chevron_left विराट पर्व अध्याय ३६
वैशम्पाय़न उवाच:
स राजधान्या निर्याय़ वैराटिः पृथिवीञ्जय़ः |
१ क
वैशम्पाय़न उवाच:
प्रय़ाहीत्यव्रवीत्सूतं यत्र ते कुरवो गताः ||
१ ख
वैशम्पाय़न उवाच:
समवेतान्कुरून्यावज्जिगीषूनवजित्य वै |
२ क
वैशम्पाय़न उवाच:
गाश्चैषां क्षिप्रमादाय़ पुनराय़ामि स्वं पुरम् ||
२ ख
वैशम्पाय़न उवाच:
ततस्तांश्चोदय़ामास सदश्वान्पाण्डुनन्दनः |
३ क
वैशम्पाय़न उवाच:
ते हय़ा नरसिंहेन चोदिता वातरंहसः |
३ ख
वैशम्पाय़न उवाच:
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ||
३ ग
वैशम्पाय़न उवाच:
नातिदूरमथो यात्वा मत्स्यपुत्रधनञ्जय़ौ |
४ क
वैशम्पाय़न उवाच:
अवेक्षेताममित्रघ्नौ कुरूणां वलिनां वलम् |
४ ख
वैशम्पाय़न उवाच:
श्मशानमभितो गत्वा आससाद कुरूनथ ||
४ ग
वैशम्पाय़न उवाच:
तदनीकं महत्तेषां विवभौ सागरस्वनम् |
५ क
वैशम्पाय़न उवाच:
सर्पमाणमिवाकाशे वनं वहुलपादपम् ||
५ ख
वैशम्पाय़न उवाच:
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता |
६ क
वैशम्पाय़न उवाच:
दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम ||
६ ख
वैशम्पाय़न उवाच:
तदनीकं महद्दृष्ट्वा गजाश्वरथसङ्कुलम् |
७ क
वैशम्पाय़न उवाच:
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ||
७ ख
वैशम्पाय़न उवाच:
द्रोणेन च सपुत्रेण महेष्वासेन धीमता |
८ क
वैशम्पाय़न उवाच:
हृष्टरोमा भय़ोद्विग्नः पार्थं वैराटिरव्रवीत् ||
८ ख
वैशम्पाय़न उवाच:
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे |
९ क
वैशम्पाय़न उवाच:
वहुप्रवीरमत्युग्रं देवैरपि दुरासदम् |
९ ख
वैशम्पाय़न उवाच:
प्रतिय़ोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम् ||
९ ग
वैशम्पाय़न उवाच:
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् |
१० क
वैशम्पाय़न उवाच:
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् |
१० ख
वैशम्पाय़न उवाच:
दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे ||
१० ग
वैशम्पाय़न उवाच:
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः |
११ क
वैशम्पाय़न उवाच:
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ वाह्लिकः ||
११ ख
वैशम्पाय़न उवाच:
दुर्योधनस्तथा वीरो राजा च रथिनां वरः |
१२ क
वैशम्पाय़न उवाच:
द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ||
१२ ख
वैशम्पाय़न उवाच:
दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः |
१३ क
वैशम्पाय़न उवाच:
हृषितानि च रोमाणि कश्मलं चागतं मम ||
१३ ख
वैशम्पाय़न उवाच:
अविय़ातो विय़ातस्य मौर्ख्याद्धूर्तस्य पश्यतः |
१४ क
वैशम्पाय़न उवाच:
परिदेवय़ते मन्दः सकाशे सव्यसाचिनः ||
१४ ख
वैशम्पाय़न उवाच:
त्रिगर्तान्मे पिता यातः शून्ये सम्प्रणिधाय़ माम् |
१५ क
वैशम्पाय़न उवाच:
सर्वां सेनामुपादाय़ न मे सन्तीह सैनिकाः ||
१५ ख
वैशम्पाय़न उवाच:
सोऽहमेको वहून्वालः कृतास्त्रानकृतश्रमः |
१६ क
वैशम्पाय़न उवाच:
प्रतिय़ोद्धुं न शक्ष्यामि निवर्तस्व वृहन्नडे ||
१६ ख
अर्जुन उवाच:
भय़ेन दीनरूपोऽसि द्विषतां हर्षवर्धनः |
१७ क
अर्जुन उवाच:
न च तावत्कृतं किञ्चित्परैः कर्म रणाजिरे ||
१७ ख
अर्जुन उवाच:
स्वय़मेव च मामात्थ वह मां कौरवान्प्रति |
१८ क
अर्जुन उवाच:
सोऽहं त्वां तत्र नेष्यामि यत्रैते वहुला ध्वजाः ||
१८ ख
अर्जुन उवाच:
मध्यमामिषगृध्राणां कुरूणामातताय़िनाम् |
१९ क
अर्जुन उवाच:
नेष्यामि त्वां महावाहो पृथिव्यामपि युध्यताम् ||
१९ ख
अर्जुन उवाच:
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च |
२० क
अर्जुन उवाच:
कत्थमानोऽभिनिर्याय़ किमर्थं न युय़ुत्ससे ||
२० ख
अर्जुन उवाच:
न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतिय़ास्यसि |
२१ क
अर्जुन उवाच:
प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च सङ्गताः ||
२१ ख
अर्जुन उवाच:
अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि |
२२ क
अर्जुन उवाच:
न हि शक्ष्याम्यनिर्जित्य गाः प्रय़ातुं पुरं प्रति ||
२२ ख
अर्जुन उवाच:
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च |
२३ क
अर्जुन उवाच:
कथं न युध्येय़महं कुरून्सर्वान्स्थिरो भव ||
२३ ख
उत्तर उवाच:
कामं हरन्तु मत्स्यानां भूय़ांसं कुरवो धनम् |
२४ क
उत्तर उवाच:
प्रहसन्तु च मां नार्यो नरा वापि वृहन्नडे ||
२४ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली |
२५ क
वैशम्पाय़न उवाच:
त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः ||
२५ ख
वृहन्नडो उवाच:
नैष पूर्वैः स्मृतो धर्मः क्षत्रिय़स्य पलाय़नम् |
२६ क
वृहन्नडो उवाच:
श्रेय़स्ते मरणं युद्धे न भीतस्य पलाय़नम् ||
२६ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा तु कौन्तेय़ः सोऽवप्लुत्य रथोत्तमात् |
२७ क
वैशम्पाय़न उवाच:
तमन्वधावद्धावन्तं राजपुत्रं धनञ्जय़ः |
२७ ख
वैशम्पाय़न उवाच:
दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी ||
२७ ग
वैशम्पाय़न उवाच:
विधूय़ वेणीं धावन्तमजानन्तोऽर्जुनं तदा |
२८ क
वैशम्पाय़न उवाच:
सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम् ||
२८ ख
वैशम्पाय़न उवाच:
तं शीघ्रमभिधावन्तं सम्प्रेक्ष्य कुरवोऽव्रुवन् |
२९ क
वैशम्पाय़न उवाच:
क एष वेषप्रच्छन्नो भस्मनेव हुताशनः ||
२९ ख
वैशम्पाय़न उवाच:
किञ्चिदस्य यथा पुंसः किञ्चिदस्य यथा स्त्रिय़ः |
३० क
वैशम्पाय़न उवाच:
सारूप्यमर्जुनस्येव क्लीवरूपं विभर्ति च ||
३० ख
वैशम्पाय़न उवाच:
तदेवैतच्छिरोग्रीवं तौ वाहू परिघोपमौ |
३१ क
वैशम्पाय़न उवाच:
तद्वदेवास्य विक्रान्तं नाय़मन्यो धनञ्जय़ात् ||
३१ ख
वैशम्पाय़न उवाच:
अमरेष्विव देवेन्द्रो मानुषेषु धनञ्जय़ः |
३२ क
वैशम्पाय़न उवाच:
एकः कोऽस्मानुपाय़ाय़ादन्यो लोके धनञ्जय़ात् ||
३२ ख
वैशम्पाय़न उवाच:
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे |
३३ क
वैशम्पाय़न उवाच:
स एष किल निर्यातो वालभावान्न पौरुषात् ||
३३ ख
वैशम्पाय़न उवाच:
सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम् |
३४ क
वैशम्पाय़न उवाच:
उत्तरः सारथिं कृत्वा निर्यातो नगराद्वहिः ||
३४ ख
वैशम्पाय़न उवाच:
स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलाय़ति |
३५ क
वैशम्पाय़न उवाच:
तं नूनमेष धावन्तं जिघृक्षति धनञ्जय़ः ||
३५ ख
वैशम्पाय़न उवाच:
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् |
३६ क
वैशम्पाय़न उवाच:
न च व्यवसितुं किञ्चिदुत्तरं शक्नुवन्ति ते |
३६ ख
वैशम्पाय़न उवाच:
छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत ||
३६ ग
वैशम्पाय़न उवाच:
उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जय़ः |
३७ क
वैशम्पाय़न उवाच:
गत्वा पदशतं तूर्णं केशपक्षे परामृशत् ||
३७ ख
वैशम्पाय़न उवाच:
सोऽर्जुनेन परामृष्टः पर्यदेवय़दार्तवत् |
३८ क
वैशम्पाय़न उवाच:
वहुलं कृपणं चैव विराटस्य सुतस्तदा ||
३८ ख
वैशम्पाय़न उवाच:
शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते |
३९ क
वैशम्पाय़न उवाच:
मणीनष्टौ च वैडूर्यान्हेमवद्धान्महाप्रभान् ||
३९ ख
वैशम्पाय़न उवाच:
हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः |
४० क
वैशम्पाय़न उवाच:
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं वृहन्नडे ||
४० ख
वैशम्पाय़न उवाच:
एवमादीनि वाक्यानि विलपन्तमचेतसम् |
४१ क
वैशम्पाय़न उवाच:
प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानय़त् ||
४१ ख
वैशम्पाय़न उवाच:
अथैनमव्रवीत्पार्थो भय़ार्तं नष्टचेतसम् |
४२ क
वैशम्पाय़न उवाच:
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन |
४२ ख
वैशम्पाय़न उवाच:
एहि मे त्वं हय़ान्यच्छ युध्यमानस्य शत्रुभिः ||
४२ ग
वैशम्पाय़न उवाच:
प्रय़ाह्येतद्रथानीकं मद्वाहुवलरक्षितः |
४३ क
वैशम्पाय़न उवाच:
अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः ||
४३ ख
वैशम्पाय़न उवाच:
मा भैस्त्वं राजपुत्राग्र्य क्षत्रिय़ोऽसि परन्तप |
४४ क
वैशम्पाय़न उवाच:
अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ||
४४ ख
वैशम्पाय़न उवाच:
प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम् |
४५ क
वैशम्पाय़न उवाच:
यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह ||
४५ ख
वैशम्पाय़न उवाच:
एवं व्रुवाणो वीभत्सुर्वैराटिमपराजितः |
४६ क
वैशम्पाय़न उवाच:
समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ ||
४६ ख
वैशम्पाय़न उवाच:
तत एनं विचेष्टन्तमकामं भय़पीडितम् |
४७ क