जय़ उवाच:
ननाद वलवन्नादं नादय़ानो नभस्तलम् ||
३१ ख
सञ्जय़ उवाच:
न तं स ममृषे भीमः सिंहनादं महारणे |
३२ क
सञ्जय़ उवाच:
ततः स्वरेण महता विननाद महास्वनम् ||
३२ ख
सञ्जय़ उवाच:
तेन शव्देन वित्रस्ता कलिङ्गानां वरूथिनी |
३३ क
सञ्जय़ उवाच:
न भीमं समरे मेने मानुषं भरतर्षभ ||
३३ ख
सञ्जय़ उवाच:
ततो भीमो महाराज नदित्वा विपुलं स्वनम् |
३४ क
सञ्जय़ उवाच:
सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ||
३४ ख
सञ्जय़ उवाच:
आरुरोह ततो मध्यं नागराजस्य मारिष |
३५ क
सञ्जय़ उवाच:
खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ||
३५ ख
सञ्जय़ उवाच:
सोऽन्तराय़ुधिनं हत्वा राजपुत्रमरिन्दमः |
३६ क
सञ्जय़ उवाच:
गुरुभारसहस्कन्धे नागस्यासिमपातय़त् ||
३६ ख
सञ्जय़ उवाच:
छिन्नस्कन्धः स विनदन्पपात गजय़ूथपः |
३७ क
सञ्जय़ उवाच:
आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ||
३७ ख
सञ्जय़ उवाच:
ततस्तस्मादवप्लुत्य गजाद्भारत भारतः |
३८ क
सञ्जय़ उवाच:
खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः ||
३८ ख
सञ्जय़ उवाच:
स चचार वहून्मार्गानभीतः पातय़न्गजान् |
३९ क
सञ्जय़ उवाच:
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ||
३९ ख
सञ्जय़ उवाच:
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः |
४० क
सञ्जय़ उवाच:
पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः |
४० ख
सञ्जय़ उवाच:
श्येनवद्व्यचरद्भीमो रणे रिपुवलोत्कटः ||
४० ग
सञ्जय़ उवाच:
छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः |
४१ क
सञ्जय़ उवाच:
खड्गेन शितधारेण संय़ुगे गजय़ोधिनाम् ||
४१ ख
सञ्जय़ उवाच:
पदातिरेकः सङ्क्रुद्धः शत्रूणां भय़वर्धनः |
४२ क
सञ्जय़ उवाच:
मोहय़ामास च तदा कालान्तकय़मोपमः ||
४२ ख
सञ्जय़ उवाच:
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् |
४३ क
सञ्जय़ उवाच:
सासिमुत्तमवेगेन विचरन्तं महारणे ||
४३ ख
सञ्जय़ उवाच:
निकृत्य रथिनामाजौ रथेषाश्च युगानि च |
४४ क
सञ्जय़ उवाच:
जघान रथिनश्चापि वलवानरिमर्दनः ||
४४ ख
सञ्जय़ उवाच:
भीमसेनश्चरन्मार्गान्सुवहून्प्रत्यदृश्यत |
४५ क
सञ्जय़ उवाच:
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् |
४५ ख
सञ्जय़ उवाच:
सम्पातं समुदीर्यं च दर्शय़ामास पाण्डवः ||
४५ ग
सञ्जय़ उवाच:
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना |
४६ क
सञ्जय़ उवाच:
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ||
४६ ख
सञ्जय़ उवाच:
छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे |
४७ क
सञ्जय़ उवाच:
विय़ोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः |
४७ ख