सञ्जय़ उवाच:
इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् |
१ क
सञ्जय़ उवाच:
वभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ||
१ ख
सञ्जय़ उवाच:
ततोऽव्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् |
२ क
सञ्जय़ उवाच:
कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् |
२ ख
सञ्जय़ उवाच:
असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् ||
२ ग
सञ्जय़ उवाच:
त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः |
३ क
सञ्जय़ उवाच:
हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् |
३ ख
सञ्जय़ उवाच:
एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ||
३ ग
सञ्जय़ उवाच:
स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः |
४ क
सञ्जय़ उवाच:
नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात् ||
४ ख
सञ्जय़ उवाच:
स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् |
५ क
सञ्जय़ उवाच:
प्रसादय़ कुरुश्रेष्ठमेतदत्र मतं मम ||
५ ख
सञ्जय़ उवाच:
प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम् |
६ क
सञ्जय़ उवाच:
प्रय़ामस्त्वरिता योद्धुं सूतपुत्ररथं प्रति ||
६ ख
सञ्जय़ उवाच:
हत्वा सुदुर्जय़ं कर्णं त्वमद्य निशितैः शरैः |
७ क
सञ्जय़ उवाच:
विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ||
७ ख
सञ्जय़ उवाच:
एतदत्र महावाहो प्राप्तकालं मतं मम |
८ क
सञ्जय़ उवाच:
एवं कृते कृतं चैव तव कार्यं भविष्यति ||
८ ख
सञ्जय़ उवाच:
ततोऽर्जुनो महाराज लज्जय़ा वै समन्वितः |
९ क
सञ्जय़ उवाच:
धर्मराजस्य चरणौ प्रपेदे शिरसानघ ||
९ ख
सञ्जय़ उवाच:
उवाच भरतश्रेष्ठ प्रसीदेति पुनः पुनः |
१० क
सञ्जय़ उवाच:
क्षमस्व राजन्यत्प्रोक्तं धर्मकामेन भीरुणा ||
१० ख
सञ्जय़ उवाच:
पादय़ोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः |
११ क
सञ्जय़ उवाच:
धनञ्जय़ममित्रघ्नं रुदन्तं भरतर्षभ ||
११ ख
सञ्जय़ उवाच:
उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जय़म् |
१२ क
सञ्जय़ उवाच:
समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ||
१२ ख
सञ्जय़ उवाच:
रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती |
१३ क
सञ्जय़ उवाच:
कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ वभूवतुः ||
१३ ख
सञ्जय़ उवाच:
तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय़ पाण्डवम् |
१४ क
सञ्जय़ उवाच:
प्रीत्या परमय़ा युक्तः प्रस्मय़ंश्चाव्रवीज्जय़म् ||
१४ ख
सञ्जय़ उवाच:
कर्णेन मे महावाहो सर्वसैन्यस्य पश्यतः |
१५ क
सञ्जय़ उवाच:
कवचं च ध्वजश्चैव धनुः शक्तिर्हय़ा गदा |
१५ ख
सञ्जय़ उवाच:
शरैः कृत्ता महेष्वास यतमानस्य संय़ुगे ||
१५ ग
सञ्जय़ उवाच:
सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन |
१६ क
सञ्जय़ उवाच:
व्यवसीदामि दुःखेन न च मे जीवितं प्रिय़म् ||
१६ ख
सञ्जय़ उवाच:
तमद्य यदि वै वीर न हनिष्यसि सूतजम् |
१७ क
सञ्जय़ उवाच:
प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ||
१७ ख
सञ्जय़ उवाच:
एवमुक्तः प्रत्युवाच विजय़ो भरतर्षभ |
१८ क
सञ्जय़ उवाच:
सत्येन ते शपे राजन्प्रसादेन तवैव च |
१८ ख
सञ्जय़ उवाच:
भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ||
१८ ग
सञ्जय़ उवाच:
यथाद्य समरे कर्णं हनिष्यामि हतोऽथ वा |
१९ क
सञ्जय़ उवाच:
महीतले पतिष्यामि सत्येनाय़ुधमालभे ||
१९ ख
सञ्जय़ उवाच:
एवमाभाष्य राजानमव्रवीन्माधवं वचः |
२० क
सञ्जय़ उवाच:
अद्य कर्णं रणे कृष्ण सूदय़िष्ये न संशय़ः |
२० ख
सञ्जय़ उवाच:
तदनुध्याहि भद्रं ते वधं तस्य दुरात्मनः ||
२० ग
सञ्जय़ उवाच:
एवमुक्तोऽव्रवीत्पार्थं केशवो राजसत्तम |
२१ क
सञ्जय़ उवाच:
शक्तोऽस्मि भरतश्रेष्ठ यत्नं कर्तुं यथावलम् ||
२१ ख
सञ्जय़ उवाच:
एवं चापि हि मे कामो नित्यमेव महारथ |
२२ क
सञ्जय़ उवाच:
कथं भवान्रणे कर्णं निहन्यादिति मे मतिः ||
२२ ख
सञ्जय़ उवाच:
भूय़श्चोवाच मतिमान्माधवो धर्मनन्दनम् |
२३ क
सञ्जय़ उवाच:
युधिष्ठिरेमं वीभत्सुं त्वं सान्त्वय़ितुमर्हसि |
२३ ख
सञ्जय़ उवाच:
अनुज्ञातुं च कर्णस्य वधाय़ाद्य दुरात्मनः ||
२३ ग
सञ्जय़ उवाच:
श्रुत्वा ह्ययमहं चैव त्वां कर्णशरपीडितम् |
२४ क
सञ्जय़ उवाच:
प्रवृत्तिं ज्ञातुमाय़ाताविह पाण्डवनन्दन ||
२४ ख
सञ्जय़ उवाच:
दिष्ट्यासि राजन्निरुजो दिष्ट्या न ग्रहणं गतः |
२५ क
सञ्जय़ उवाच:
परिसान्त्वय़ वीभत्सुं जय़माशाधि चानघ ||
२५ ख
युधिष्ठिर उवाच:
एह्येहि पार्थ वीभत्सो मां परिष्वज पाण्डव |
२६ क
युधिष्ठिर उवाच:
वक्तव्यमुक्तोऽस्म्यहितं त्वय़ा क्षान्तं च तन्मय़ा ||
२६ ख
युधिष्ठिर उवाच:
अहं त्वामनुजानामि जहि कर्णं धनञ्जय़ |
२७ क
युधिष्ठिर उवाच:
मन्युं च मा कृथाः पार्थ यन्मय़ोक्तोऽसि दारुणम् ||
२७ ख
सञ्जय़ उवाच:
ततो धनञ्जय़ो राजञ्शिरसा प्रणतस्तदा |
२८ क
सञ्जय़ उवाच:
पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ||
२८ ख
सञ्जय़ उवाच:
समुत्थाप्य ततो राजा परिष्वज्य च पीडितम् |
२९ क
सञ्जय़ उवाच:
मूर्ध्न्युपाघ्राय़ चैवैनमिदं पुनरुवाच ह ||
२९ ख
सञ्जय़ उवाच:
धनञ्जय़ महावाहो मानितोऽस्मि दृढं त्वय़ा |
३० क
सञ्जय़ उवाच:
माहात्म्यं विजय़ं चैव भूय़ः प्राप्नुहि शाश्वतम् ||
३० ख
अर्जुन उवाच:
अद्य तं पापकर्माणं सानुवन्धं रणे शरैः |
३१ क
अर्जुन उवाच:
नय़ाम्यन्तं समासाद्य राधेय़ं वलगर्वितम् ||
३१ ख
अर्जुन उवाच:
येन त्वं पीडितो वाणैर्दृढमाय़म्य कार्मुकम् |
३२ क
अर्जुन उवाच:
तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम् ||
३२ ख
अर्जुन उवाच:
अद्य त्वामहमेष्यामि कर्णं हत्वा महीपते |
३३ क
अर्जुन उवाच:
सभाजय़ितुमाक्रन्दादिति सत्यं व्रवीमि ते ||
३३ ख
अर्जुन उवाच:
नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात् |
३४ क
अर्जुन उवाच:
इति सत्येन ते पादौ स्पृशामि जगतीपते ||
३४ ख
सञ्जय़ उवाच:
प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना |
३५ क
सञ्जय़ उवाच:
पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः ||
३५ ख
सञ्जय़ उवाच:
कल्प्यतां च रथो भूय़ो युज्यन्तां च हय़ोत्तमाः |
३६ क
सञ्जय़ उवाच:
आय़ुधानि च सर्वाणि सज्ज्यन्तां वै महारथे ||
३६ ख
सञ्जय़ उवाच:
उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिनः |
३७ क
सञ्जय़ उवाच:
रथोपकरणैः सर्वैरुपाय़ान्तु त्वरान्विताः ||
३७ ख
सञ्जय़ उवाच:
एवमुक्ते महाराज फल्गुनेन महात्मना |
३८ क
सञ्जय़ उवाच:
उवाच दारुकं कृष्णः कुरु सर्वं यथाव्रवीत् |
३८ ख
सञ्जय़ उवाच:
अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ||
३८ ग
सञ्जय़ उवाच:
आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम |
३९ क
सञ्जय़ उवाच:
योजय़ामास स रथं वैय़ाघ्रं शत्रुतापनम् ||
३९ ख
सञ्जय़ उवाच:
युक्तं तु रथमास्थाय़ दारुकेण महात्मना |
४० क
सञ्जय़ उवाच:
आपृच्छ्य धर्मराजानं व्राह्मणान्स्वस्ति वाच्य च |
४० ख
सञ्जय़ उवाच:
समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम् ||
४० ग
सञ्जय़ उवाच:
तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः |
४१ क
सञ्जय़ उवाच:
आशिषोऽय़ुङ्क्त परमा युक्ताः कर्णवधं प्रति ||
४१ ख
सञ्जय़ उवाच:
तं प्रय़ान्तं महेष्वासं दृष्ट्वा भूतानि भारत |
४२ क
सञ्जय़ उवाच:
निहतं मेनिरे कर्णं पाण्डवेन महात्मना ||
४२ ख
सञ्जय़ उवाच:
वभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः |
४३ क
सञ्जय़ उवाच:
चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर |
४३ ख
सञ्जय़ उवाच:
प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ||
४३ ग
सञ्जय़ उवाच:
वहवः पक्षिणो राजन्पुंनामानः शुभाः शिवाः |
४४ क
सञ्जय़ उवाच:
त्वरय़न्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे ||
४४ ख
सञ्जय़ उवाच:
कङ्का गृध्रा वडाश्चैव वाय़साश्च विशां पते |
४५ क
सञ्जय़ उवाच:
अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भय़ानकाः ||
४५ ख
सञ्जय़ उवाच:
निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे |
४६ क